(हाथ में अक्षत लेकर भगवान श्री गणेश अम्बिका जी का ध्यान करें)
श्री गणपति ध्यानम्
गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारुभक्षणम्।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम्॥
भगवती गौरी का ध्यान
नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥
ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः ध्यानं समर्पयामि।
भगवान गणेश का आवाहन
(हाथ में अक्षत लेकर भगवान श्री गणपति जी का आवाहन करें)
देवों के प्रिय विघ्ननियन्ता, लम्बोदर भव-भय हारी।
गिरिजानन्दन देव गजानन, यज्ञ-विभूषित श्रुतिधारी॥
मंगलकारी दुःख-विदारी, तेजोमय जय वरदायक।
बार-बार जय नमस्कार, स्वीकार करो हे गणनायक॥
देव आइये यहाँ बैठिये, पूजा को करिये स्वीकार।
भूर्भुवः स्वः सुख समृद्धि के, खोल दीजिये मंगल द्वार॥
गणनायक वर बुद्धि विधायक, सदा सहायक भय-भंजन।
प्रियपति, अति प्रिय वस्तु प्रदायक, जगत्राता जन-मन-रंजन॥
निधिपति, नव-निधियों के दाता, भाग्य-विधाता भव-भावन।
श्रद्धा से हम करते सादर, देव! आपका आवाहन॥
विश्व उदर में टिका आपके, विश्वरूप गणराज महान।
सर्व शक्ति संचारक तारक, दो अपने स्वरूप का ज्ञान॥
जय गणनायक सिद्धि विनायक, मंगलदायक मोक्ष प्रदाता।
हो तुम ही सबके शुभदायक, कष्ट हरो हे भाग्य विधाता ॥
ऋद्धि औ सिद्धि के स्वामी हो, पिता शुभलाभ के हो भवदाता।
माँ गौरी के साथ में आओ, दास तुम्हारा तुमको है बुलाता ॥
वन्दहु शम्भु भवानी के नन्दन , आनन्द कन्द निकन्द पति जै।
दीनन दायक ऋद्धि वा सिद्धि के , हे गणनायक मो पे पसीझें॥
बुद्धि के दाता गजानन आनन , मोरी कुबुद्धि सुबुद्धि कीजै।
मूषक वाहन छोड़ि विनायक , पूजा में आयके आसन लीजै॥
ॐ गणानां त्वा गणपति ᳬ हवामहे प्रियाणां त्वा प्रियपति ᳬ हवामहे निधीनां त्वा निधिपति ᳬ हवामहे वसो मम।
आहमजानि गर्भधमा त्वमजासि गर्भधम्॥
एह्येहि हेरम्ब महेशपुत्र समस्तविघ्नौघविनाशदक्ष
माङ्गल्यपूजाप्रथमप्रधान गृहाण पूजां भगवन् नमस्ते॥
हे हेरम्ब ! त्वमेह्येहि ह्यम्बिकाव्यम्बकात्मज।
सिद्धिबुद्धिपते ! त्र्यक्ष ! लक्षलाभपितुः पितः॥
नागास्यं नागहारं त्वां गणराजं चतुर्भुजम्।
भूषितं स्वायुधैर्दिव्यैः पाशाङ्कुशपरश्वधैः ॥
आवाहयामि पूजार्थं रक्षार्थ च मम् क्रतोः।
इहाऽगत्य गृहाण त्वं पूजां याग च रक्ष मे॥
आगच्छ देव देवेश, गौरीपुत्र विनायक।
तवपूजा करोमद्य, अत्रतिष्ठ परमेश्वर॥
ॐ भूर्भुवः स्वः श्री सिद्धिबुद्धिसहिताय गणपतये नमः इहागच्छ इह तिष्ठ॥
(यह कहकर अक्षत गणेश जी को समर्पित कर देंवें।
ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः, गणपतिमावाहयामि, स्थापयामि, पूजयामि च।
पुनः अक्षत लेकर गणेशजी की दाहिनी ओर गौरी जी का आवाहन करें।
भगवती गौरी का आवाहन
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम्॥
हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम्।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम्॥
ॐ भूर्भुवः स्वः गौर्यै नमः, गौरीमावाहयामि, स्थापयामि, पूजयामि च।
प्रतिष्ठा
ॐ मनो जूतिर्ज्जुषतामाज्ज्यस्य बृहस्प्पतिर्य्यज्ञमिमं तनोत्वरिष्ट्टं य्यज्ञ ᳬ समिमं दधातु।
विश्श्वे देवास ऽइह मादयन्तामो३म्प्रतिष्ठ॥
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च।
अस्यै देवत्वमर्चायै मामहेति च कश्चन॥
गणेशाम्बिके सुप्रतिष्ठिते वरदे भवेताम्।
प्रतिष्ठापूर्वकम् आसनार्थे अक्षतान् समर्पयामि गणेशाम्बिकाभ्यां नमः।
(आसन के लिए अक्षत समर्पित करे)।
पाद्य, अर्ध्य, आचमनीय, स्नानीय और पुनराचमनीय हेतु निम्नलिखित मन्त्र पढते हुए जल चढायें
ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्॥
एतानि पाद्यार्घ्याआचमनीय स्नानीय पुनराचमनीयानि समर्पयामि गणेशाम्बिकाभ्यां नमः।
दुग्धस्नान
ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः।
पयस्वतीः प्रदिशः सन्तु मह्यम्॥
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम्।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पयः स्नानं समर्पयामि।
दधिस्नान
ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः।
सुरभि नो मुखा करत्प्र ण आयू ಆ षि तारिषत्॥
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दधिस्नानं समर्पयामि।
घृत स्नान
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम।
अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम्॥
नवनीतसमुत्पन्नं सर्वसंतोषकारकम्।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, घृतस्नानं समर्पयामि।
मधुस्नान
ॐ मधुव्वाताऽऋतायते मधुक्षरन्ति सिन्धवः। माध्वीर्नः सन्त्वोषधीः॥
मधुनक्तमुतोषसो मधुमत्पार्थिव ಆ रजः। मधुद्यौरस्तु नः पिता॥
मधुमान्नो व्वनस्पतिर्म्मधुमाँऽ२ अस्तु सूर्यः माध्वीर्गावो भवन्तु नः॥
पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मधुस्नानं समर्पयामि।
शर्करास्नान
ॐ अपा ಆ रसमुद्वयस ಆ सूर्ये सन्त ಆ समाहितम्।
अपा ಆ रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम्॥
इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम्।
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, शर्करास्नानं समर्पयामि।
पञ्चामृतस्नान
ॐ पञ्चनद्यः सरस्वतीमपि यन्ति सस्त्रोतसः।
सरस्वती तु पञ्चधा सोदेशेऽभवत्सरित्॥
पञ्चामृतं मयानीतं पयो दधि घृतं मधु।
शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पञ्चामृतस्नानं समर्पयामि।
गन्धोदकस्नान
ॐ अ ಆ शुना ते अ ಆ शुः पृच्यतां परुषा परुः।
गन्धस्ते सोममवतु मदाय रसो अच्युतः॥
मलयाचल सम्भूत चन्दनेन विमिश्रितम्।
इदं गन्धोदकस्नानं कुङ्कुमाक्तं च गृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, गन्धोदकस्नानं समर्पयामि।
शुद्धोदकस्नान
ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्तऽआश्विनाः
श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये
कर्णायामा अवलिप्तारौद्रा नभोरूपाः पार्जन्याः॥
गङ्गे च यमुने चैव गोदावरि सरस्वती।
नर्मदे सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, शुद्धोकस्नानं समर्पयामि।
आचमन
शुद्धोकदकस्नानान्ते आचमनीयं जलं समर्पयामि।
अभिषेक
“श्रीगणपतित्यथर्वशीर्षं श्रीसूक्तं च पाठेन अभिषेकं कुर्यात्”
हरिः ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्वमसि । त्वमेव केवलं कर्तासि। त्वमेव केवलं धर्तासि। त्वमेव केवलं हर्तासि। त्वमेव सर्वं खल्विदं ब्रह्मासि। त्व साक्षादात्मासि नित्यम्। ऋतं वच्मि। सत्यं वच्मि। अव त्वं माम्। अव वक्तारम्। अव श्रोतारम्। अव दातारम्। अव धातारम्। अवानूचानमव शिष्यम्। अव पश्चातात्। अव पुरस्तात्। अव चोत्तरात्तात्। अव दक्षिणात्तात्। अव चोर्ध्वात्तात्। अवाधरात्तात्। सर्वतो मां पाहि-पाहि समन्तात्। त्वं वाङ्मयस्त्वं चिन्मयः। त्वमानंदमसयस्त्वं ब्रह्ममयः। त्वं सच्चिदानन्दाद्वितीयोऽसि। त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि। सर्वं जगदिदं त्वत्तो जायते। सर्वं जगदिदं त्वत्तस्तिष्ठति। सर्वं जगदिदं त्वयि लयमेष्यति। सर्वं जगदिदं त्वयि प्रत्येति। त्वं भूमिरापोऽनलोऽनिलो नभः। त्वं चत्वारि वाक्पदानि। त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः। त्वं देहत्रयातीतः। त्वं कालत्रयातीतः। त्वं मूलाधार स्थितोऽसि नित्यं। त्वं शक्ति त्रयात्मकः। त्वां योगिनो ध्यायन्ति नित्यम्। त्वं ब्रह्मा त्वं विष्णुस्त्वं रूद्रस्त्वं इंद्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम्। गणादि पूर्वमुच्चार्य वर्णादिं तदनन्तरम्। अनुस्वारः परतरः। अर्धेन्दुलसितम्। तारेण रुद्धम्। एतत्तव मनुस्व रूपम्। गकारः पूर्वरूपम्। अकारो मध्यमरूपम्। अनुस्वारश्चान्त्यरूपम्। बिन्दुरूत्तररूपम्। नादः सन्धानम्। संहिता संधिः सैषा गणेश विद्या। गणक ऋषिः निचृद्गायत्रीच्छंदः। श्रीमहागणपतिर्देवता। ॐ गं गणपतये नमः। एकदन्ताय विद्महे। वक्रतुण्डाय धीमहि। तन्नो दन्ती प्रचोदयात्। एकदन्तं चतुर्हस्तं पाशमङ्कुश धारिणम्। अभयं वरदं हस्तैर्विभ्राणं मूषकध्वजम्। रक्तं लंबोदरं शूर्प कर्णकं रक्तवाससम्। रक्तगंधानुलिप्ताङ्गं रक्तपुष्पैः सुपुजितम्। भक्तानुकम्पिनं देवं जगत्कारण मच्युतम्। आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम्। एवं ध्यायति यो नित्यं स योगी योगिनां वरः। नमो व्रातपतये। नमो गणपतये। नम: प्रमथपतये। नमस्तेऽस्तु लंबोदरायै एकदन्ताय। विघ्ननाशिने शिवसुताय। श्रीवरदमूर्तये नमो नमः।
ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्त्रजाम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह॥१॥
तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं विन्देयं, गामश्वं पुरूषानहम्॥२॥
अश्वपूर्वां रथमध्यां, हस्तिनादप्रमोदिनीम्।
श्रियं देवीमुप ह्वये, श्रीर्मा देवी जुषताम्।।३।।
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्।
पद्मेस्थितां पद्मवर्णां तामिहोप ह्वये श्रियम्॥४॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्। तां पद्मिनीमीं शरणं प्र पद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणे॥५॥
आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तव वृक्षोऽक्ष बिल्वः।
तस्य फलानि तपसा नुदन्तु या अन्तरा याश्च बाह्या अलक्ष्मीः॥६॥
उपैतु मां देवसखः, कीर्तिश्च मणिना सह।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्, कीर्तिमृद्धिं ददातु मे॥७॥
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्।अभूतिमसमृद्धिं च, सर्वां निर्णुद मे गृहात्॥८॥
गन्धद्वारां दुराधर्षां, नित्यपुष्टां करीषिणीम्।
ईश्वरीं सर्वभूतानां, तामिहोप ह्वये श्रियम्॥९॥
मनसः काममाकूतिं, वाचः सत्यमशीमहि।
पशूनां रूपमन्नस्य, मयि श्रीः श्रयतां यशः॥१०॥
कर्दमेन प्रजा भूता मयि सम्भव कर्दम।
श्रियं वासय मे कुले मातरं पद्ममालिनीम्॥११॥
आपः सृजन्तु स्त्रिग्धानि चिक्लीत वस मे गृहे।
नि च देवीं मातरं श्रियं वासय मे कुले॥१२॥
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्।
चन्द्रां हिरण्मयीं लक्ष्मीं, जातवेदो म आ वह॥१३॥
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम्।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह॥१४॥
तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम्॥१५॥
य: शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्।
सूक्तं पंचदशर्चं च श्रीकाम: सततं जपेत्॥१६॥
ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रुपमश्विनौ व्यात्तम् । इष्णन्निषाणामुम इषाण सर्वलोकम्म इषाण॥ ॐ सर्वेषां वाऽएष वेदाना ಆ रसो यत्साम सर्वेषामेवैनमेतद्वेदाना ಆ रसेनाभिषिञ्चति
ॐ शान्तिः शान्तिः सुशान्तिर्भवतु सर्वारिष्ट शान्तिर्भवतु। ॐ अमृताभिषेकोऽस्तु। अस्त्वमृताभिषेकः।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्याम् नमः अभिषेकं समर्पयामि।
(अभिषेकोदकं नेत्रे स्पृशेत्।)
शुद्धोदकस्नान
ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्तऽआश्विनाः
श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये
कर्णायामा अवलिप्तारौद्रा नभोरूपाः पार्जन्याः॥
गङ्गे च यमुने चैव गोदावरि सरस्वती।
नर्मदे सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, शुद्धोकस्नानं समर्पयामि।
आचमन
शुद्धोकदकस्नानान्ते आचमनीयं जलं समर्पयामि।
वस्त्र
ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः।
तं धीरासः कवय उन्नयन्ति स्वाध्यो३ मनसा देवयन्तः॥
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम्।
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, वस्त्रं समर्पयामि।
आचमन
वस्त्रान्ते आचमनीयं जलं समर्पयामि।
उपवस्त्र
ॐ सुजातो ज्योतिषा सह शर्म वरूथमाऽसदत्स्वः।
वासो अग्ने विश्वरूप ಆ सं व्ययस्व विभावसो॥
यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, उपवस्त्रं (उपवस्त्राभावे रक्तसूत्रं) समर्पयामि।
आचमन
उपवस्त्रान्ते आचमनीयं जलं समर्पयामि।
यज्ञोपवीत
ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात्।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः॥
यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीततेनोपनह्यामि।
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्।
उपवीतं मया दत्तं गृहाण परमेश्वर॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, यज्ञोपवीतं समर्पयामि।
आचमन
यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि।
चन्दन
ॐ त्वां गन्धर्वा अखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः।
त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत॥
श्रीखण्डं चन्दनं दिव्यं गंधाढ्यं सुमनोहरम्।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, चन्दनानुलेपनं समर्पयामि।
अक्षत
ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विन्द्र ते हरी॥
अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण परमेश्वर॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, अक्षतान् समर्पयामि।
पुष्पमाला
ॐ ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः।
अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः॥
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।
मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पमालां समर्पयामि।
दूर्वा
ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि।
एवा नो दूर्वे प्रतनुसहश्रेण शतेन च॥
दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्।
आनीतांस्तव पूजार्थं गृहाण गणनायक॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दूर्वाङ्कुरान् समर्पयामि।
सिन्दूर
ॐ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः।
घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः॥
सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सिन्दूरं समर्पयामि।
अबीर गुलाल आदि नाना परिमल द्रव्य
ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा ಆ सं परि पातु विश्वतः॥
अबीरं च गुलालं च हरिद्रादिसमन्वितम्।
नाना परिमलं द्रव्यं गृहाण परमेश्वर॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नानापरिमलद्रव्याणि समर्पयामि।
सुगन्धिद्रव्य
ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा ಆ सं परि पातु विश्वतः॥
दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम्।
गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सुगन्धिद्रव्यं समर्पयामि।
धूप
ॐ धूरसि धूर्व्व धूर्व्वन्तं धूर्व्वतं योऽस्मान् धूर्व्वति तं धूर्व्वयं वयं धूर्व्वामः।
देवानामसि वह्नितम ಆ सस्नितमं पप्रितमं जुष्टतमं देवहूतमम्॥
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, धूपमाघ्रापयामि।
दीप
ॐ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा।
अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्च स्वाहा॥
ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा॥
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेश त्रैलौक्यतिमिरापहम्॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रत्यक्ष दीपं दर्शयामि।
हस्तप्रक्षालन
‘ॐ हृषीकेशाय नमः’ कहकर हाथ धो ले।
नैवेद्य
- साधार पात्रे संस्थाप्य।
- मूल मंत्रेण जलेन संप्रोक्ष्य।
- गन्ध पुष्पाभ्याम् आच्छाद्य।
- धेनुमुद्रया अमृतीकृत्य।
- घण्टावादनम् पूर्वकं अन्तर्पट् निधाय।
(नैवेद्य को प्रोक्षित कर गन्ध पुष्पादि से आच्छादित करें। तदनन्तर जल से चतुष्कोण घेरा लगाकर भगवान के आगे रखें)
ॐ नाभ्या आसीदन्तरिक्ष ಆ शीर्ष्णो द्यौः समवर्तत।
पद्भ्यां भूमिर्दिशः श्रोत्राँत्तथा लोकाँ२ अकल्पयन्॥
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्॥
पूर्वापोशानम् समर्पयामि।
ॐ अमृतोपस्तरणमसि स्वाहा।
ॐ प्राणाय स्वाहा। ॐ अपानाय स्वाहा।
मध्ये पानीयं समर्पयामि।
ॐ व्यानाय स्वाहा। ॐ उदानाय स्वाहा। ॐ समानाय स्वाहा।
उत्तरापोऽशनम् समर्पयामि।
ॐ अमृतापिधानमसि स्वाहा।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नैवेद्यं निवेदयामि।
आचमन
नैवेद्यान्ते आचमनीयं जलं समर्पयामि।
ऋतुफल
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व ಆ हसः॥
इदं फलं मया देव स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, ऋतुफलानि समर्पयामि।
आचमन
फलान्ते आचमनीयं जलं समर्पयामि।
उत्तरापोऽशन
ॐ मध्ये-मध्ये पानीयं समर्पयामि। उत्तरापोशनं समर्पयामि हस्तप्रक्षालनं समर्पयामि मुखप्रक्षालनं समर्पयामि।
करोद्वर्तन
(मलय चन्दन समर्पित करें)
ॐ अ ಆ शुना ते अ ಆ शुः पृच्यतां परुषा परुः।
गन्धस्ते सोममवतु मदाय रसो अच्युतः॥
चन्दनं मलयोद्भुतं कस्तूर्यादिसमन्वितम्।
करोद्वर्तनकं देव गृहाण परमेश्वर।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, करोद्वर्तनकं चन्दनं समर्पयामि।
ताम्बूल
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः॥
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मुखवासार्थम् एलालवंगपूगीफलसहितं ताम्बूलं समर्पयामि।
दक्षिणा
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम॥
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, कृतायाः पूजायाः सा द्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि।
आरती
ॐ इद ಆ हविः प्रजननं मे अस्तु दशवीर ಆ सर्वगण ಆ स्वस्तये।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि।
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त॥
ॐ आ रात्रि पार्थिव ಆ रजः पितुरप्रायि धामभिः।
दिवः सदा ಆ सि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः॥
देवा लम्बोदर गिरजा नन्दना, देवा पूर्ण करो मनोकामना।
देवा सिद्ध करो सब कामना, देवा लम्बोदर गिरजा नन्दना॥
देवा लम्बोदर गिरजा नन्दना…..
हे मनभावन, अति सुख पावन, तुम गौरी नन्दना।
हे दुःखहर्ता, हे सुखकर्ता विद्यादायी, हे षडानना ॥
देवा लम्बोदर गिरजा नन्दना…..
रुणझुण-रुणझुण पैंजनी बाजत, चलत मस्त मुचुकुन्दना।
प्रथम पूज्य तुम देव गजानन, गौरीशंकर प्रिय नन्दना॥
देवा लम्बोदर गिरजा नन्दना…..
जो प्रभु तुम्हरी आरती गावै, मिटै विघ्न कटत फन्दना।
देवा लम्बोदर गिरजा नन्दना…..
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, अरार्तिकं समर्पयामि।
मन्त्र पुष्पांजलि
ॐ मालतीमल्लिकाजाती-शतपत्रादिसंयुताम्।
पुष्पांलिं गृहाणेश तव पादयुगार्पितम्॥
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः॥
ॐ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे।
स मे कामान्कामकामाय मह्यम् कामेश्वरो वैश्रवणो ददातु।
कुबेराय वैश्रवणाय महाराजाय नमः॥
ॐ स्वस्ति। साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समंतपर्यायी स्यात्सार्वभौमः सार्वायुषान्तादा परार्धात्पृथिव्यै समुद्रपर्यंताया एकराळिति॥
तदप्येषः श्लोकोऽभिगीतो।
मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे।
आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति ॥
ॐ विश्वतश्चक्षुरुत विश्वतो मुखों विश्वतोबाहुरुत विश्वतस्पात्।
सं बाहुभ्यां धमति सं पतत्रैर्द्यावा भूमी जनयन् देव एकः॥
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि। तन्नोः दन्ती प्रचोदयात्॥
ॐ कात्यायन्यै विद्महे कन्याकुमार्यै धीमहि। तन्नोः देवी प्रचोदयात्॥
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मन्त्र पुष्पाञ्जलिं समर्पयामि।
प्रदक्षिणा
ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः।
तेषा ಆ सहस्रयोजनेऽव धन्वानि तन्मसि।
यानि कानि च पापानि जन्मान्तरकृतानि च।
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रदक्षिणां समर्पयामि।
विशेषार्घ्य
(ताम्रपात्र में जल, चन्दन, अक्षत, फल, फूल, दूर्वा और दक्षिणा रखकर अर्घ्यपात्र को हाथ में लेकर निम्नलिखित मन्त्र पढ़ें)
ॐ रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक।
भक्तानामभयं कर्ता त्राता भव भवार्णवात्॥
द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो।
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद॥
गृहाणाघ्र्यमिमं देव सर्वदेवनमस्कृतम्।
अनेन सफलार्घ्येण वरदोऽस्तु सदा मम।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, विशेषार्घ्य समर्पयामि।
प्रार्थना
निजैरोषधीष्तपर्यन्तम् कराद्यै सुरौघान्कलाभिः सुधास्त्राविणीभिः॥ दिनेशांशुसन्ताप हारं द्विजेशं शशाङ्क स्वरूपं गणेशं नमामः॥
ॐ विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय।
नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते॥
भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय।
विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते॥
नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः नमस्ते रुद्ररूपाय करिरूपाय ते नमः।
विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे भक्तप्रियाय देवाय नमस्तुभ्यंविनायक॥
लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय।
निर्विविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति फलप्रदेति।
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्यो गणेश वरदो भव नित्यमेव॥
त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया।
सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः॥ सर्वेश्वरी सर्वमाता शर्वाणी हरवल्लभा सर्वज्ञा।
सिद्धिदा सिद्धा भव्या भाव्या भयापहा नमो नमस्ते॥
शरणागत दीनार्त परित्राण परायणे।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु॥
क्षमा प्रार्थना
ॐ आवाहनम् न जानामि, न जानामि तवार्चनम् ।
पूजां चैव न जानामि, क्षमस्व परमेश्वरः॥
अन्यथां शरणम् नास्ति, त्वमेव शरणम् मम्।
तस्मात्कारुण्यभावेन् रक्षस्व परमेश्वर॥
भूमौस्खलितपादानां भूमिरेवावलम्बनम्।
त्वयिजाता पराधानाम् त्वमेव शरणम् मम्॥
मत्समो नास्ति पापिष्ठस्त्वत्समोनास्ति पापहा।
इतिमत्वा दयासिन्धो यथेच्छसि तथा कुरु॥
गतं पापं गतं दुख॔ गतं दारिद्यमेव च।
आगता सुख सम्पत्तिः पुण्योहं तव दर्शनात्॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर।
यत्पूजितम् मयादेव परिपूरणम् तदस्तु मे ॥
यदक्षरं पदभ्रष्टं मात्राहीनं च यद्भवेत् ।
तत्सर्वं क्षम्यताम् देव प्रसीद परमेश्वरः॥
अपराध सहस्त्राणि क्रियन्तेऽहर्निशं मया।
दासोऽयमिति मां मत्वाक्षमस्व परमेश्वरः॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रार्थनापूर्वकं नमस्कारान् समर्पयामि।
अर्पणम्
गणेशपूजने कर्म यन्न्यूनमधिकं कृतम्।
तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम॥
अनया पूजया गणेशाम्बिके प्रीयेताम् न मम।
अन्ते – आसनाद्यः जलं निक्षिप्य ललाटे मृदा तिलकं धारयेत्
यथा…
यस्मिन् स्थाने कर्म कृत्वा शक्रो हरति तत्कर्मम्।
तन्मृदा लक्ष्म कुर्वीत ललाटे तिलकाकृति॥
श्री विघ्नराज प्रसादात् कर्तव्यामुककर्म निर्विघ्न समाप्तिश्चास्तु।
संकलनकर्ता – पंडित विश्वनाथ द्विवेदी ‘वाणी रत्न’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक – “हरि हर हरात्मक” ज्योतिष संस्थान
संपर्क सूत्र – ०७०८९४३४८९९ , ०६२६०५१६२१६
“श्री हरिहरात्मकम् देवें सदा मुद मंगलमय हर्ष। सुखी रहे परिवार संग अपना भारतवर्ष॥”