जगज्जननी माता दुर्गा धर्म, अर्थ, काम और मोक्ष चतुर्विध पुरुषार्थ को प्रदान करने वाली हैं। अखिल ब्रह्माण्डनायिका, मातेश्वरी दुर्गा परमेश्वर की उन प्रधान शक्तियों में से एक हैं, जिनको समय समय पर अपनी आवश्यकतानुसार प्रकटित कर परब्रह्म परमात्मा ने विश्व का कल्याण किया है।
एकै शक्ति: परमेश्वरस्य भिन्नाचतुर्या व्यवहारकाले।
पुरुषेषु विष्णुभगे भवानी, समरे च दुर्गा प्रलये च काली॥
इनकी आराधना मनुष्य श्रद्धा भक्तिपूर्वक “यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम्” के अनुसार जिस कामना से जिस वस्तु की इच्छा करता है, अल्पप्रयास से ही उसकी सिद्धि अवश्य होती है।
आद्याशक्ति भगवती दुर्गा अपने उपासक भक्तों को सदैव सकल पदार्थ प्रदान करती हैं।
माँ दुर्गा मूर्ति प्राण प्रतिष्ठा एवम् पूजन विधि
अग्न्युत्तारणविधिः
आचार्यः पात्रान्तरे दुर्गा प्रतिमां निधाय घृतेनोपलि उपरि जलधारां कुर्यात् ।
(आचार्य, माँ दुर्गा की मूर्ति को घी से लेपित करके पात्र में विराजमान करके निम्न मन्त्रों से जलधारा अर्पित करें)
ॐ स॒मु॒द्रस्य॒ त्वाव॑क॒याग्ग्ने॒ परि॑ व्व्ययामसि ।
पाव॒को ऽअ॒स्म्मब्भ्य॑ಆशि॒वो भ॑व ॥१॥
ॐ हि॒मस्य॑ त्वा जरायुणाग्ग्ने परिं व्व्ययामसि ।
पाव॒को ऽअ॒स्म्मब्भ्य॑ಆशि॒वो भ॑व ॥२॥
ॐ उप॒ ज्ज्मन्नुप॑ वेत॒से ऽव॑तर नदीष्ष्वा।
अग्ग्ने पि॒त्तम॒पाम॑सि॒ मण्ण्ड्रेकि ताभि॒रागहि॒ सेमं नो॑ य॒ज्ञं पा॑व॒कव॑र्ण्णಆशि॒वं कृ॑धि ॥३॥
ॐ अ॒पामि॒दं न्यय॑नःಆसमु॒द्रस्य॑ नि॒वेश॑नम् ।
अ॒त्र्यस् ऽअ॒स्म्मत॑पत्र्तु हेतयः पाव॒को अ॒स्म्मब्भ्य॑ಆ शि॒वो भ॑व॥४॥
ॐ अग्ने॑ पाव॒क रोचिषा॑ म॒न्द्रया॑ देव जिह्वया॑।
आ दे॒वान्नव॑क्षि यक्षिं च॥५॥
ॐ सनः पावक दीदि॒वोऽग्ने॑ दे॒वाँ२॥ऽइ॒हाव॑ह।
उप य॒ज्ञ ಆ ह॒विश्र्च॑ नः॥६॥
ॐ पावकया यश्चि तर्य॑न्त्या कृपा क्षाम॑न्नु॒रु॒च ऽउषसो न भानुना॑।
तूर्व्वन्न वाम॒न्नेत॑शस्य॒ नू रण ऽआ यो घृणे न त॑तृषा॒णो अ॒जरः॥७॥
ॐ नम॑स्ते॒ हर॑से शोचिषे नम॑स्ते ऽअस्त्व॒र्चिषे।
अ॒त्र्यस् ऽअ॒स्म्मत॑पत्र्तु हेतयः पाव॒को अ॒स्म्मब्भ्य॑ಆ शि॒वो भ॑व॥८॥
ॐ नृ॒षदे॒ व्वेड॑प्पसृ॒षदे॒ व्वेर्ड् ब॑र्हिषदे॒ व्वेड्।
व्व॑न॒सदे॒ व्वेट् स्व॒र्व्विदे व्वेट् ॥९॥
ॐ ये दे॒वा दे॒वानां य्यज्ञिया॑ य्यज्ञिया॑ना ಆ संव्वत्स॒रीण॒मुप॑भागमास॑ते।
अह्रुतादो॑ ह॒विषो॑ य॒ज्ञे ऽअ॒स्मिन्त्स्व॒र्य॑ पि॑बत्र्तु॒ मधु॑नो घृ॒तस्य॑॥१०॥
ॐ ये दे॒वा दे॒वेष्ष्वधि॑ देव॒त्त्व माय॒त्र्ये व्ब्रह्म॑णः पुर ऽए॒तारों ऽअस्य।
येब्भ्यो न ऽऋ॒ते पव॑ते॒ धाम॒ किञ्च॒न न ते दि॒वो न पृ॑थि॒व्व्या अधि॒ स्न्नुषु॑॥११॥
ॐ प्प्रा॒णदा ऽअंपान॒दा व्यानदा व्व॑र्च्चोदा व्व॑रिवो॒दाः।
अ॒त्र्यस् ऽअ॒स्म्मत॑पत्र्तु हेतयः पाव॒को अ॒स्म्मब्भ्य॑ಆ शि॒वो भ॑व॥१२॥
इत्यग्न्युत्तारणं कृत्वा, प्राणप्रतिष्ठां कुर्यात् । तद्यथा स्वर्णमयीप्रधानप्रतिमां हस्तेन संस्पृश्य, बीजमन्त्रान् जपेत् ।
प्राणप्रतिष्ठां
(अर्थात अग्न्युतारण करके स्वर्ण निर्मित प्रधान प्रतिमा को बायें हाथ की हथेली में रखते हुए उसे दाहिने हाथ की हथेली से ढँक कर निम्नलिखित बीज मन्त्रों का उच्चारण करते हुए प्राणप्रतिष्ठा करें मूर्ति पर अक्षत छोड़कर षोडशोपचार, पंचोपचार या यथालब्धोपचार से पूजन करें।)
ॐ आँ ह्रीं क्रों यं रं लं वं शं षं सं हं सः अस्यां मूर्तौ प्राणा इह प्राणाः।
(पुनः) आं ह्रीं क्रों यं रं लं वं शं षं सं हं सः अस्यां मूर्तौ जीव इह स्थितः।
पुनः आं ह्रीं क्रों यं रं लं वं शं षं सं हं सः अस्यां मूर्तौ सर्वेन्द्रियाणि वाङ्मनस्त्वक्-चक्षुः श्रोत्र- जिव्हा घ्राण-पाणि पाद-पायूपस्थानि इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा।
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च अस्यै देवत्वमर्चायै मामहेति च कश्चन ।।१।।
आगच्छ वरदे देवि! दैत्यदर्पनिषूदिनि । पूजां गृहाण सुमुखि नमस्ते शङ्करप्रिये ॥ २॥
सर्वतीर्थमयं वारि सर्वदेवसमन्विता ।इमं घटं समागच्छ तिष्ठ देवगणैः सह ॥ ३॥
दुर्गे देवि समागच्छ सान्निध्यमिह कल्पय। बलिपूजां गृहाण त्वमष्टाभिः शक्तिभिः सह ।।४।।
कल्याणजननीं सत्यां कामदां करुणाकराम् । अनन्तशक्तिसम्पन्नां दुर्गामावाहयाम्यहम् ।।५।।
एह्येहि दुर्गे दुरितौघनाशिनि प्रचण्ड दैत्यौघ-विनाशकारिणी । उमे महेशार्द्ध शरीरधारिणी स्थिरा भव त्वं मम यज्ञकर्मणि ।।६।।
ॐ मनो॑ जूतिर्ज्जुषतामाज्ज्य॑स्य॒ बृह॒स्प्पति॑र्य॒ज्ञ मि॒मं त॑नो॒त्वरि॑ष्टं य्यज्ञ ಆ समि॒मं द॑धातु विश्वे॑ दे॒वा स॑ ऽइ॒ह मा॑दयान्तामोँ३ प्रति॑ष्ठ।
इति मन्त्रेण प्रतिष्ठां कृत्वा पूजयेत् । उपरोक्त मन्त्रों से प्रतिष्ठा करके पूजन प्रकरण प्रारम्भ करें।
भगवती माँ दुर्गा पूजन
भैरव ध्यान
ॐ करकलितकपालः कुण्डली दण्डपाणि स्तरुणतिमिरनीलो व्यालयज्ञोपवीती।
क्रतुसमयसपर्या विघ्नविच्छेदहेतुर्जयति बटुकनाथः सिद्धिदः साधकानाम्॥
रक्तपुष्पं गृहीत्वा, दुगदिव्या ध्यानं कुर्यात् ध्यानम्
रक्तपुष्पं गृहीत्वा, दुर्गादेव्या ध्यानं कुर्यात् ( लाल फूल लेकर देवी दुर्गा जी का ध्यान करें)
अथ देवी ध्यानम्
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवाल खेट विलसद्धस्ताभिरासेविताम्।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं
विभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे॥१॥
कालाभ्राभां कटाक्षैररिकुलभयदां मौलि बद्धेन्दुरेखां
शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम्।
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं
घ्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः॥२॥
घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं
हस्ताऽब्जैर्दधतीं घनान्त विलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम्॥३॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। ध्यानार्थे गन्धाक्षतपुष्पाणि समर्पयामि।
आवाहनम्
ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्त्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह
ॐ स॒हस्स्र॑शीर्षो॒ पुरु॑षः सहस्त्राक्षः स॒हस्र॑पात् ।
स भूमि॑ ಆ स॒र्व्वत॑स्पृत्त्वात्त्य॑तिष्ठद्दशाङ्गुलम् ॥
ॐ आगच्छ वरदे देवि दैत्यदर्पनिषूदिनि।
पूजां गृहाण सुमुखि नमस्ते शङ्करप्रिये॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। दुर्गा देवीमावाहयामि।
(यदि प्रतिष्ठित प्रतिमा हो तो आवाहन की जगह पुष्पाञ्जलि समर्पित करें)
आवाहनार्थे पुष्पाञ्जलिं समर्पयामि।
आसनम्
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥
ॐ पुरुष ऽए॒वेद ಆ सर्व्व य्यद्भूतं य्यच्च॑ भा॒व्वय॒म्।
उ॒तामृ॑त॒त्त्वस्येशा॑नो॒ यन्ने॑नाति॒रोहति॥
ॐ अनेकरत्नसंयुक्तं नानामणिगणान्वितम्।
इदं हेममयं दिव्यमासनं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। आसनं समर्पयामि। आसनार्थे पुष्पाणि समर्पयामि।
पाद्यम्
अश्वपूर्वां रथमध्यां हस्तिनाद प्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम्॥
ॐ ए॒तावा॑नस्य महि॒मातो ज्ज्यायाँश्श्च॒ पूरु॑षः।
पादो॑ऽस्य॒ व्विश्वा॑ भू॒तानि॑ त्र्त्रिपाद॑स्या॒मृतं दि॒वि॥
ॐ गङ्गादिसर्वतीर्थेभ्यो मया प्रार्थनयाहृतम्।
तोयमेतत् सुखस्पर्शं पाद्यार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। पादयोः पाद्यं समर्पयामि।
अर्घ्यम्
कां सोऽस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मेस्थितां पद्मवर्णां तामिहोपह्वये श्रियम्॥
ॐ त्रि॒पादूर्ध्व ऽउदै॒त्पुरु॑षः पादो॑ऽस्ये॒हाभ॑व॒त्पुनः।
ततो व्विष्ष्वङ् व्यक्कामत्साशनानशने ऽअ॒भि ॥ निधीनां सर्वदेवानां त्वमनर्घ्यगुणा ह्यसि। सिंहोपरिस्थिते देवि! गृहाणाऽर्घ्यं नमोऽस्तु ते॥
ॐ गन्धपुष्पाक्षतैर्युक्तमर्घ्य सम्पादितं मया।
गृहाण त्वं महादेवि प्रसन्ना भव सर्वदा॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। हस्तयोः अर्घ्य समर्पयामि।
आचमनम्
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्।
तां पद्मिनीमी शरणं प्रपद्ये ऽअलक्ष्मीर्में नश्यतां त्वां वृणे॥
ॐ ततो॑ वि॒राड॑जायत व्वि॒राजो॒ ऽअधि॒ पूरु॑षः।
स जातो ऽअत्त्य॑रिच्च्यत पश्श्चाद् भूमि॒मथो॑ पुरः ॥
कर्पूरण सुगन्धेन सुरभिस्वादु शीतलम्।
तोयमाचमनीयार्थं देवीदं प्रतिगृह्यताम्॥
ॐ आचम्यतां त्वया देवि! भक्तिं मे ह्यचलां कुरु।
ईप्सितं मे वरं देहि परत्रा च पराङ्तिम्॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। आचमनं समर्पयामि।
स्नानम् (शुद्ध जल से स्नान कराएं)
ॐ जाह्नवीतोयमानींतं शुभं कर्पूरसंयुतम्।
स्नापयामि सुरश्रेष्ठे! त्वां पुत्रदिफलप्रदाम्॥
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्।
तदिदं कल्पितं देवि स्नानार्थं प्रतिगृह्यताम॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। स्नानं जलं समर्पयामि।
स्नानाङ्ग आचमन
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। स्नानान्ते पुनराचमनीयं जलं समर्पयामि
मधुपर्क
ॐ यन्मधुनो मधव्यं परमर्ठ. रूपमन्नाद्यम्।
तेनाऽहं मधुनो मघव्येन परमेण रूपेणान्नाद्येन परमो मघव्यो ऽन्नादोऽसानि॥
ॐ दधिमध्वाज्यसंयुक्त पात्रयुग्म समन्वितम्।
मधुपर्कं गृहाण त्वं वरदा भव शोभने॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। मधुपर्कं समर्पयामि। मधुपर्कान्त आचमनीयं समर्पयामि।
पयः स्नानम् (गाय के दूध से स्नान कराएं)
ॐ पयः पृथि॒व्व्यां पय॒ ऽओष॑धीषु पयो दि॒व्व्य॒ न्न्तिरक्षे पयोधाः।
पयस्वती प्प्र॒दिशः सन्तु मह्यम् ॥
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम्।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम्॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। पयः स्नानं समर्पयामि। पयः स्नानान्ते शुद्धोदकस्नानं समर्पयामि।
दधिस्नानम् (दही से स्नान कराएं)
ॐ दधिक्राब्णो अकारिषञ्ञिष्ण्णोरश्श्व॑स्य व्वाजिनः।
सूर॒भि नो मुखा कर॒त्त्प्रण॒ ऽआयु॑ಆषि तारिषत् ॥
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्।
दध्यानीतं मया देवि स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। दधिस्नानं समर्पयामि। दधिस्नानान्ते शुद्धोदकस्नानं समर्पयामि।
घृत स्नानम् (गाय के घी से स्नान कराएं)
ॐ घृ॒तम्मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृते शिश्र्व॒तो घृ॒तं व॑स्य॒ धाम॑ ।
अ॒नुष्ष्व॒धमाव॑ह मा॒दय॑स्व॒ स्वाहा॑ कृतं व्वृषभ व्यक्षि हुव्वयम् ॥
नवनीतसमुत्पन्नं सर्वसंतोषकारकम्।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। घृतस्नानं समर्पयामि। तदन्ते शुन्दोदकस्नानं समर्पयामि।
मधुस्नानम् (शहद से स्नान कराएं)
ॐ मधु व्वाता॑ ऽऋताय॒ते मधु॑ क्षरन्ति॒सिन्ध॑वः।
माद्धीर्न्न स॒न्त्वोष॑धीः॥
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्त्पार्त्थिवಆरजः।
मधु धौरस्तु नः पि॒ता॥
मधु॑मान्नो॑नो॒ व्वन॒स्पति॒र्म्मधु॑माँ२ ऽअस्तु॒ सूर्व्वः।
माद्धीर्ग्गावों भवन्तु नः॥
पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। मधुस्नानं समर्पयामि। मधुस्नानान्ते शुद्धोदकस्नानं समर्पयामि।
शर्करास्नानम् (शक्कर से स्नान कराएं)
ॐ अ॒पा ಆ रस॒मुदद्वयसः॒ सूर्य्ये सन्त॑ಆ स॒माहि॑तम्।
अ॒पा ಆ रस॑स्य॒ यो रस॒स्तं व्वों गृह्णाम्म्युत्त॒ममु॑पया॒म गृ॑हीतोऽसीन्द्रा॑य त्त्वा॒ जुष्ट॑गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्त्वा॒ जुष्ट॑तमम्॥
इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम्।
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। शर्करास्नानं समर्पयामि। तदन्ते शुद्धोदकस्नानं समर्पयामि।
पञ्चामृतस्नानम् (पञ्चामृत से स्नान कराएं)
उपैतु मां देवसखः कीर्तिश्च मणिना सह।
प्रादुर्भूतो सुराष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे॥
ॐ पञ्च॑ न॒द्यः सर॑स्वती॒मपि यन्ति॒ सस्त्रोतसः॑।
सर॑स्वती॒तु प॑ञ्च॒धा सो दे॒शेऽभ॑वत्स॒रित्॥
पयो दधि घृतं चैव मधु च शर्करायुतम् ।
पञ्चामृतं मयाऽऽनीतं स्नानार्थं प्रतिगृह्यताम् ।।
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। पञ्चामृतस्नानं समर्पयामि। तदन्ते शुद्धोदकस्नानं समर्पयामि।
गन्धोदकस्नानम् (मलय चन्दन मिश्रित जल से स्नान कराएं)
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥
मलयाचल सम्भूतं चन्दनागरुमिश्रितम्।
चन्दनं देविदेवेशि स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। गन्धोदकस्नानं समर्पयामि। तदन्ते शुद्धोदकस्नानम् समर्पयामि।
उद्वर्तन (उबटन) स्नानम् (सुगन्धित तैल से स्नान कराएं)
ॐ अಆशुना॑ ते अ॒ಆशुः पृ॑च्च्यतां परु॑षाः परुः।
ग॒न्न्धस्ते॒ सोम॑मवतु मदा॑य॒ रसो ऽअच्यु॑तः ॥
नानासुगन्धिद्रव्यं च चन्दनं रजनीयुतम्।
उद्वर्तनं मया दत्तं स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। उद्वर्तनस्नानं समर्पयामि। उद्वर्तनस्नानान्ते शुद्धोदकस्नानं समर्पयामि।
शुद्धोदकस्नानम् (शुद्ध जल से स्नान कराएं)
ॐ शुद्धवा॑लः स॒र्व्वशु॑द्धवालो मणि॒वाल॒स्त ऽआ॑श्श्विनाः श्येतः श्येताक्षोऽरु॒णस्ते रु॒द्राय॑ पशुपत॑ये कर्ण्णा वामा ऽअ॑वलिप्पता रौद्रा नर्भोरूपाः पार्ज्जन्न्याः॥
एलाशीर सुवासितैः सुकुसुमैर्गङ्गादितीर्थोदकै मणिक्यादिक मौक्तिका ऽमृतयुतैः स्वच्छैः सुवर्णोदकैः।
मन्त्रान् वैदिक तान्त्रिकान् परिपठन् सानन्दमत्यादरात् स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥
गङ्गा च यमुना चैव गोदावरि सरस्वती।
नर्मदा सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम्॥
शुद्धं यत्सलिलं दिव्यं गङ्गाजलसमं स्मृतम्।
समर्पितं मया भक्त्या स्नानार्थं प्रतिगृह्यताम॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। शुद्धोकस्नानं समर्पयामि।
स्नानाङ्ग आचमन
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। शुद्धोकदकस्नानान्ते आचमनीयं जलं समर्पयामि।
पादुकार्पणम् (चरणपादुकायें)
नवरत्नयुते मयाऽर्पित कमनीये तपनीयपादुके।
सविलासमिदं पदद्वयं कृपया देवि! तयोर्निघीयताम्॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। चरणयोः पादुके समर्पयामि।
वस्त्र (वस्त्र साडी धारण कराएं)
उपैतु मां देवसखः कीर्तिश्च मणिना सह।
प्रादुर्भूतो सुराष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे॥
ॐ तस्म्मा॑द्य॒ज्ञात्सर्व्वहुतः सम्भृतं पृषदाज्ज्यम्।
पशूँस्ताँश्च॑क्क्रे व्वाय॒व्वयानारण्ण्या ग्ग्राम्याश्श्च॒ ये॥
पट्टयुग्म मया दत्तं कञ्चुकेन समन्वितम्।
परिधेहि कृपां कृत्वा मातर्दुर्गार्तिनाशिनि॥
ॐ वस्त्र सोमदेवत्यं लज्जायास्तु निवारणम्।
मया निवेदितं भक्तया गृहाण परमेश्वरि॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। वस्त्रं कञ्चुकीयं च समर्पयामि। (अलङ्काराभावेऽक्षतान् समर्पयामि)
आचमन
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। वस्त्रान्ते आचमनीयं जलं समर्पयामि।
उपवस्त्रम् (चुनरी, ओढनी, धारण कराएं तथा उपवस्त्र के अभाव में रक्तसूत्र धारण कराएं)
उपैतु मां देवसखः कीर्तिश्च मणिना सह।
प्रादुर्भूतो सुराष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे॥
ॐ तस्म्मा॑द्य॒ज्ञात्सर्व्वहुतः सम्भृतं पृषदाज्ज्यम्।
पशूँस्ताँश्च॑क्क्रे व्वाय॒व्वयानारण्ण्या ग्ग्राम्याश्श्च॒ ये॥
ॐ यामाश्रित्य महामाया जगत्सम्मोहिनीं सदा।
तस्यै ते परमेशायै कल्पयाम्युत्तरीयकम्॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। उपवस्त्रं समर्पयामि।
आचमन
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। उपवस्त्रान्ते आचमनीयं जलं समर्पयामि।
केशपाशसंस्करणम् (कंघी करें)
बहुभिरगरुधूपैः सादरं धूपयित्वा भगवति तव केशान् कङ्कतर्मार्जयित्वा।
सुरभिभिररविन्दैश्चम्पकैश्चाऽ चयित्वा झटिति कनकसूत्रैर्जूटयन् वेष्टयामि॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। केशपाशसंस्करणं समर्पयामि। (अलङ्काराभावेऽक्षतान् समर्पयामि)
सौवीराञ्जनम् (सुरमा, कज्जल लगाएं)
सौवीराञ्जनमिदमम्ब चक्षुषोस्ते विन्यस्तं कनक शलाकया मया यत्।
तन्नूनं मलिनमपि त्वदक्षिसङ्गाद् ब्रह्मेन्द्राद्यभिलषणीयतामियाय॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। सौवीराञ्जनं समर्पयामि। (अलङ्काराभावेऽक्षतान् समर्पयामि)
अलङ्कारान् कङ्कणम् (कंगन धारण कराएं)
माणिक्यमुक्ता मणिखण्डयुक्ते सुवर्णकारेण च संस्कृते ये।
ते किङ्किणीभिः स्वरिते सुवर्णे मयाऽर्पिते देवि गृहाण कङ्कणे॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। हस्तयोः कङ्कणे समर्पयामि। (अलङ्काराभावेऽक्षतान् समर्पयामि)
कर्णभूषणम् (कानों में कुण्डल धारण कराएं)
ययोः शुभान्याखचितानि मातर्माणिक्य खण्डानि सुशोभिनानि।
ताटङ्कयुग्मे कनकस्य कृत्वा मयाऽर्पित देवि ! गृहाण चैते॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। कर्णयोः कुण्डले समर्पयामि। (अलङ्काराभावेऽक्षतान् समर्पयामि)
कण्ठाभूषणम् (कण्ठ में स्वर्ण का हार धारण कराएं)
मातस्त्वदर्थं मणिमौक्तिकाभिः कृतं मनोज्ञं कलकण्ठ भूषणम्।
मयैव कण्ठे तव देवि चाऽर्पितं ग्रैवेयकं नाम गृहाण भूषणम्॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। कण्ठे ग्रैवेयकं समर्पयामि। (अलङ्काराभावेऽक्षतान् समर्पयामि)
अंङ्गदम् (बाजूबन्द धारण कराएं )
हेम्ना कृतं ह्यङ्गदयुग्मकं च मनोहरं सुन्दरचित्रयुक्तम् ।
बाह्वोर्गृहाणाऽऽशु मयाऽर्पितं ते मनोज्ञमाभूषण भूषणोत्तमम्
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। बाह्वो अङ्गदे समर्पयामि। (अलङ्काराभावेऽक्षतान् समर्पयामि)
अङ्गुलीयकम् (मुद्रिका अथवा अंगूठी धारण करवायें)
प्रवाल गोमेदमयैश्च रत्नैः कृतां तथा हेममयां मनोहराम्।
तस्यां कुरु त्वं मुखवीक्षणं च गृहाण देव्याङ्गुलिमुद्रिकां च॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। करयोरङ्गुलिमुद्रिकां समर्पयामि। (अलङ्काराभावेऽक्षतान् समर्पयामि)
कटिभूषणम् (कमर में करधनी धारण करवायें)
काञ्चीं शुभां हाटकनिर्मितां मया त्रैलोक्यमातः कटिभूषणाय।
दत्तां यथेमां त्वमजे च धत्से ह्युन्द्धर्तुमस्मान् वह मातृगर्भात्॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। कटिदेशे काञ्चीं समर्पयामि। (अलङ्काराभावेऽक्षतान् समर्पयामि)
नुपुरम् (पैरों में पायल धारण कराएं)
सुसुन्दरे हारकनिर्मिते द्वे पादाङ्गदे नूपुरनामधेये।
गृहाण मातः पदयोः प्रदत्ते सुकिङ्किणीभिश्च विराजिते ते॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। पादयोः नूपुरे समर्पयामि। (अलङ्काराभावेऽक्षतान् समर्पयामि)
मुकुटम् (सिर पर मुकुट धारण कराएं)
मातस्तवेमं मुकुटं हरिन्मणि प्रवाल मुक्तामणिभिर्विराजितम् ।
गारुत्मतैश्चाऽपि मनोहरं कृतं गृहाण मात: शिरसो विभूषणम्॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। शिरसि मुकुटं समर्पयामि। (अलङ्काराभावेऽक्षतान् समर्पयामि)
आभूषणम्
ॐ हारकङ्कणकेयूरमेखलाकुण्डलादिभिः।
रत्नाढ्यं हीरकोपेतं भूषणं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। आभूषणं समर्पयामि। (अलङ्काराभावेऽक्षतान् समर्पयामि)
गन्धम् (चन्दन)
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥
ॐ त्वा॑ग॑न्धर्व्वा अ॑खन॒स्त्वामिन्द्र॒स्त्वां बृह॒स्प्पतिः।
त्वामॊषधे सोमो राजा॑ वि॒द्वान्यक्ष्मा॑दमुच्च्यत ॥
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम्।
विलेपनं च देवेशि चन्दनं प्रतिगृह्यताम॥
ॐ परमानन्द सौभाग्य परिपूर्ण दिगन्तरे।
गृहाण परमं गन्धं कृपया परमेश्वरि॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। चन्दनं, गन्धं समर्पयामि।
सौभाग्यसूत्रम् (सौभाग्यसूत्र नारा अर्पित करें)
ॐ सौभाग्यसूत्रं वरदे सुवर्णमणिसंयुतम्।
कण्ठे बध्नामि देवेशि सौभाग्यं देहि मे सदा
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। सौभाग्यसूत्रं समर्पयामि। (अलङ्काराभावेऽक्षतान् समर्पयामि)
हरिद्राम (हल्दी अर्पित करें)
हरिद्रारञ्जिते देवि सुख सौभाग्य दायिनी।
तस्मात् त्वां पूजयाम्यत्र सुखं शान्तिं प्रयच्छ मे॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। हरिद्रां समर्पयामि।
कुङ्कुम (कुंकुम रोली समर्पित करें)
ॐ कुङ्कुमं कामदं दिव्यं कामिनीकामसम्भवम्।
कुङ्कुमेनार्चिता देवि प्रसीद परमेश्वरि॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। कुङ्कुमं समर्पयामि।
अक्षत (चावल अर्पित करें)
मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः॥
ॐ अक्षन्नमी॑मदन्त॒ ह्यव॑ प्रि॒या ऽअघूषत।
अस्तोषत स्वभानवो व्विप्प्र नवि॑ष्ठया मती योजान्न्विन्द्र ते हरी।
अक्षतान् निर्मलान् शुद्धान् मुक्ताफलसमन्वितान्।
गृहाणेमान् महादेवि! देहि मे निर्मलां धियम्
अक्षताश्च देव देवेशि कुङ्कुमाक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण परमेश्वरी॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। अक्षतं समर्पयामि।
कज्जलम् (काजल अर्पित करें)
ॐ चक्षुर्भ्यां कज्जलं रम्यं सुभगे शान्तिकारकम्।
कर्पूर ज्योति समुत्पन्नं गृहाण परमेश्वरि॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। कज्जलं समर्पयामि।
अतर (इत्र, सुगन्धितैल)
जननि चम्पकतैलमिदं पुरो मृगमदोऽयमयं पटवासकः।
सुरभिगन्धमिदं च चतुःसमं सपदि सर्वमिदं प्रतिगृह्यताम्॥
ॐ चन्दनागरुकर्पूरैः संयुतं कुङ्कुमं तथा।
कस्तूर्यादिसुगन्धाश्चसर्वाङ्गेषु विलेपनम्॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। अङ्गेषु विलेपनार्थम् अत्तरं सुगन्धितैलं समर्पयामि।
सिन्दूर
ॐ अर्हिरिव भोगैः पर्य्येति बाहुं ज्याया॑ ह॒तं प्य॑रि॒ बाधमानः।
ह॒स्त॒ग्घ्नोव्विश्श्वा॑ व्व॒युना॑नि वि॒द्वान्यु मान्युमा॑ಆसं प्परि॑पातु वि॒श्वतः॥
सिन्दूरमरुणाभासं जपाकुसुमसन्निभम् । पूजिताऽसि मया देवि प्रसीद परमेश्वरि॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। सिन्दूरं समर्पयामि।
नानपरिमलद्रव्य
ॐ हरिद्रारंजिते देवि! सुखसौभाग्यदायिनि।
तस्मात्त्वां पूजयाम्यत्रा सुखशान्तिं प्रयच्छ मे॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। नानापरिमलद्रव्याणि समर्पयामि।
सौभाग्यपेटिका
हरिद्रां कुङ्कुम चैव सिन्दूरादिसमन्वितम्।
सौभाग्यपेटिकामेतां गृहाण परमेश्वरि॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। सौभाग्यपेटिकां समर्पयामि।
विल्वपत्र
ॐ अमृतोद्भवः श्रीवृक्षो महादेवि प्रियः सदा।
विल्वपत्रां प्रयच्छामि पवित्रां ते सुरेश्वरि॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। बिल्वपत्रं समर्पयामि।
दूर्वाङ्कुर
तृणकान्तमणिप्रख्यहरिताभिः सुजातिभिः।
वूर्वाभिराभिर्भवतीं पूजयामि महेश्वरि॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। दूर्वाङ्कुरान् समर्पयामि।
पुष्प
मनसः काममाकृतिं वाचः सत्यमशीमहि।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः॥
ॐ यत्पुरु॑षं व्वयदधुः कति॒धा व्व्य॑कल्प्पयन्।
मुख॒ङ्किम॑स्यासी॒त्किं बाहू किमूरू पादा उच्च्येते॥
ॐ मन्दारपारिजातादि पाटलीकेतकानि च।
जातीचम्पकपुष्पाणि गृहाणेमानि शोभने॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। पुष्पं समर्पयामि।
पुष्पमाला
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे।
नि च देवीं मातरं श्रियं वासय मे कुले॥
ॐ ओष॑धीः प्प्रति॑मोदध्वं पुष्ष्पवतीः प्र॒सूर्वरीः।
अश्श्ववा॑ ऽइव स॒जित्त्व॑रीव्वी॑रुधः पारयि॒ष्ण्णवः॥
पद्म शङ्खज पुष्पादि शतपत्रैर्विचित्रताम् । पुष्पमालां प्रयच्छामि गृहाण त्वं सुरेश्वरि ।।।
ॐ सुरभिपुष्पनिचयैः ग्रथितां शुभमालिकाम्।
ददामि तव शोभार्थं गृहाण परमेश्वरि॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। पुष्पमाल्यां समर्पयामि।
अंङ्ग पूजन
वामहस्ते पुष्पं गृहीत्वा दक्षिणेनार्चयेत्
- ॐ दुर्गायै नमः पादौ पूजयामि।
- ॐ महाकाल्यै नमः, गुल्फौ पूजयामि।
- ॐ मङ्गलायै नमः, जानुद्रवं पूजयामि।
- ॐ कात्यायन्यै नमः, ऊरुद्वयं पूजयामि।
- ॐ भद्रकाल्यै नमः, कटिं पूजयामि।
- ॐ कमलवासिन्यै नमः, नाभिं पूजयामि।
- ॐ शिवायै नमः, उदरं पूजयामि।
- ॐ क्षमायै नमः हृदयं पूजयामि।
- ॐ कौमार्यै नमः, स्तनौ पूजयामि।
- ॐ उमायै नमः, हस्तौ पूजयामि।
- ॐ महागौर्यै नमः, दक्षिणबाहुं पूजयामि।
- ॐ वैष्णव्यै नमः, वामबाहुं पूजयामि।
- ॐ रमायै नमः, स्कन्धौ पूजयामि।
- ॐ स्कन्दमात्रे नमः कण्ठं पूजयामि।
- ॐ महिषासुरमर्दिन्यै नमः, नेत्रे पूजयामि।
- ॐ सिंहवाहिन्यै नमः, मुखं पूजयामि।
- ॐ माहेश्वर्यै नमः शिरः पूजयामि।
- ॐ कात्यायन्यै नमः, सर्वाङ्गं पूजयामि।
धूप
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्।
सूक्तं पञ्चदशचं च श्रीकामः सततं जपेत्॥
ॐ धूर॑सि॒ धूर्व्व धूर्व्वन्तं॒ धूर्व्वतं य्योऽस्मान् धूर्व्वति॒ तं धूर्व्ववं व्यंयं धूर्व्वामः।
दे॒वाना॑मसि॒ व्वहि॑तम॒ಆसस्न्नितमं पप्प्रितमंजुष्ट॑तम॑ देव॒हूत॑मम्॥
ॐ दशाङ्ग गुग्गुलं धूपं चन्दनागरुसंयुतम्।
समर्पितं मया भक्त्या महादेवि प्रगृह्यताम्॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। धूपमाघ्रापयामि।
दीप
सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे
भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीद मह्यम्॥
ॐ अ॒ग्निर्ज्ज्योति॒ज्ज्योति॑र॒ग्निः स्वाहा सूर्य्यो र्ज्ज्योतिः र्ज्ज्योति॒ सूर्य॒ स्वाहा॑ अ॒ग्निर्व्वर्च्चो ज्योति॒र्व्वर्च्च स्वाहाः सूर्य्यो व्वर्च्चो ज्ज्योति॒र्व्वर्च्चः स्वाहा॑।
ज्ज्योतिः सूर्य्यः सूर्य्यो ज्ज्योतिः स्वाहा॑॥
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेशि त्रैलोक्यतिमिरापहम्॥
ॐ घृतवर्तिसमायुक्तं महातेजो महोज्वलम्।
दीपं दास्यामि देवेशि! सुप्रीता भव सर्वदा॥
ॐ शुभं भवतु कल्याणमारोग्यं पुष्टिवर्धनम्।
आत्मतत्त्वप्रबोधाय दीपज्योतिर्नमोऽस्तु ते॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। दीपं दर्शयामि।
दीपं प्रदर्शयेत् उपरान्ते हस्तः प्रक्षालनम् (हाथ धो लें)
नैवेद्य
आर्द्रां पुष्करिणीं यष्टिं सुवर्णा हेममालिनीम्।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥
ॐ नाब्भ्यां ऽआसीदन्तरि॑क्षಆ शीर्ष्णो द्यौः सम॑वर्त्तत।
प॒द्भ्यां भूमि॒र्द्दिश॒हः श्रोत्र्त्रात्तथा॑ लो॒काँ२ ऽअंकल्प्यन्॥
ॐ अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम्।
नैवेद्यं गृह्यतां देवि भक्तिं मे ह्यचलां कुरु॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। नैवेद्यं निवेदयामि।
ॐ प्राणाय स्वाहा, अपानाय स्वाहा, व्यानाय स्वाहा, समानाय स्वाहा, उदानाय स्वाहा, ब्रह्मणे नमः, मध्ये पानीयम्, उत्तरापोषणं हस्तप्रक्षालनं मुखप्रक्षालम् । इति आचमनीयं जलं समर्पयामि।
ऋतुफल
ॐ द्राक्षाखर्जूरकदलीपनसाम्रकपित्थकम्।
नारिकेलेक्षुजम्ब्वादि फलानि प्रतिगृह्यताम्॥
ॐ नारिकेलं च नारंगं कलिंगं मंजिरं तथा।
उर्वारुकञ्चदेवेशि-फलान्येतानि गृह्यताम्॥
ॐ भूर्भुवः स्वः श्री जगदम्बायै दुर्गादैव्यै नमः। ऋतृफलं समर्पयामि।
आचमन
ॐ कामारिवल्लभे देवि कुर्वाचमनमम्बिके।
निरन्तरमहं वन्दे चरणौ तव चण्डिके॥
ॐ भूर्भुवः स्वः श्री जगदम्बायै दुर्गादैव्यै नमः। आचमनीयं जलं समर्पयामि।
करोद्वर्तन
ॐ अशुಆना॑ ते अ॒ಆशुः पृ॑च्च्यतां परु॑षाः परुः।
ग॒न्धस्ते॒ सोम॑मवतु॒ मदा॑य रसो ऽअच्यु॑तः॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। करोद्वर्तनार्थे गन्धं समर्पयामि।
ताम्बूलपूङ्गीफल
तां म ऽआवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतिं गावो दास्योऽश्वान् विन्देयं पुरुषानहम्॥
ॐ स॒प्तास्या॑सन्न्परि॒धय॒स्त्र्त्रिः स॒प्त स॒मिधः कृ॒ताः।
दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अव॑न॒न्यु॑रुषं प॒शुम्
ॐ एलालवङ्कस्तूरीकर्पूरैः पुष्पवासिताम्।
वीटिकां मुखवासार्थसमर्पयामि सुरेश्वरि॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। ताम्बूलपूगीफलं समर्पयामि।
दक्षिणा
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्।
सूक्तं पञ्चदर्श च श्रीकामः सततं जपेत्॥
ॐ हिर॒ण्ण्य॒गर्ब्भः सम॑वर्त्तताग्ग्रे भू॒तस्य॑ जातः पति॒रेक॑ ऽआसीत्।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्म्मै॑ दे॒वाय॑ ह॒विषा॑ व्विधेम ॥
ॐ पूजाफलसमृद्ध्यर्थं तवाग्रे द्रव्यमीश्वरि।
स्थापितं तेन मे प्रीता पूर्णान् कुरु मनोरथान्॥
अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीये पूजयित्वा च वस्त्रैः।
मिलित विविधमुक्तैर्दिव्य लावण्ययुक्तां जननि! कनकवृष्टिं दक्षिणां तेऽर्पयामि॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। द्रव्यदक्षिणां समर्पयामि।
राजोपचारान् (छत्रम् अर्थात छाता अर्पित करें)
ॐ ध्रुवाऽसि ध्रुवोऽयं यज॑मानो॒ऽस्मिन्ना॒यत॑ने प्र॒जया॑ प॒शुभि॑र्भूयात्।
घृ॒तेन॑ द्यावापृथिवी पूर्येथामिन्द्र॑स्य छदिर॑सि विश्वज॒नस्य॑ छाया॥
छत्रं देवि जगद्धात्रि धर्म वात प्रनाशनम्।
गृहाण हे महामाये! सौभाग्यं सर्वदा कुरु॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। छत्रं समर्पयामि।
चामरम् (चँवर)
ॐ अहाव्यग्ने ह॒विरा॒स्ये॒ ते स्रुचीव घृतं च॒म्बीव सोमः।
वा॒ज॒सनि॑ಆ र॒यिम॒स्मे सु॒वीरै प्रश॒स्तं धेहि य॒शसे बृह॒न्त॑म्॥
चामरं हे महादेवि ! चमरीपुच्छनिर्मितम्।
गृहीत्वा पापराशीनां खण्डनं सर्वदा कुरु॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। चामरं समर्पयामि।
दर्पणम् (काँच, शीशा)
ॐ रज॒ता हरि॑णी॒: सीसा युजो॑ य॒ज्यन्ते॒ कर्म॑भिः।
अश्व॑स्य वा॒जिन॑स्त्व॒चि सिमाः शम्यन्तु शम्य॑न्तीः दर्पणं विमलं रम्यं शुद्धबिम्बप्रदायकम्।
आत्मबिम्बप्रदर्शार्थमर्पयामि महेश्वरि!॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। दर्पणं समर्पयामि।
तालवृन्तम् (पंखा)
ॐ इडामग्ने पुरु॒दಆसःस॒निं गोः श॑श्वत्त॒मಆ हव मानाय साध।
स्यान्नः सूनु॒स्तन॑यो वि॒जावाग्ने सा ते॑ सुम॒तिर्भूत्व॒स्मे॥
रौप्येण दण्डेन युतेन शब्दैर्युक्तेन वै रौप्यसुकिङ्किणीनाम्।
सुतालवृत्तेन तवाङ्गकानि मातः ! सुमन्दं परिवीजयामि॥
वर्हिर्बर्हकृताकारं मध्यदण्डसमन्वितम्।
गृह्यतां व्यजनं दुर्गे देहस्वेदापनुत्तये॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। तालवृन्तम् समर्पयामि।
आरती
ॐ इदಆह॒विः प्प्र॒जन॑न॑ मे ऽअस्तु॒ दश॑वीर॒ಆ सर्व्वगणಆ स्व॒स्तये॑।
आ॒त्म॒सनि॑ प्प्रजा॒सनि॑ पशु॒सनि॑ लोक॒सन्न्य॑भय॒सनि॑।
अ॒ग्निः प्प्र॒जां बहुलां में करोत्वन्नं पयो रेतो॑ ऽअ॒स्म्मासु॑ धत्त।
आ रात्र्त्रि पार्थ्थिव॒ಆ रजः पि॒तुर॑प्प्राय॒ धाम॑भिः।
दि॒वः सदा॑ಆऽसि बृहुति व्वि ति॑ष्ठस॒ ऽआ त्त्वे॒षं व्व॑र्त्त॑ते तमः॥
चन्द्रादित्यौ च धरणी विद्युदग्निस्तथैव च।
त्वमेव सर्वज्योतीषि आर्तिक्यं प्रतिगृह्यताम्॥
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। कर्पूरारार्तिकं समर्पयामि।
मन्त्र पुष्पांजलि
ॐ य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्म्मा॑णि प्प्रथ॒मान्न्या॑सन्।
ते ह॒ नाकं महि॒मानः सचन्त॒ यत्र्त्र्र॒ पूर्व्वे साद्धयाः सन्ति॑ दे॒वाः॥
ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे।
स मे कामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु।
कुबेराय वैश्रवणाय महाराजाय नमः।
ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं
पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्याय स्यात् सार्वभौमः सार्वायुष आन्तादापरार्धात्।
पृथिव्यै समुद्रपर्यन्ताया ऽएकराडिति तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्या ऽवसन् गृहे
आवीक्षितस्य कामप्रेर्विश्वेदेवाः सभासदः इति।
ॐव्वि॒श्श्वत॑श्च॒क्षुरु॒त वि॒श्श्वतो॑मु॒खो वि॒श्श्वतो बाहुरु॒त व्वि॒श्श्वत॑स्प्पात्।
सम्बाहुब्भ्या॒न्धम॑ति॒ सम्पत॑ त्र्त्रैर्द्यावा॒भूमीं ज॒नय॑न्न्दे॒व ऽएकः॥
कात्यायन्यै च विद्महे कन्यकुमारि च धीमहि। तन्त्रो दुर्गिः प्रचोदयात्॥
सेवन्तिका बकुल चम्पक पाटलाऽब्जैः
पुत्राग जाति करवीर रसाल पुष्पैः
विल्व प्रवाल-तुलसीदल मञ्जरीभिः
त्वां पूजयामि जगदीश्वरि मे प्रसीद॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः।
त्राहि मां सर्वदा मातः सर्वपापहरा भव॥ नानासुगन्धयुक्तं च यथाकालोद्भवं तथा।
मया पुष्पाञ्जलिर्दत्ता गृहाण परमेश्वरि॥
श्रद्धया सिक्तया भक्त्या हार्दप्रेम्णा समर्पितः।
मन्त्रपुष्पाञ्जलिश्चायं कृपया प्रतिगृह्यताम॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। मन्त्रपुष्पाञ्जलिं समर्पयामि।
प्रदक्षिणा
ॐ स॒प्प्तास्या॑सन्न्परि॒धय॒स्त्रिः स॒प्त स॒मिधः कृ॒ताः।
दे॒वा यद्यज्ञं त॑न्न्वा॒ना अबध्न॒न्नपुरु॑षं प॒शुम्॥
पदे पदे या परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति।
तां सर्वपापक्षयहेतुभूतां प्रदक्षिणां ते परितः करोमि॥
यानि कानि च पापानि जन्मान्तरकृतानि च।
तानि सर्वाणि नश्यन्तु प्रदक्षिण पदे पदे॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। प्रदक्षिणां समर्पयामि।
प्रार्थना
एषा भक्त्या तव विरचिता या मया देवि पूजा
स्वीकृत्यैनां सपदि सकलान् मेऽपराधान् क्षमस्व। नूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः
सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः॥
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि ! विश्वम्॥
ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा।
बलादाकृष्य मोहाय महामाया प्रयच्छति॥१॥
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता॥२॥
सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥३॥
शरणागतदीनार्तपरित्राणपरायणे।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥४॥
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते॥५॥
रोगानशेषानपहंसि तुष्टा रूष्टा तु कामान् सकलानभीष्टान्।
त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति॥६॥
सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम्॥७॥
ॐ भूर्भुवः स्वः भगवत्यै श्री जगदम्बायै दुर्गादैव्यै नमः। प्रार्थनापूर्वकं नमस्कारान् समर्पयामि।
क्षमा-याचना
अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि॥१॥
आवाहनं न जानामि न जानामि विसर्जनम्।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि॥२॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे॥३॥
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः॥४॥
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके।
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरू॥५॥
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम्।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि॥६॥
कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि॥७॥
गुह्यातिगुह्यगोप्त्री त्वं गुहाणास्मत्कृतं जपम्।
सिद्धिर्भवतु मे देवि त्वत्प्रसादात्सुरेश्वरि॥८॥
॥ श्रीदुर्गार्पणमस्तु ॥
समर्पण
श्री दुर्गा दैव्यै पूजनकर्मणो यन्न्यूनमतिरिक्तं वा तत्सर्वं मातृणां प्रसादात्परिपूर्णमस्तु
अनया पूजया भगवती श्री दुर्गा जगदम्बिके प्रीयन्ताम् न मम।
अन्ते – आसनाद्यः जलं निक्षिप्य ललाटे मृदा तिलकं धारयेत्
यथा –
यस्मिन् स्थाने कर्म कृत्वा शक्रो हरति तत्कर्मम्।
तन्मृदा लक्ष्म कुर्वीत ललाटे तिलकाकृति॥
॥ इति श्री दुर्गा पूजन प्रकरणम् ॥
आवरणपूजा
प्रथमावरणम्
(दाहिने हाथ में अक्षत पुष्प लेकर ह्रीं ऐं ह्रीं क्लीं चामुण्डायै विच्चे० से आरम्भ कर ‘प्रथमावरणदेवताभ्यो नमः’ तक पढ़कर यन्त्रस्थित दुर्गा की मूर्ति पर चढ़ावें। पुनः आचमनी में जल लेकर एताः प्रथमावरणदेवताः साङ्गाः सपरिवाराः सायुधाः सशक्तिकाः पूजितास्तर्पिताः सन्तु कह कर जल छोड़ जल देवें। पुनः पुष्प लेकर अभीष्टसिद्धिं०’ से ‘प्रथमावरणार्चनम्’ तक पढ़कर मूर्ति पर चढ़ा देवें। पश्चात् एक आचमनी जल लेकर ‘अनेन प्रथमावरणदेवतापूजनेन त्रिगुणात्मिका श्रीदुर्गादेवता प्रीयताम्’ कहकर जल छोड़ देवें और योनिमुद्रा से प्रणाम करें।)
वामेन तत्त्वमुद्रया तर्पणम्। दक्षिणेन ज्ञानमुद्रया पूजनम्॥
प्रार्थना
संचिन्मयपरे देवि परामृतचरुप्रिये।
अनुज्ञां देहि मे मातः परिवारार्चनाय ते ।।
यथा दक्षिणेना ऽक्षत पुष्पादिना पूजयामीति सम्पूज्य,
वामकरधृतार्द्रखण्डेन विशेषार्घजलैस्तर्पयाम्येवं सर्वत्र॥
- ह्रीं ऐं ह्रीं क्लीं चामुण्डायै विच्चै साङ्गायै सपरिवारायै सावरणायै सायुधायै सशक्तिकायै श्रीमहाकाली महालक्ष्मी महासरस्वत्यै नमः, श्रीमहाकाली महालक्ष्मी महासरस्वती श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं ऐं ह्रीं क्लीं चामुण्डायै विच्चे साङ्गायै सपरिवारायै सावरणायै सायुधायै सशक्तिकायै श्रीमहाकाल्यै नमः, श्रीमहाकाली श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं ऐं ह्रीं क्लीं चामुण्डायै विच्चे साङ्गायै सपरिवारायै सावरणायै सायुधायै सशक्तिकायै श्रीमहालक्ष्म्यै नमः, श्रीमहालक्ष्मी श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं ऐं ह्रीं क्लीं चामुण्डायै विच्चे साङ्गायै सपरिवारायै सावरणायै सायुधायै सशक्तिकायै श्रीमहासरस्वत्यै नमः, श्रीमहासरस्वती श्रीपादुकां पूजयामि तर्पयामि।
विन्दोः परितो गुरुचतुष्टयं पूजयेत्
- ह्रीं गुरवे नमः, गुरुशक्तिश्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं परमगुरवे नमः, परमगुरुशक्तिश्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं परात्परगुरवे नमः, परात्पर गुरुशक्तिश्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं परमेष्ठिगुरवे नमः, परमेष्ठिगुरुशक्ति श्रीपादुकां पूजयामि तर्पयामि।
षडङ्गं पूजयेत्
- ह्रीं ऐं हृदयाय नमः हृदयशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं शिरसे नमः, शिरः शक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं क्लीं शिखायै नमः, शिखाशक्तिश्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं चामुण्डायै कवचाय नमः, कवचशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं विच्चे नेत्रत्रयाय नमः, नेत्रशक्तिश्रीपादुकां पूजयामि तर्पयामि।
- मूलेन अस्त्राय नमः, अस्त्रशक्तिश्रीपादुकां पूजयामि तर्पयामि।
- प्रथमावरणदेवताभ्यो नमः सर्वोपचारार्थे गन्धं पुष्पं समर्पयामि।
समान्यार्घजलमादाय
एताः प्रथमावरणदेवताः साङ्गाः सपरिवारा: सायुधाः सशक्तिकाः पूजितास्तर्पिताः सन्तु।
पुष्पाञ्जलिमादाय
अभीष्टसिद्धिं मे देहि शरणागतवत्सले।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम्॥
पुष्पाञ्जलिं दत्वा। अनेन प्रथमावरणदेवतापूजने त्रिगुणात्मिका श्रीदुर्गादिवता प्रीयताम्।
योनिमुद्रया प्रणमेत्॥
॥ इति प्रथमावरणम् ॥
द्वितीयावरण्
(पूर्वोक्त प्रकार से हाथ में अक्षत, पुष्प लेकर हो सावित्र्या सह विधात्रे नमः० से लेकर ‘द्वितीयावरणदेवताभ्यो नमः’ पर्यन्त पढ़कर यन्त्र पर चढ़ा देवें। पश्चात् आचमनी में जल लेकर, ‘एता: द्वितीयावरणदेवताः साङ्गाः सपरिवारा: सायुधाः सशक्तिकाः पूजितास्तर्पिताः सन्तु पढ़कर जल छोड़ देवें। पुनः पुष्प लेकर अभिष्टसिद्धि’ से ‘द्वितीयावरणाचनम्’ पर्यन्त पढ़कर मूर्ति पर चढ़ा देंवें। पुनः एक आचमनी जल लेकर ‘अनेन द्वितीयावरणदेवतापूजनेन त्रिगुणात्मिका श्रीदुर्गादेवता प्रीयताम् कहकर जल छोड़ दे, तथा योनिमुद्रा द्वारा प्रणाम करे।)
त्रिकोणे स्वाप्रादिप्रादक्षिण्येन पूजयेत्
- ह्रीं सावित्र्या सह विधात्रे नमः, विधातृशक्तिश्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं श्रिया सह विष्णवे नमः, विष्णुशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं उमया सह शिवाय नमः शिवशक्तिश्रीपादुकां पूजयामि तर्पयामि।
- ह्रींं क्षुं सिंहाय नमः, सिंहशक्तिश्रीपादुकां पूजयामि तर्पयामि।
- हीं हूं महिषाय नमः, महिषशक्तिश्रीपादुकां पूजयामि सर्पयामि।
- द्वितीयावरणदेवताभ्यो नमः, गन्धं पुष्पं च समर्पयामि।
सामान्यार्घजलमादाय
एताः द्वितीयावरणदेवताः साङ्गाः सपरिवारा: सायुधाः सशक्तिकाः पूजितास्तर्पिताः सन्तु।
पुष्पाञ्जलिमादाय
अभीष्टसिद्धिं मे देहि शरणागतवत्सले।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम्॥
पुष्पाञ्जलिं दत्वा। अनेन द्वितीयावरणदेवतापूजनेन त्रिगुणात्मिका श्रीदुर्गादिवता प्रीयताम्। योनिमुद्रया प्रणमेत्॥
॥ इति द्वितीयावरणम् ॥
तृतीयावरणम्
(हाथ में अक्षत, पुष्प लेकर ‘ह्रीं ऐं नन्दजायै०’ से लेकर ‘तृतीयावरणदेवताभ्यो नमः तक पढ़कर यन्त्र पर चढ़ावें। पुनः आचमनी में जल लेकर, ‘एतास्तृतीयावरणदेवताः सांङ्गाः सपरिवाराः सायुधाः सशक्तिकाः पूजितास्तर्पिताः सन्तु’ कहकर जल छोड़ देवें। पुनः पुष्प लेकर ‘अभिष्टसिद्धिं में देहि० से ‘तृतीयावरणाचनम्’ तक पढकर मूर्ति पर अर्पित कर देवें। पश्चात् एक आचमनी जल लेकर ‘अनेन तृतीयावरणदेवतापूजनेन त्रिगुणात्मिका श्रीदुर्गादेवता प्रीयताम्’ कहकर जल छोड़ देवें और योनिमुद्रा से प्रणाम करे।)
षट्कोणेऽग्नीशासुरवायव्ये मध्ये दिक्षु च पूजयेत्
- ह्रीं ऐं नन्दजायै नमः, नन्दजाशक्तिश्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं रक्तदन्तिकायै नमः, रक्तदन्तिका-शक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं क्लीं शाकम्भयै नमः, शाकम्बरीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं दुं दुर्गायै नमः, दुर्गाशक्तिश्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं हुं भीमायै नमः, भीमाशक्तिश्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं भ्रामर्यै नमः भ्रामरीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- तृतीयावरण-देवताभ्यो नमः, गन्धं पुष्पं समर्पयामि।
सामान्यार्घजलमादाय
एतास्तृतीयावरणदेवताः साङ्गाः सपरिवारा: सायुधाः सशक्तिकाः पूजितास्तर्पिताः सन्तु
पुष्पाञ्जलिमादाय
अभीष्टसिद्धिं मे देहि शरणागतवत्सले।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम्॥
पुष्पाञ्जलिं दत्वा। अनेन तृतीयावरणदेवतापूजन त्रिगुणात्मिका श्रीदुर्गादिवता प्रीयताम्। योनिमुद्रया प्रणमेत्॥
॥ इति तृतीयावरणम् ॥
चतुर्थावरणम्
(हाथ में अक्षत और फूल लेकर ही ऐ ब्राह्मयै नमः०” से लेकर ‘चतुर्थावरणदेवताभ्यो नमः, गन्धं पुष्पं समर्पयामि’ पर्यन्त पढ़कर मूर्ति पर चढ़ावें।तत्पश्चात् जल लेकर, एताश्चतुर्यावरणदेवताः साङ्गाः सपरिवाराः सायुधाः सशक्तिकाः पूजितास्तर्पिताः सन्तु पढ़कर जल छोड़ देवें। पश्चात् पुष्प लेकर ‘अभिष्टसिद्धिं मे देहि०’ से ‘चतुर्थावरणार्चनम्’ तक पढकर पुष्प चढ़ावें पुनः एक आचमनी जल लेकर ‘अनेन चतुर्थावरणदेवतापूजनेन त्रिगुणात्मिका श्रीदुर्गादेवता प्रीयताम्’ कहकर छोड़ दें और योनिमुद्रा से प्रणाम करें।)
ततोऽष्टपत्रे स्वाग्रादिप्रादक्षिण्येन पूजयेत्
- ह्रीं ऐं ब्राह्मयै नमः, ब्राह्मीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं माहेश्वर्यै नमः, माहेश्वरीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं क्लीं कौमार्यै नमः, कौमारीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं वैष्णव्यै नमः, वैष्णवीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं लं वाराह्यै नमः, वाराहीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं क्षौं नारसिंह्यै नमः, नारसिंहीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं लं ऐन्द्रयै नमः, ऐन्द्रीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं स्त्र्यैं चामुण्डायै नमः, चामुण्डाशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- मध्ये-ह्रीं लक्ष्म्यै नमः, लक्ष्मीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- चतुर्थावरणदेवताभ्यो नमः, गन्धं पुष्पं समर्पयामि।
सामान्यार्घजलमादाय
एताश्चतुर्थावरणदेवताः साङ्गाः सपरिवारा: सायुधाः सशक्तिकाः पूजितास्तर्पिताः सन्तु।
पुष्पाञ्जलिमादाय
अभीष्टसिद्धिं मे देहि शरणागतवत्सले।
भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम्॥
पुष्पाञ्जलिं दत्वा। अनेन चतुर्थावरणदेवतापूजनेन त्रिगुणात्मिका श्रीदुर्गादिवता प्रीयताम्। योनिमुद्रया प्रणमेत्॥
॥ इति चतुर्थावरणम् ॥
पञ्चमावरणम्
(अक्षत और पुष्प लेकर ‘हीं विं विष्णुमायायै नमः०’ से लेकर ‘पंचमावरणदेवताभ्यो नमः गन्धं पुष्पं समर्पयामि’ तक पढ़कर यन्त्र पर चढ़ा देवें।पश्चात् जल लेकर, एताः पञ्चमावरणदेवताः साङ्गाः सपरिवारा सायुधाः सशक्तिकाः पूजितास्तर्पिता: सन्तु’ कहकर जल छोड़ देवें। पुनः फूल लेकर अभिष्टसिद्धिं मे देहि० से आरम्भ कर ‘पञ्चमावरणार्चनम्’ पर्यन्त पढ़कर पुष्प अर्पण करें। तदनन्तर एक आचमनी जल लेकर अनेन पंचमावरणदेवता पूजनेन त्रिगुणात्मिका श्रीदुर्गादेवता प्रीयताम्’ कहकर जल छोड़ दें और योनिमुद्रा से प्रणाम करें।)
ततश्चतुर्विंशतिदले स्वाग्रादिप्रादक्षिण्येन
- ह्रीं विं विष्णु मायायै नमः, विष्णुमायाशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं चें चेतनायै नमः, चेतनाशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं बुं बुद्धयै नमः, बुद्धिशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं निं निद्रायै नमः, निद्राशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं क्षुं क्षुधायै नमः, क्षुधाशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं छां छायायै नमः, छायाशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं शं शक्त्यै नमः, शक्तिशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं तृं तृष्णायै नमः, तृष्णाशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं क्षां क्षान्त्यै नमः, क्षान्तिशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं जां जात्यै नमः, जातिशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं लं लज्जायै नमः, लज्जाशक्तिश्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं शां शान्त्यै नमः, शान्तिशक्तिश्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं श्रं श्रद्धायै नमः,श्रद्धाशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं कां कान्त्यै नमः, कान्तिशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं लं लक्ष्म्यै नमः, लक्ष्मीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं धृं धृत्यै नमः, धृतिशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं वृं वृत्त्यै नमः, वृत्तिशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं श्रुं श्रुत्यै नमः, श्रुतिशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं स्मृं स्मृत्यै नमः, स्मृतिशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं दं दयायै नमः, दयाशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं तुं तुष्ट्यै नमः, तुष्टिशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं पुं पुष्ट्यै नमः, पुष्टिशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं मां मातृभ्यो नमः, मातृशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं भ्रां भ्रांन्त्यै नमः, भ्रान्तिशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- पञ्चमावरणदेवताभ्यो नमः गन्धं पुष्पं समर्पयामि।
सामान्यार्घजलमादाय
एताः पञ्चमावरणदेवताः साङ्गा सपरिवाराः सायुधाः सशक्तिकाः पूजितास्तर्पिताः सन्तु।
पुष्पाञ्जलिमादाय
अभीष्टसिद्धिं मे देहि शरणागतवत्सले।
भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम्॥
पुष्पाञ्जलिं दत्वा। अनेन पञ्चमावरणदेवतापूजनेन त्रिगुणात्मिका श्रीदुर्गादिवता प्रीयताम्। योनिमुद्रया प्रणमेत्॥
॥ इति पञ्चमावरणम् ॥
षष्ठावरणम्
(अक्षत और पुष्प लेकर ‘ह्रीं गं गणपतये नमः०’ से आरम्भ कर ‘षष्ठावरणदेवताभ्यो नमः गन्धं पुष्पं समर्पयामि’ पर्यन्त पढ़कर यन्त्र पर चढ़ावें। पश्चात् एक आचमनी में जल लेकर, ‘एताः षष्ठावरणदेवताः साङ्गाः सपरिवारा: सायुधाः सशक्तिकाः पूजितास्तर्पिताः सन्तु’ पढ़कर जल गिरा देवें। तत्पश्चात हाथ में पुष्प लेकर अभिष्टसिद्धिं मे देहि० श्लोक पढ़कर मूर्ति पर चढ़ा देवें। पुष्पाञ्जलि देकर एक आचमनी जल लेकर ‘अनेन षष्ठावरणदेवता पूजनेन त्रिगुणात्मिका श्रीदुर्गादिवता प्रीयताम्’ कहकर जल छोड़ देवें और योनिमुद्रा से प्रणाम करें।)
भूपुरे कोणचतुष्टये आग्नेयादिकोणमारभ्य
- ह्रीं गं गणपतये नमः, गणपतिशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं क्षं क्षेत्रपालाय नमः, क्षेत्रपालशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं बं बटुकाय नमः, बटुकशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं यां योगिन्यै नमः, योगिनीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- षष्ठावरणदेवताभ्यो नमः गन्धं पुष्पं समर्पयामि।
सामान्यार्घजलमादाय
एताः षष्ठावरणदेवताः साङ्गाः सपरिवारा: सायुधाः सशक्तिकाः पूजितास्तर्पिताः सन्तु।
पुष्पाञ्जलिमादाय
अभीष्टसिद्धिं मे देहि शरणागतवत्सले।
भक्त्या समर्पये तुभ्यं षष्ठावरणार्चनम्॥
पुष्पाञ्जलिं दत्वा। अनेन षष्ठावरणदेवतापूजनेन त्रिगुणात्मिका श्रीदुर्गादेवता प्रीयताम्। योनिमुद्रया प्रणमेत्॥
॥ इति षष्ठावरणम् ॥
सप्तमावरणम्
(हाथ में अक्षत, पुष्प लेकर ‘हीं लं इन्द्राय नमः०’ से प्रारम्भ कर ‘सप्तमावरणदेवताभ्यो नमः, गन्धं पुष्पं समर्पयामि तक पढ़कर यन्त्र पर चढ़ा देवें। तत्पश्चात् आचमनी में जल लेकर एताः सप्तमावरणदेवताः माहाः सपरिवाराः सायुधाः सशक्तिकाः पूजितास्तर्पिताः सन्तु’ कहकर जल छोड़ देवें पुनः पुष्प लेकर ‘अभिष्टसिद्धि मे देहि०’ से “सप्तमावरणार्चनम्’ तक पढ़कर मूर्ति पर समर्पित कर देंवें। इस प्रकार पुष्पाञ्जलि देकर एक आचमनी जल लेकर अनेन सप्तमावरणदेवता पूजनेन त्रिगुणात्मिका श्रीदुर्गादेवता प्रीयताम्’ पढ़कर जल गिरा देवें एवं योनिमुद्रा से हाथ जोड़कर प्रणाम करे।)
पूर्वादिदशदिक्षु
- ह्रीं लं इन्द्राय नमः, इन्द्रशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं रं अग्नये नमः अग्निशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं यं यमाय नमः, यमशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं क्षं निर्ऋतये नमः, निर्ऋतिशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं वं वरुणाय नमः, वरुण शक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं यं वायवे नमः, वायुशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं सं सोमाय नमः, सोमशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं हं ईशानाय नमः ईशानशक्तिश्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं ब्रं ब्रह्मणे नमः, ब्रह्मशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं अनन्ताय नमः अनन्तशक्तिश्रीपादुकां पूजयामि तर्पयामि।
- सप्तमावरणदेवताभ्यो नमः गन्धं पुष्पं समर्पयामि।
सामान्यार्घजलमादाय
एताः सप्तमावरणदेवताः साङ्गाः सपरिवाराः सायुधाः सशक्तिकाः पूजितास्तर्पिताः सन्तु।
पुष्पाञ्जलिमादाय
अभीष्टसिद्धिं मे देहि शरणागतवत्सले। भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम्॥
पुष्पाञ्जलिं दत्वा। अनेन सप्तमावरणदेवतापूजनेन त्रिगुणात्मिका श्रीदुर्गादेवता प्रीयताम् योनिमुद्रया प्रणमेत्।
॥ इति सप्तमावरणम् ॥
अष्टमावरणम्
(हाथ में अक्षत, पुष्प लेकर ‘ह्रीं वं वज्राय नमः० से लेकर ‘अष्टमावरणदेवताभ्यो नमः गन्धं पुष्पं समर्पयामि तक पढ़कर मूर्ति पर चढ़ा देवें। पुनः जल लेकर, ‘एताः अष्टमावरण देवताः साङ्गाः सपरिवाराः सायुधाः सशक्तिकाः पूजितास्तर्पिताः सन्तु पढ़कर जल गिरा देवें। पुनः हाथ में पुष्प लेकर अभिष्टसिद्धिं में देहि शरणागत वत्सले०’ श्लोक पढ़कर मूर्ति पर चढ़ा देवें। पश्चात् हाथ में जल लेकर अनेनाऽष्टमावरणदेवतापूजनेन त्रिगुणात्मिका श्रीदुर्गादेवता प्रीयताम्’ पढ़कर जल गिरा देवें तथा योनिमुद्रा दिखाकर प्रणाम करे।)
तद्द्बहिः पूर्वादिदिषु
- ह्रीं वं वज्राय नमः, वज्रशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं शं शक्तयै नमः, शक्तिशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं दं दण्डाय नमः, दण्डशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं खं खड्गाय नमः, खड्गशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं पां पाशाय नमः, पाशशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं अं अङ्कुशाय नमः, अङ्कुशशक्ति श्रीपादुका पूजयामि तर्पयामि।
- ह्रीं गं गदायै नमः, गदाशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं त्रिं त्रिशूलाय नमः, त्रिशूलशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं पं पद्माय नमः पद्यशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- ह्रीं चं चक्राय नमः, चक्रशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- अष्टमावरण देवताभ्यो नमः गन्धं पुष्पं समर्पयामि।
सामान्यार्घजलमादाय
एताः अष्टमावरणदेवताः साङ्गाः सपरिवाराः सायुधाः सशक्तिकाः पूजितास्तर्पिताः सन्तु।
पुष्पाञ्जलिमादाय
अभीष्टसिद्धिं मे देहि शरणागतवत्सले।
भक्त्या समर्पये तुभ्यमष्टमावरणार्चनम्॥
पुष्पाञ्जलि दत्वा। अनेनाऽष्टमावरणदेवतापूजनेन त्रिगुणात्मिका श्रीदुर्गादेवता प्रीयताम्। योनिमुद्रया प्रणमेत्॥
॥ इति अष्टमावरणम् ॥
नवमावरणम्
(हाथ में अक्षत और पुष्प लेकर कलशा से पूर्वादि दिशाओं में ह्रीं वज्रहस्तायै गजारूढायै० से लेकर गन्धं पुष्पं समर्पयामि तक पढ़कर यन्त्रस्थित दुर्गा प्रतिमा पर चढ़ावें। पुनः आचमनी में जल लेकर एताः नवमावरणदेवताः साङ्गाः सपरिवाराः सायुधाः सशक्तिकाः पूजितास्तर्पिताः सन्तु पढ़कर जल छोड़ देवें। पुनः हाथ में पुष्प लेकर, अभिष्टसिद्धिं मे देहि०’ से ‘नवमावरणाचनम्’ तक पढ़कर मूर्ति पर अर्पित कर देवें। पश्चात् एक आचमनी जल लेकर ‘अनेन नवमावरणदेवतापूजनेन त्रिगुणात्मिका श्रीदुर्गादेवता प्रीयताम्’ पढ़कर जल गिरा देवें, एवं योनिमुद्रा द्वारा देवी को प्रणाम करें।)
कलशात् पूर्वादिदिक्षु
- हीं वज्रहस्तायै गजारूढायै कादम्बरीदेव्यै नमः, कादम्बरीदेवीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- शक्तिहस्तायै अजवाहनायै उल्कादेव्यै नमः, उल्कादेवीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- दण्डहस्तायै महिषारूढायै करालीदेव्यै नमः, करालीदेवीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- खड्गहस्तायै शववाहनायै रक्ताक्षी देव्यै नमः, रक्ताक्षीदेवीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- पाशहस्तायै मकरवाहनायै श्वेताक्षीदेव्यै नमः, श्वेताक्षीदेवीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- अङ्कुशहस्तायै मृगवाहनायै हरिताक्षीदेव्यै नमः, हरिताक्षीदेवीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- गदाहस्तायै सिंहारूढायै यक्षिणीदेव्यै नमः यक्षिणीदेवीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- शूलहस्तायै वृषभवाहनायै कालीदेव्यै नमः, कालीदेवीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- पद्महस्तायै हंसवाहनायै सुरज्येष्ठादेव्यै नमः, सुरज्येष्ठादेवीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- चक्रहस्तायै सर्पवाहनायै सर्पराज्ञीदेव्यै नमः, सर्पराज्ञीदेवीशक्ति श्रीपादुकां पूजयामि तर्पयामि।
- नवमावरणदेवताभ्यो नमः गन्धं पुष्पं समर्पयामि।
सामान्यार्घजलमादाय
एताः नवमावरणदेवताः साङ्गाः सपरिवाराः सायुधाः सशक्तिकाः पूजितास्तर्पिताः सन्तु।
पुष्पाञ्जलिमादाय
अभीष्टसिद्धिं मे देहि शरणागतवत्सले।
भक्त्या समर्पये तुभ्यं नवमावरणार्चनम्॥
पुष्पाञ्जलिं दत्वा। अनेन नवमावरणदेवतापूजनेन त्रिगुणात्मिका श्रीदुर्गादेवता प्रीयताम्। योनिमुद्रया प्रणामेत्॥
॥ इति नवमाचरणम् ॥
॥ इति श्री दुर्गार्चनपद्धति आवरणपूजा समाप्ता ॥
अखण्डदीपपूजनम्
सुप्रकाशो महादीप्तः सर्वतस्तिमिरापहः।
स-बाह्याभ्यन्तर-ज्योतिर्दीपोऽयं प्रतिगृह्यताम्॥
ॐ अ॒ग्निज्ज्यो॑ति॒ज्ज्र्ज्योति॑र॒ग्निः स्वाहा सूर्य्यो ज्योति॒र्ज्र्ज्योति॒ सूर्य॒ स्वाहा॑।
अ॒ग्निर्व्वर्च्चो ज्ज्योति॒ र्व्वच्चः स्वाहा सूर्य्यो व्वर्च्चो ज्योति॒र्व्वर्च्च॒ स्वाहा॑।
ज्ज्योतिः सूर्य्यः सूर्य्योः ज्ज्योतिः स्वाहा॥
दीपस्थदेवताभ्यो नमः, सर्वोपचारार्थे गन्धाऽक्षत पुष्पाणि समर्पयामि इति सम्पूज्य, प्रार्थयेत्।
भो दीप देवरूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत्।
यावत् कर्मसमाप्तिः स्यात्तावदत्र स्थिरो भव॥
धान्यकलश स्थापनम्
मृत्तिकामध्ये यवं प्रक्षिप्य मृत्तिकाघटं सर्वतोभद्र मण्डलाग्रेऽखण्डदीपमध्ये च ‘मही द्यौ०’ रित्यादमन्त्रेण कलश पूजनोक्तविधिना स्थापयेत्।
अर्थात् अखण्ड दीप के मध्य चौकी के आगे मिट्टी बिछाकर, उस पर जौ छिड़ककर, मृत्तिका कलश ‘मही द्यौः पृथिये च न०” इत्यादि मन्त्र द्वारा कलशपूजन विधि से स्थापित करें)
बलिदानम्
‘नारिकेलबलये नमः०’ इत्यनेन पञ्चोपचारैः नारिकेलं सम्पूज्य देव्याः पुरतः नारिकेलबलिं तुभ्यं समर्पयामि इत्युक्त्वा नवार्णमन्त्रेण (ॐ ऐं ही क्लीं चामुण्डायै विच्चे) वीरासनमुद्रया एकहस्तेन एकवारमेव बलिं स्फोटयित्वा देव्यै निवेदयेत्॥
अर्थात् नारिकेलबलये नमः पढ़कर पंचोपचार से नारिकेल (नारियल) की पूजा करके, देवी के आगे ‘नारिकेलबलिं तुभ्यं समर्पयामि कहकर, नवार्ण मन्त्र (ॐ ऐं ही क्लीं चामुण्डायै विच्चे) से वीरासन मुद्रा (दोनों घुटने जमीन पर टेककर) द्वारा एक हाथ से एक बार में ही नारियल को फोड़कर देवी को समर्पित करें।
बटुक कुमारिका पूजनम्
हस्ते ऽक्षत पुष्पाणि गृहीत्वा, करकलित कपालः०(इति श्लोकं पठित्वा बं बटुकाय नमः’ इत्यनेन बटुकम्), मन्त्राक्षरमयीं०(इति श्लोकं पठित्वा ‘कुमार्यै नमः’ इत्यनेन कुमारी) च सम्पूज्य, तयोर्भाले तिलकं कृत्वा मिष्टान्न दक्षिणां च दत्वा प्रणमेत्।
अर्थात् दाहिने हाथ में अक्षत और फूल लेकर, ‘करकलित कपालः० श्लोक पढ़कर ‘बटुकाय नमः से बटुक की पूजा, एवं ‘मन्त्राक्षरमयी०’ तथा ‘कुमार्यै नमः०’ से कुमारी की पूजा करके दोनों के मस्तक में तिलक लगाकर, मीठा और दक्षिणा अर्पण कर प्रणाम करें।
बटुक पूजन
कर कलित कपालः कुण्डली दण्डपाणिस्तरुण तिमिरनील व्यालयज्ञोपवीती।
क्रतुसमय सपर्याद् विघ्नविच्छेदहेतुर्जयति बटुकनाथः सिद्धिदः साधकानाम्॥
“बं बटुकाय नमः”
कुमारी पूजन
मन्त्राक्षरमयीं देवीं मातॄणां रूपधारिणीम्।
नवदुर्गात्मिकां साक्षात् कन्यामावाहयाम्यहम्॥
“कुमार्यै नमः”
ब्राह्मणपूजनम्
‘ब्रह्मणे नमः’ इत्युक्त्वा पाठकर्तृकाणां ब्राह्मणानां गन्धा ऽक्षत पुष्पादिभिः पूजनं कुर्यात्।
सरस्वतीपूजनम्-पुस्तकपूजनम्
पाव॒का नः सर॑स्वती॒ वाजेभिर्वा॒जिनी॑वती।
य॒ज्ञं व॑ष्टु धि॒याव॑सु॥
नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥
इत्यनेन दुर्गासप्तशती पुस्तक पूजनं गन्धाऽक्षत पुष्पैः कुर्यात्॥
॥ तत्पश्चात् दुर्गासप्तशती पाठं कुर्यात् ॥