॥‌ अथ् नवग्रहादिदेवानां पूजनावाहनं स्थापनम् ॥

“ॐ हरि हर नमो नमःॐ”
❀꧁○꧂❀

ईशान्यां चतुस्त्रिंशदङ्गुलोच्च समचतुरस्रस्य ग्रहपीठस्य समीपे सपत्नीको यजमानः पूर्वाभिमुख उपविश्य आचमनं प्राणायामञ्च कृत्वा।

ततो हस्ते जलं गृहीत्वा। मया प्रारब्धस्य अमुक कर्मणः सांगता सिद्धयर्थम् अस्मिन् नवग्रहपीठे आदित्यादिनवग्रहाणाम् अधिदेवता प्रत्यधिदेवता पञ्चलोकपाल वास्तु क्षेत्रपाल दशदिक्पालदेवता सहितानाम् तत्तन्मण्डले स्थापनप्रतिष्ठा पूजनमहं करिष्ये॥ इति संकल्प्य।

(तो वामहस्ते अक्षतान् गृहीत्वा दक्षिणहस्तेन तत्तत्स्थाने आदित्यादिदेवतानाम् आवाहनं कुर्यात्।)

आधारे प्रथमे सहस्रकिरणं, ताराधवं स्वाश्रये।
माहेयं मणि पूरके हृदि बुधं, कण्ठे च वाचस्पतिम्॥
भ्रू मध्ये भृगुनन्दनं दिनमणेः, पुत्रं त्रिकूटस्थले।
नाडीमर्मसु राहु-केतु-गुलिकान् न्नित्यं नमाम्य आयुषे॥

सूर्य हरें तम कष्ट करें कम, चन्द्र बड़े मुद मंगलकारी।
बुद्धि पवित्र करे बुध नित्य, बढ़ावत ज्ञान गुरु सुखकारी॥
शुचि जीवन शुक्र सदैव करें, शनि शोक हरें रवि दृष्टि निहारी।
राहु रहें गति केतु करें मति, दिव्य नवग्रह सोहत भारी॥

आदित्याय च चन्द्राय, भौमाय बुधाय च।
गुरु शुक्र शनिभ्यश्च राहवे केतवे नमः॥

(ॐ भुर्भुवः स्वः भगवते आदित्यादि सहीताय नवग्रह देवताभ्यो नमः, ध्यायमि आवाह्यामि स्थापयामि। भो नवग्रह देवतानाम् इहागच्छ इह तिष्ठ, अधुना वामहस्ते अक्षतान् गृहीत्वा दक्षिणहस्तेन तत्तत्स्थाने नाम् आवाहनं कुर्यात्। ततो प्रतिष्ठापूर्वकम् षोडशोपचार विधिना सम्पूजयेत्)

सूर्यम् (मण्डल के मध्य में)

ॐ आकृ॒ष्ण्णेन॒ रज॑सा॒व्वर्त्त॑मानो निवे॒शय॑न्न॒मृत॒म्मर्त्त्य॑ञ्च।
हि॒र॒ण्ण्यये॑नसवि॒तारथे॒नादे॒वोॺा॑ति॒भुव॑नानि॒ पश्श्य॑न्॥ (यजु० ३३।४३)

जपा-कुसुम-संकाशं काश्यपेयं महाद्युतिम्।
तमोऽरिं सर्वपापघ्नं सूर्वमावाहयाम्यहम्॥

(ॐ भूर्भुवः स्वः कलिङ्गदेशोद्भव काश्यपसगोत्र रक्तवर्ण भो सूर्य! इहागच्छ इह तिष्ठ्॥ ॐ सूर्याय नमः, श्री सूर्यमावाहयामि स्थापयामि पूजां गृहाण् सुप्रसन्नो भव॥)

चन्द्र (आग्नेय कोण में)

ॐ इ॒मन्देवा ऽअसप॒त्न ᳬ सुबध्द्वम्मह॒ते क्ष॒त्राय॑ मह॒ते ज्ज्यैष्ठ्या॑य मह॒ते जान॑राज्ज्या॒येन्द्र॑स्येन्द्रि॒याय॑।
इ॒मम॒मुष्ष्य॑ पुत्र्त्रम॒मुष्यै॑ पुत्र्त्रम॒स्यै व्वि॒श ऽए॒ष वो॑मी॒ राजा॒ सोमो॒ऽस्म्माक॑म्ब्राह्मा॒णानां॒ ᳬ॒ राजा॑॥ (यजु० ९।४०)

दधि-शंख-तुषाराभं क्षीरोदार्णवसम्भवम्।
ज्योत्स्नापतिं निशानाथं सोममावाहयाम्यहम्॥

(ॐ भूर्भुवः स्वः यमुनातीरोद्भव आत्रेयसगोत्र शुक्लवर्ण भो सोम ! इहागच्छ इह तिष्ठ, ॐ सोमाय नमः, सोममावाहयामि स्थापयामि पूजां गृहाण सुप्रसन्नो भव ॥)

भौमम् (दक्षिण में)

ॐ अ॒ग्ग्निर्म्मू॒र्ध्दा दि॒वः क॒कुत्त्पत्तिः॑ पृथि॒व्व्याऽ अ॒यम्।
अ॒पाᳬरेता॑ᳬसि जिन्न्वति॥ (यजू० ३।१२)

धरणीगभसम्भूतं विद्युत्तेजस्समप्रभम्।
कुमार शक्तिहस्तं व भौममावाहयाम्यहम्॥

(ॐ भूर्भुवः स्वः अवन्तिकापुरोद्भव भारद्वाजसगोत्र रक्तवर्ण भो भौम ! इहागच्छ इह तिष्ठ ॐ भौमाय नमः, भौममावाहयामि स्थापयामि पूजां गृहाण सुप्रसन्नो भव॥)

बुधम् (ईशान कोण में)

ॐ उद्‌ब्दु॑ध्दयस्वाग्ग्ने॒ प्प्रति॑ जागृहि॒ त्वमि॑ष्ट्टापू॒र्त्ते स ᳬ सृ॑जेथा म॒यंञ्च॑।
अस्म्मिन्त्स॒धस्त्थे॒ऽ अध्दयुत्त॑रस्म्मि॒न्व्विश्वे॑ देवा॒ ॺज॑मानश्च सीदत॥ (यजु० १८।६१)

प्रियङ्गुलिकाश्यामं रूपेणाप्रतिमं बुधम्।
सौम्यं सौम्यगुणोपेतं तं बुधमावाहयाम्यहम्॥

(ॐ भूर्भुवः स्वः मगधदेशोद्भव आत्रेयसगोत्र हरितवर्ण भो बुध! इहागच्छ, इहतिष्ठ बुधाय नमः, बुधमावाहयामि स्थापयामि पूजां गृहाण सुप्रसन्नो भव॥)

बृहस्पतिम् (उत्तर में)

ॐ बृह॑स्प्पते॒ ऽअति॒ यद॒र्ॺ्ॺो ऽअर्हा॑द्दयु॒मद्वि॒भाति॒
क्क्रतु॑म॒ज्जने॑षु।
ॺद्दी॒दय॒च्छव॑स ऽऋतप्प्रजात॒ तद॒स्म्मा सु॒द्द्रवि॑णन्धेहि चि॒त्रम॥ (यजु० ३।२६)

देवानां च ऋषीणां च गुरुं कांचन सन्निभम।
बुद्धिभूतं त्रिलोकेशं तं बृहस्पतिमावाहयाम्वहम्॥

(ॐ भूर्भुवः स्वः सिन्धुदेशोद्भव आङ्गिरसगोत्र पीतवर्ण भो बृहस्पते! इहागच्छ इह तिष्ठ ॐ बृहस्पतये नमः, श्री बृहस्पतिमावाहयामि स्थापयामि पूजां गृहाण सुप्रसन्नो भव॥)

शुक्र (पूर्व में)

ॐ अन्ना॑त्तपरि॒स्रुतो॒र स॑म्ब्रह्म॑णा॒व्व्य॒पिबत्त्क्ष॒त्र म्मय॒,ᳬ सोम॑म्प्र॒जाप॑तिᳬ।
ऋ॒तेन॑स॒त्त्यमि॑न्द्र॒  यंव्वि॒पानᳬ शु॒क्रमन्ध॑ स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दम्पयो॒मृत॒म्मधु॑॥ (यजु० १९।७५)

हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्।
सर्वशास्त्रप्रवक्तारं भार्गवमावाहयाम्यहम्॥

(ॐ भूर्भुवः स्वः भोजकटदेशोद्भव भार्गवसगोत्र शुक्लवर्ण भो शुक्र! इहागच्छ इह तिष्ठ ॐ शुक्राय नमः, श्री शुक्रमावाहयामि स्थापयामि पूजां गृहाण सुप्रसन्नो भव॥)

शनि (पश्चिम में)

ॐ शन्नो॑दे॒वीर॒भिष्ट्ट॑य॒ ऽआपो॑ भवन्तुपी॒तये॑।
शँय्ॺोर॒भिस्त्र॑वन्तु नः॥ (यजु० १२।३६)

ॐ निलान्जन समाभासं रविपुत्रं यमाग्रजम।
छायामार्तंड संभूतं तं शनैश्चरमावाहयाम्यहम्॥

(ॐ भूर्भुवः स्वः सौराष्ट्रदेशोद्भव काश्यपसगोत्र कृष्णवर्ण भो शनैश्चर! इहागच्छ इह तिष्ठ ॐ शनैश्चराय नमः, श्री शनैश्चरमावाहयामि स्थापयामि पूजां गृहाण सुप्रसन्नो भव॥)

राहु (नैर्ऋत्य में)

ॐ कया॑नश्च्चि॒त्र ऽआभु॑वदू॒ती स॒दा वृ॑धःसखा॑।
कया॒शचि॑ष्ट्ठ यव्वृता॥ (यजु० ०४।३६)

अर्धकायं महावीर्य चंद्रादित्य विमर्दनम्।
सिंहिका गर्भ संभूतं तं राहुमावाहयाम्यहम्॥

(ॐ भूर्भुवः स्वः राठिनापुरोद्भव पैठिनसगोत्र नीलवर्ण भो राहो! इहागच्छ इह तिष्ठ ॐ राहवे नमः, श्री राहुमावाहयामि स्थापयामि पूजां गृहाण सुप्रसन्नो भव॥)

केतु (वायव्य में)

ॐ केतुंक्रण्ण्वन्न॑ के॒तवे॒पेशों मर्ॺ्ॺाऽ अपे॒शसे॑।
समु॒ष‌द्भिरजायथाᳬ॥ (यजु० ३७।२९)

पलाशपुष्पसंकाशं तारकाग्रह मस्तकम्।
रौद्रं रौद्रात्मकं घोरं तं केतुमावाहयाम्यहम्॥

(ॐ भूर्भुवः स्वः अन्तर्वेदिसमुद्भव जैमिनीसगोत्र धूम्रवर्ण भो केतो! इहागच्छ इह तिष्ठ ॐ केतवे नमः, श्री केतुमावाहयामि स्थापयामि पूजां गृहाण सुप्रसन्नो भव॥)

॥ इति नवग्रहाणां स्थापनम् ॥


॥ अथ् अधिदेवानां पूजनावाहनं स्थापनम् ॥

ईश्वरम् (सूर्यदक्षिणपार्श्वे)

ॐ त्र्य॑म्बकँ ॺ्ॺजामहे सुग॒न्धिम्पु॑ष्ट्टि॒वर्द्ध॑नम्।
उ॒र्व्वा॒रु॒कमि॑व॒बन्ध॑नान्मृ॒त्त्योर्मु॑क्षीय॒ मामृता॑त्॥

(ॐ भूर्भुवः स्वः ॐ ईश्वराय नमः ईश्वरमावा० स्थाप०॥ भो ईश्वर इहागच्छ इह तिष्ठ॥)

उमाम् (सोमदक्षिणपार्श्वे)

ॐ श्रीश्च॑तेल॒क्ष्मीश्च॒ पत्क्न्या॑ वहोरा॒त्र्त्रे पा॒श्श्वे नक्ष॑त्राणि रु॒पम॒श्विनौ॒ व्वयात्त॑म्।
इ॒ष्ण्णन्नि॑षाण॒ मुम्म॑ऽइषाणसर्व्वलो॒कम्म॑ऽइषाण॥

(ॐ भूर्भुवः स्वः ॐ उमायै नमः उमामावा० स्थाप०॥ भो उमे इहागच्छ इह तिष्ठ॥)

स्कंदम् (भौमदक्षिणपार्श्वे)

ॐ यदक्क्र॑न्दः प्प्रथ॒मञ्जाय॑मान ऽउ॒द्द्यन्त्स॑मु॒द्रादु॒तवापुरी॑षात्।
श्ये॒नस्य॑प॒क्षाह॑रि॒णस्य॑वा॒हूऽ उ॑प॒स्तुत्त्य॒म्महि॑ जा॒तन्ते॑ ऽअर्व्वन्॥

(ॐ भूर्भुवः स्वः ॐ स्कन्दाय नमः स्कन्दमावा० स्थाप०॥ भो स्कन्द इहागच्छ इह तिष्ठ॥)

विष्णुम् (बुधदक्षिणपार्श्वे)

ॐ व्विष्ण्णो॑र॒राट॑मसि॒ व्विष्ण्णोः श्नप्त्रे॑स्त्थो॒ व्विष्ण्णो॒ स्यूरः॑पसि॒ व्विष्ण्णो॑द्‌र्ध्रुवो॒सि।
व्वै॒ष्ण्ण॒वम॑सि॒ व्विष्ण्ण॑वेत्त्वा॥

(ॐ भूर्भुव स्वः ॐ विष्णवे नमः विष्णुमावा० स्थाप०॥ भो विष्णो इहागच्छ इह तिष्ठ॥)

ब्रह्माणम् (गुरुदक्षिणपार्श्वे)

ॐ आब्ब्रह्म॑न्न्ब्राह्म॒णो ब्ब्रह्मवर्च्च्च॒सीजा॑यता॒मा रा॒ष्ट्रे रा॑जन्न्यॄ÷ शूर॑ऽइष॒व्व्यो॒तिव्व्या॒धीम॑हार॒थो जा॑यता॒न्दोग्ग्ध्री॑ धे॒नुर्व्वोढा॑न॒ड्वाना॒शुः साप्प्तिः पुर॑न्धि॒र्ॺ्ॺोषा॑ जि॒ष्ण्णूर॑थे॒ष्ट्ठाः स॒भेयो॒ॺुवा॑स्य॒ॺज॑मानस्य व्वी॒रोजा॑यता न्निका॒मेनि॑का मेनः प॒र्ञ्जन्न्यो॑ व्वर्षतु फळ॑वत्त्योन॒ऽओष॑धयः पच्च्यन्ताँॺ्ॺोगक्षे॒मोन÷ कल्प्पताम् ॥

(ॐ भूर्भुवः स्वः ॐ ब्रह्मणे नमः ब्रह्माणमावा० स्थाप०॥ भो ब्रह्मन् इहागच्छ इह तिष्ठ॥)

इन्द्रम् (शुक्रदक्षिणपार्श्वे)

ॐ स॒जोषा॑ऽइन्द्र॒ सग॑णो म॒रुदि्भ्दः॒ सोम॑म्पिबव्वृत्र॒हाशू॑रव्विद्वान्।
ज॒हिशत्रूँ १ऽ रप॒मृधो॑नुद॒स्वाथा भ॑यङ्कृणुहि व्विश्श्वतो॑नः॥

ॐ भूर्भुवः स्वः ॐ इन्द्राय नमः इन्द्रमावा० स्थाप०॥ भो इन्द्र इहागच्छ इह तिष्ठ॥

यमम् (शनिदक्षिणपार्श्वे)

ॐ ॺ॒माय॒ त्त्वाङ्गि॑रस्वते पितृ॒मते॒ स्वाहा॑।
स्वाहा॑ध॒र्म्माय॒ स्वाहा॑ ध॒र्म्मः पि॒त्र्त्रे॥

(ॐ भूर्भुवः स्वः ॐ यमाय नमः यममावा० स्थाप०॥ भो यम इहा गच्छ इह तिष्ठ॥

कालम् (राहुदक्षिणपार्श्वे)

ॐ कार्षि॑रसि समु॒द्रस्य॒ त्वाक्षि॑त्त्या॒ऽउन्न॑यामि॥
समापो॑ऽअ॒दि्द्भरग्ग्मत॒समोष॑धी भिरोष॑धीः॥

(ॐ भूर्भुवः स्वः कालाय नमः कालमावा० स्थाप०॥ भो काल इहागच्छ इह तिष्ठ॥)

चित्रगुप्त (केतुदक्षिणपार्श्वे)

ॐ चित्रा॑वसो स्व॒स्तिते॑ पारम॑शीय॥

(ॐ भूर्भुवः स्वः ॐ चित्रगुप्ताय नमः चित्रगुप्तमावा० स्थाप०॥ भो चित्रगुप्त इहागच्छ इह तिष्ठ॥)

॥ इत्यधिदेवतानां स्थापनम् ॥


॥ अथ् प्रत्यधिदेवानां पूजनावाहनं स्थापनम् ॥

अग्निम् (सूर्यवामपार्श्वे)

ॐ अग्ग्निन्दूतम्पुरोद॑धे हव्व्य॒बाह॒ मुप॑ब्व्रुवे वे।
दे॒वाँ२आसा॑द‌यादि॒ह॥

(ॐ भूर्भुवः स्वः ॐ अग्नये नमः अग्निमावा० स्थाप०। भो अग्ने इहागच्छ इह तिष्ठ॥)

आपः (सोमवामपार्श्वे)

ॐ आपो॒हिष्ट्ठा म॑यो॒भुव॒स्तान॑ ऽऊर्ज्जेद॑धातन॥
म॒हे रणा॑यचक्ष॑से ॥

(ॐ भूर्भुवः स्वः ॐ अद्भ्यो नमः अप आवा० स्थाप०। भो आप इहागच्छ इह तिष्ठ॥)

पृथ्वीम् (भौमवामपार्श्वे)

ॐ स्यो॒नापृ॑थिवि नो भवा नृक्ष॒रा निवेश॑नी।
यच्छा॑नः शर्म्म॑ सप्प्रथाः॑॥

(ॐ भूर्भुवः स्वः ॐ पृथिव्यै नमः पृथिवीमावा० स्थाप०। भो पृथिवि इहागच्छ इह तिष्ठ॥)

विष्णुम् (बुधवामपार्श्वे)

ॐ इ॒दं व्विष्ण्णु॒ र्व्विच॑क्रमे त्रे॒धा निद॑धे प॒दम्।
समू॑ढमस्य पा ᳬ सु॒रे स्वाहा॑॥

(ॐ भूर्भुवः स्वः ॐ विष्णवे नमः विष्णुमावा० स्थाप०। भो विष्णो इहागच्छ इह तिष्ठ॥)

इन्द्रम् (गुरुवामपार्श्वे)

ॐ त्रा॒तार॒मिन्द्र॑ मवि॒तार॒मिन्द्र॒ ᳬ हवे॑ हवे सु॒हव॒ ᳬ शूर॒मिन्द्र॑म्।
ह्वया॑मि श॒क्रम्पु॑रुहू॒तमिंन्द्र॑ ᳬ स्व॒स्ति नो॑ म॒धवा॑ धा॒त्त्विन्द्रः॑॥

(ॐ भूर्भुवः स्वः ॐ इन्द्राय नमः इन्द्रमावा० स्थाप०। भो इन्द्र इहागच्छ इद्द तिष्ठ॥

इंद्राणीम् (शुक्रवामपार्श्वे)

अदि॑त्त्यै॒ रास्त्रा॑सीन्द्रा॒ण्ण्याऽउ॒ष्ण्णीषः॑।
पू॒षा सि॑घ॒र्म्माय॑दीष्व॥

(ॐ भूर्भुवः स्वः ॐ इन्द्राण्यै नमः इन्द्राणीमावा० स्थाप०। भो इन्द्राणि इहागच्छ इह तिष्ठ॥

प्रजापतिम् (शनिवामपार्श्वे)

ॐ प्रजा॑पते॒ नत्त्वदे॒तान्न्य॒न्न्यो विश्वा॑ रू॒पाणि प्रिया ब॑भूव।
यत्त्का॑मास्ते जुहु॒ मस्तन्नो॑ऽअस्तुव॒यᳬ स्या॑म॒ पत॑यो रयीणाम्॥

(ॐ भूर्भुवः स्वः ॐ प्रजापतये नमः प्रजापतिमावा० स्थाप०। भो प्रजापते इहागच्छ इह तिष्ठ॥)

पन्नगान सर्प (राहुवामपार्श्वे)

ॐ नमो॑स्तु स॒र्प्पेब्भ्यो॒ ॺेकेच॑पृथि॒वीमनु॑।
ॺेऽअन्तरि॑क्षे॒ ॺेदि॒वितेब्भ्यः॑ स॒र्प्पेब्भ्यो॒ नमः॑॥

(ॐ भूर्भुवः स्वः ॐ सर्पेभ्यो नमः सर्पानावा० स्थाप०। भो सर्पा इहागच्छत इह तिष्ठत॥

ब्रह्माणम् (केतुवामपार्श्वे)

ॐ ब्रह्म॑ जज्ज्ञा॒नम्प्र॑थ॒मम्पुरस्ता॒द्विसी॑म॒तः सु॒रुचो॑व्वे॒नऽआ॑वः।
सबु॒द्ध्न्या॒ऽउप॒माऽ अ॑स्य व्वि॒ष्ट्ठाः स॒तश्च॒ॺोनि॒मस॑तश्च॒व्विवः॥

(ॐ भूर्भुवः स्वः ॐ ब्रह्मणे नमः ब्रह्माणमावा० स्थाप०। भो ब्रह्मन् इहागच्छ इह तिष्ठ॥)

॥ इति प्रत्यधिदेवतास्थापनम् ॥


॥ अथ् पञ्चलोकपालदेवानां पूजनावाहनं स्थापनम् ॥

गणपतिम् (राहोरुत्तरतः)

ॐ ग॒णाना॑न्त्वा ग॒णप॑ति ᳬ हवामहे प्प्रि॒याणा॑न्त्वा प्प्रि॒यप॑ति ᳬ हवामहे निधी॒नान्त्वा॑ निधि॒पति॑ ᳬ हवामहे व्वसोमम ।
आ॒हम॑जानि गर्ब्भ॒धमात्त्वम॑जासिगर्ब्भ॒धम् ॥

(ॐ भूर्भुवः स्वः ॐ गणपतये नमः गणपतिमावा० स्थाप०। भो गणपते इहागच्छ इह तिष्ठ ॥

दुर्गाम् (शनेरुत्तरतः)

ॐ अम्बे॒ऽअम्बि॒केम्बा॑ळिके॒ नमा॑नयति॒ कश्च॒न।
सस॑स्त्यश्श्व॒कः सुभ॑द्रिका काम्पीळवा॒सिनी॑म्॥

(ॐ भूर्भुवः स्वः ॐ दुर्गायै नमः दुर्गामावा० स्थाप०। भो दुर्गे इहागच्छ इह तिष्ठ॥)

वायुम् (रवेरुत्तरतः)

ॐ व्वायोॺेते॑ सह॒स्रिणो॒रथा॑स॒स्तेभि॒राग॑हि।
नि॒युत्त्वा॒न्त्सोम॑पीतये॥

(ॐ भूर्भुवः स्वः ॐ वायवे नमः वायुमावा० स्थाप०। भो वायो इहागच्छ इह तिष्ठ॥)

आकाशम् (राहोर्दक्षिणे)

ॐ घृ॒त‌ङ्घृ॑तपावानः पिबत॒व्वसं॑व्वसापावानः पिबता॒न्तरि॑क्षस्य ह॒विर॑सि स्वाहा॑।
दिशः॑ प्प्र॒दिश॑ऽआ॒दिशो॑ व्वि॒दिश॑ऽउ॒द्दिशो॑ दि॒ग्ग्भ्यःस्वाहा॑॥

(ॐ भूर्भुवः स्वः ॐ आकाशाय नमः आकाशमावा० स्थाप०। भो आकाश इहागच्छ इह तिष्ठ॥)

अश्विनौ (केतुदक्षिणे)

ॐ ॺावा॒ङ्कशा॒ मधु॑म॒त्त्यश्श्वि॑ना सू॒नृता॑वती। तया॑ॺ॒ज्ञम्मिमिक्षतम्॥
उपया॒म गृहीतो॒ऽस्य॑श्विभ्यां त्वैषते॒ ॺो॒निर्मादध्वीभ्या॒न्त्वा॥

(ॐ भूर्भुवः स्वः ॐ अश्विभ्यां नमः अश्विनावा० स्थाप०। भो अश्विनौ इहागच्छतम् इह तिष्ठतम्॥)

॥ इति पञ्चवलोकपाळदेवतास्थापनम् ॥


॥ अथ् क्षेत्राधिपतेर्वास्तोष्पतेर्दशदिक्पालानाञ्च पूजनावाहनं स्थापनम् ॥

क्षेत्राधिपतिम् (गुरोरुत्तरे)

ॐ न॒हि स्प्पश॒मवि॑दन्न॒न्न्यम॒स्म्माद्वैश्श्वान॒रात्त्पु॑रऽ ए॒तार॑म॒ग्ग्नेः।
एमे॑नमवृधन्न॒मृता॒ऽ अम॑र्त्त्य॑ व्वैश्वान॒रङ्क्षैत्र्त्र॑ जित्त्याय दे॒वाः॥

(ॐ भूर्भुवः स्वः क्षेत्राधिपतये नमः क्षेत्राधिपतिमावा० स्थाप०। भो क्षेत्राधिपते इहागच्छ इह तिष्ठ॥)

वास्तोष्पतिम् (क्षेत्राधिपत्युत्तरे)

ॐ वास्तोष्पते प्रतिजानिह्यस्मान्त्स्वावेशोऽ अनमीवो भवा नः। ॺत्त्वेमहे प्रतितन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे॥

(ॐ भूर्भुवः स्वः वास्तोष्पतये नमः वास्तोष्पतिमावा० स्थाप०। भो वास्तोष्पते इहागच्छ इह तिष्ठ॥)

इंद्रम् (ग्रहमण्डलाद्धहिः पूर्वस्याम्)

ॐ त्रा॒तार॒मिन्द्र॑ मवि॒तार॒मिन्द्र॒ᳯ हवे॑ हवे सु॒हव॒ᳯ शूर॒मिन्द्र॑म्।
ह्वया॑मि श॒क्रम्पु॑रुहू॒तमिंन्द्र॑ᳯ स्व॒स्ति नो॑ म॒धवा॑ धा॒त्त्विन्द्रः॑॥

(ॐ भूर्भुवः स्वः इन्द्राय नमः इन्द्रमा० स्था० ॥ भो इन्द्र इहागच्छ इह तिष्ठ॥)

अग्निम् (ग्रहमण्डलाद्वहिः आग्नेय्याम्)

ॐ त्वन्नो॑ऽ अग्ग्ने॒ तव॑ देव पा॒युभि॑र्म्म॒घोनो॑ रक्ष त॒न्न्व॒श्च व्वन्द्य।
त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यर्निमेषः॒ᳬ रक्ष॑माण॒स्तव॑ व्व्र॒ते॥

(ॐ भूर्भुवः स्वः अग्नये नमः अग्निमावा० स्थाप० भो अग्ने इहागच्छ इह तिष्ठ॥)

यमम् (ग्रहमण्डलाद्वहिः दक्षिणस्याम्)

ॐ ॺ॒माय॒ त्त्वाङ्गि॑रस्वते पितृ॒मते॒ स्वाहा॑।
स्वाहा॑ ध॒र्म्माय॒ स्वाहा॑ध॒र्म्मः पि॒त्र्त्रे॥

(ॐ भूर्भुवः स्वः यमाय नमः यममावा० स्था०। भो यम इहागच्छ इह तिष्ठ॥)

निर्ऋतिम् (ग्रहमण्डळाद्वहिः नैर्ऋत्याम्)

ॐ असु॑वन्त॒म य॑जमानमिच्छस्ते॒नस्येत्त्यामन्न्विहि॒ तस्क॑रस्य।
अन्न्यम॒स्म्मदि॑च्छ॒ सा त॑ ऽइ॒त्त्या नमो॑ देवि निर्ऋते॒ तुब्भ्य॑मस्तु॥

(ॐ भूर्भुवः स्वः निर्ऋतये नमः निर्ऋतिमावा० स्थाप०। भो निर्ऋते इहागच्छ इह तिष्ठ॥)

वरुणम् (ग्रहमण्डलाद्वहिः पश्चिमायाम्)

ॐ तत्त्वा॑ॺामि॒ ब्ब्रह्म॑णा॒ व्वन्द॑मान॒स्तदाशा॑स्ते॒ ॺज॑मानो ह॒विर्ब्भिः॑।
अहे॑डमानो व्वरुणे॒ह बो॒द्ध्युरु॑शᳬ स॒ मा न॒ऽ आयुᳬ प्रमो॑षीः॥

(ॐ भूर्भुवः स्वः वरुणाय नमः वरुणमावा० स्थाप०। भो वरुण इहागच्छ इह तिष्ठ॥)

वायुम् (ग्रहमण्डलाद्वहिः वायव्याम्)

ॐ आ नो॑ नि॒युद्भिः श॒तिनी॑भिरध्द्व॒रः ᳬ स॑ह॒स्रिणी॑। भि॒रुप॑याहि ॺ॒ज्ञम्।
व्वायो॑ ऽअ॒स्म्मिन्त्सव॑ने मादयस्व ॺू॒यम्पा॑तस्व॒स्तिभिः॒ सदा॑ नः॥

(ॐ भूर्भुवः स्वः वायवे नमः वायुमावा० स्थाप०। भो वायो इहागच्छ इह तिष्ठ॥)

सोमम् (ग्रहमण्डलाद्वहिः उत्तरस्याम्)

ॐ व्व॒यᳬसो॑मव्व्र॒तेतव॒ मन॑स्त॒नूषु॒बिब्भ्र॑तः।
प्र॒जाव॑न्तः सचेमहि॥

(ॐ भूर्भुवः स्वः सोमाय नमः सोममावा० स्थाप०।। भो सोम इहागच्छ इह तिष्ठ॥)

ईशानम् (ग्रहमण्डलाद्वहिः ईशान्याम्)

ॐ तमीशा॑न॒ञ्जग॑ तस्त॒स्त्थुष॒स्प्पति॑न् धियाञ्जि॒न्न व॑मव॑सेहूमहेव्व॒यम्।
पू॒षा नो॒ ॺथा॒ व्वेद॑सा॒ मस॑द्द्व्वृधे र॑क्षि॒तापा॒युरद॑ब्धः स्व॒स्तये॑॥

(ॐ भूर्भुवः स्वः ईशानाय नमः ईशानमावा० स्थाप०। भो ईशान इहागच्छ इह तिष्ठ॥)

ब्रह्माणम् (ग्रहमण्डळाद्धहिः ईशानपूर्वयोर्मध्ये ऊर्ध्वायाम्)

ॐ अस्म्मेरुद्रा मेहनापर्व्व॑ता सोव्वृत्रहत्त्ये॒भर॑हूतौस॒जोषाः॑।
ॺ:शᳬ संतेस्तुव॒तेधायि॑प॒ज्ज्रऽ इन्द्र॑ज्ज्येष्ट्ठाऽ अ॒स्म्माँ२ऽ अ॑वन्तुदे॒वाः॥

(ॐ भूर्भुवः स्वः ब्रह्मणे नमः ब्रह्माणमावा० स्थाप०। भो ब्रह्मन् इहागच्छ इह तिष्ठ॥)

अनन्तम् (ग्रहमण्डळाद्वहिः नैर्ऋत्यपश्चिमयोर्मध्येऽधः)

ॐ स्यो॒ना पृ॑थिवि नो भवा नृक्ष॒रानि॒वेश॑नी।
ॺच्छा॑ नः शर्म्म॑ स॒प्प्रथाः॑॥

(ॐ भूर्भुवः स्वः अनन्ताय नमः अनन्तमावा० स्थाप०। भो अनन्त इहागच्छ इह तिष्ठ॥)


॥ अथ् पूजन प्रकरणम् ॥


प्रतिष्ठापनम्

ॐ मनो॑ जू॒तिर्ज्जु॑षता॒माज्ज्य॑स्य॒ बृह॒स्प्पति॑र्ॺ॒ज्ञमि॒मन्त॑नो॒त्वरि॑ष्ट्टँ ॺ्ॺ॒ज्ञᳯ समि॒मन्द॑धातु॒।
व्विश्श्वे॑दे॒वास॑ ऽइ॒हमा॑दयन्ता॒मो॑३ प्रति॑ष्ट्ठ॥

(ॐ भूर्भुवः स्वः सूर्याद्यावाहित नवग्रहमण्डलदेवताः सुप्रतिष्ठिता वरदा भवत॥)

ततो ध्यानम्

ॐ ग्रहा॑ऽऊर्ज्जाहुतयो॒ व्वयन्तो॒ व्विप्प्रा॑य म॒तिम्।
तेषा॑व्विशि॑ प्प्रियाणांव्वो॒हमिषमूर्ज्ज॒ᳯ सम॑ग्ग्रभमुपया॒म गृ॑हीतो॒सीन्द्रा॑यत्त्वा जुष्टृ॑ङ्गृह्ण्णाम्म्ये॒षते॒ ॺोनि॒रिन्द्रा॑यत्त्वा॒ जुष्टृ॑तमम्॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः ध्यायामि॥)

आसनम्

पुरु॑षऽए॒वेद ᳯ सर्व्वं॒ॺ्ॺद्भू॒तंॺ्ॺच्च॑भाॖव्व्य॒म्।
उॖतामृ॑तॖत्त्वस्येशा॑नोॖॺदन्ने॑नातिॖरोह॑ति॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः आसनं समर्पयामि॥)

पाद्यम्

ए॒तावा॑नस्यमहिॖमातोॖज्ज्यायाँ॑श्च्चॖपूरु॑षः।
पा॑दोऽस्यॖव्विश्श्वा॑भू॒तानि॑त्र्त्रि॒॑पाद॑स्याॖमृत॑न्दिॖवि॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः पादयोः पाद्यं समर्पयामि॥)

अर्घ्यम्

ॐ धाम॑न्ते॒ व्विश्श्व॒म्भुव॑न॒मधि॑रिश्र॒तम॒न्तः स॑मु॒द्रेहृ॒द्द्यन्तरायु॑षि।
अ॒पामनी॑के समि॒थेॺऽ आभृ॑त॒स्तम॑श्श्याम॒मधु॑मन्तन्तऽऊ॒र्म्मिम्॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः अर्घ्यं समर्पयामि॥)

आचमनीयम्

ततॊ॑व्विॖराड॑जायतव्विॖराजोॖऽअधिॖपूरु॑षः।
सजाॖतोऽअत्य॑रिच्च्यतपॖश्च्चाद्भूमिॖमथो॑पु॒रः॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः आचमनीयम् समर्पयामि॥)

पञ्चामृतस्न्नानम्

ॐ घृ॒तेन॒सीता॒मधु॑ना॒ सम॑ज्ज्यतां व्विश्श्वै॑र्दे॒वैरनु॑ मता म॒रुद्भिऽ।
ऊर्ज्ज॑स्वती॒ पय॑सा॒पिन्न्व॑माना॒-स्म्मान्त्सी॑ते॒पय॑सा॒ब्भ्या व॑वृत्त्स्व॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः पञ्चामृतस्न्नानं समर्पयामि॥ पञ्चामृतस्न्नानान्ते शुद्धोदकस्न्नानं समर्पयामि॥ शुद्धोदकस्न्नानान्ते आचमनीयं समर्पयामि॥)

गन्धोदकस्न्नानम्

ॐ ग॒न्ध॒र्व्वस्त्वा॑ व्वि॒श्श्वाव॑सुः परि॑दधातु॒ व्विश्श्व॒स्यारि॑ष्ट्यै॒ ॺज॑मानस्य परि॒धिर॑स्य॒ग्नि रि॒डऽई॑डि॒तः॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः गन्धोदकस्न्नानं समर्पयामि॥ गन्धोदकस्न्नानान्ते शुद्धोदकस्न्नानं समर्पयामि॥ शुद्धोदकस्न्नानान्ते आचमनीयं समर्पयामि॥

स्न्नानम्

ॐ शुद्धवा॑लः स॒र्व्वशु॑द्धवालो मणि॒वाल॒स्त ऽआ॑श्श्विनाः श्येतः।
श्येताक्षोऽरु॒णस्ते रु॒द्राय॑ पशुपत॑ये कर्ण्णा ॺामा
ऽअ॑वलिप्पता रौद्रा नर्भोरूपाः पार्ज्जन्न्याः॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः शुद्धोदकस्न्नानं समर्पयामि॥ शुद्धोदकस्न्नानान्ते आचमनीयं समर्पयामि॥)

वस्त्रम्

ॐ सुजा॑तो॒ ज्ज्योति॑षा स॒हशर्म्म॒ व्वरू॑थ॒मा स॑द॒त्त्स्वः॒
व्वासो॑ऽ अग्ने व्विश्श्वरूप॒ᳮ संव्व्य॑यस्व-व्विभावसो॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः वस्त्रं समर्पयामि॥ वस्त्रान्ते आचमनीयं जलं समर्पयामि॥)

उपवीतम्

ॐ ब्रह्म॑ जज्ज्ञा॒नम्प्र॑थ॒मम्पुरस्ता॒द्विसी॑म॒तः सु॒रुचो॑व्वे॒नऽआ॑वः।
सबु॒द्ध्न्या॒ऽउप॒माऽ अ॑स्य व्वि॒ष्ट्ठाः स॒तश्च॒ॺोनि॒मस॑तश्च॒व्विवः॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः उपवीतं समर्पयामि॥ उपवीतान्ते आचमनीयं जलं समर्पयामि॥)

गन्धम्

ॐ त्वाङ्ग॑न्ध॒र्व्वाऽअ॑खनँ॒स्त्वामिन्द्र॒स्त्वाम्बृह॒स्प्पतिः॑।
त्वामो॑षधे॒ सोमो॒राजा॑व्विद्वान्न्यक्ष्मा॑दमुच्यत॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः गन्धं सम०॥)

अक्षताः

ॐ अक्ष॒न्नमी॑मदन्त॒ह्यव॑प्प्रि॒याऽ-अ॑धूषत।
अस्तो॑षत॒ स्वभा॑नवो व्विप्प्रा॒नवि॑ष्ट्ठया म॒ती ॺोजान्न्विन्द्रतेहरी॑॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः अअक्षतान्समर्पयामि॥)

पुष्पाणि

ॐ ओष॑धीः॒ प्प्रति॑मोदद्ध्व॒म्पुष्प्पवतीः प्प्रसूव॑रीः।
अश्श्वा॑ऽइवस॒ज्जित्त्व॑री र्व्वी॒रुध॑ पारयि॒ष्ण्वः॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्हमण्डलदेवेभ्यो नमः पुष्पाणि समर्पयामि॥)

सौभाग्यद्रव्याणि

ॐ अहि॑रिव भो॒गैः पर्ॺ्ॺेति बा॒हुञ्ज्याया॑ हे॒तिम्प॑रि बाध॑मानः।
ह॒स्त॒ग्घ्नो व्विश्श्ववा॑ व्व॒युना॑नि व्वि॒द्धान्पुमान्न पुमा॑ᳬ स॒म्परि॑ पातु व्वि॒श्वतः॑॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः सौभाग्यद्रव्याणि समर्पयामि॥)

धूपम्

ॐ अश्श्व॑स्यत्त्वा॒व्वृष्णः॑ श॒क्क्रानाधू॑पयामिदेव॒यज॑ने पृथि॒व्व्याः।
म॒खायंत्त्वाम॒खस्य॑त्त्वाशी शी॒र्ष्ण्णे॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः धूपमाघ्रापयामि॥)

दीपम्

ॐ अ॒ग्ग्निर्ज्ज्योति॑षा॒ज्ज्योति॑ष्म्मान्न्नु॒क्क्मो व्वर्च्च॑सा॑व्वर्च्च॑स्वान्।
स॒ह॒स्त्र॒दाऽअ॑सि स॒हस्त्रा॑यत्त्वा॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः दीपं दर्शयामि॥)

नैवेद्यम्

ॐ अन्न॑प॒तेन्न॑स्यनोदेह्वनमी॒वस्य॑ शुष्म्मिणः॑।
प्रप्प॑दातार॑न्तारिष॒ऽ ऊर्ज्ज॑न्नोधेहि द्वि॒पदे॒चतु॑ष्पदे॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहणमण्डलदेवेभ्यो नमः नैवेद्यं निवेदयामि॥)

धज्ञययय़हंगायत्री  मन्त्रेण नैवेद्यं सम्मोक्ष्य वामकरं पद्माकारं कृत्वा दक्षकरेण तत्तद्‌ग्रासमुद्रया नैवेद्यं निवेदयेत्॥

तर्जनीमध्यमाङ्गुष्ठैः –           ॐ प्राणाय स्वाहा।
मध्यमानामिकाङ्गुष्ठैः –         ॐ अपानाय स्वाहा।
कनिष्ठिकानामिकाङ्गुष्ठैः –      ॐ व्यानाय स्वाहा। कनिष्ठिकातर्जन्यङ्गुष्ठैः –        ॐ उदानाय स्वाहा।
साङ्गुष्ठाभिः सर्वाङ्गलिभिः –  ॐ समानाय स्वाहा।

पूर्वापोशनं समर्पयामि।
उत्तरापोशनं समर्पयामि।
हस्तप्रक्षालनं समर्पयामि।
मुखप्रक्षालनं समर्पयामि।
आचमनीयं समर्पयामि।
करोद्वर्तनार्थे चन्दनं समर्पयामि।

फलम्

ॐॺाः फ॒लिनी॒र्ॺ्ॺाऽ अ॑फ॒लाऽ अ॑पु॒ष्पा ॺाश्च॑ पु॒ष्प्पिणीः॑।
बृह॒स्प्प्रति॑प्प्रसूता॒स्तानो॑ मुञ्च॒न्त्वᳬ ह॑सः॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः फळं समर्पयामि॥)

मुखवासार्थे ताम्बूलम्

उ॒तस्म्मा॑स्य॒ द्द्व॑तस्तु रण्ण्य॒तः प॒र्ण्णन्नवेरनु॑वातिप्प्रग॒र्द्धिनः॑।
श्ये॒नस्ये॑ व॒ध्द्रज॑तोऽ अंक॒सम्परि॑दधि॒क्क्राव्ण्णः॑ स॒होर्ज्जा तरि॑त्र्त्रतः॒ स्वाहा॑।

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः मुखवासार्थे ताम्बूलं समर्पयामि॥)

दक्षिणाम्

ॐ ॺद्द॒त्तँ ॺ्ॺत्त्प॑रा॒दानँ॒ ॺ्ॺत्त्पू॒र्त्ते ॺाश्च॒ दक्षि॑णाः।
तद॒ग्न्निर्व्वैश्श्वकर्म्म॒णः स्व॑र्द्दे॒वेपु॑नोदधत्॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः सुपुष्पदक्षिणां समर्पयामि॥)

कर्पूरारार्तिक्यम्

ॐ ॺे दे॑वासो दि॒व्व्येका॑दश॒ स्त्थ पृ॑थिव्व्या मद्ध्येका॑दश॒स्त्थ।
अ॒प्प्सु॒क्षितो॑ महि॒नैका॑दश॒ स्त्थ ते दे॑वाभो ॺ॒ज्ञमि॒मञ्जु॑षद्ध्वम्॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः कर्पूरारार्तिक्यं समर्पयामि॥)

(जलेन प्रदक्षिणावर्तनम्॥ पुष्पैर्देववन्दनम्॥ हस्तेन आत्मवन्दनम्॥ हस्तप्रक्षालनम्॥)

मन्त्रपुष्पाञ्जलिः

ॺॖज्ञेन॑ॺॖज्ञम॑यजन्तदेॖवास्तानिॖधर्म्मा॑णिप्प्रथॖमान्न्या॑सन्।
तेहॖनाक॑म्महिॖमान॑÷ सचन्तॖॺत्र्त्रॖपूर्व्वे॑साॖद्ध्याः सन्ति॑देॖवाः॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः मन्त्रपुष्पाञ्जलिं समर्पयामि॥)

प्रदक्षिणाम्

सॖप्प्तास्या॑सन्न्यरिॖधयॖस्त्र्त्रिॖः सॖप्प्तसॖमिधः॑ कृॖताः।
देॖवाॺद्यॖज्ञन्त॑न्न्वाॖनाऽअब॑ध्नॖन्न्पुरु॑षम्पॖशुम्॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः प्रदक्षिणां समर्पयामि॥)

विशेषार्घ्यम्

(अर्घ्यपात्रे जलं गृहीत्वा चन्दनपुष्पाक्षतसहितं नारिकेलं हिरण्यञ्च धृत्वा तत्पात्रं हस्ते गृहीत्वा।)

अर्घ्यं गृह्णन्त्विमं देवा आदित्य प्रमुखा ग्रहाः।
निर्विघ्नेन च कुर्युस्ते कार्यं मे यजनोद्भवम्॥
नौमि युष्मान्ग्रहान्सर्वानाकाशे भ्रमतोऽनिशम्।
कल्याणाय सदा यूयं जगतां स्थ पुनः पुनः॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः विशेषार्घ्यम् समर्पयामि॥)

ततः प्रार्थयेत्

सूर्य॔म् शौर्य मथेन्दु रुच्च पदवीं, सन्मङ्गलम मंङ्गलः।
सद्बुद्धिम च बुधो गुरुश्च गुरुतां, शुक्रः सुखं शं शनिः॥
राहुर्बाहुबलं करोतु सततं, केतुः कुलस्योउन्नतिम्।
नित्यं प्रीति करा भवन्तु मम ते, सर्वेऽनुकूला ग्रहाः॥

आयुश्च विद्याञ्च यशश्च शौर्यं लक्ष्मीं स्थिरां नीतिदयादियुक्ताम्।
पुत्रञ्च पौत्रञ्च पदं तथैशं यच्छन्तु यूयं ह्यभयं ग्रहा मे॥
भूयात्कृता या भवतां मया सा पूजा सुपूर्णा विधिना स्वशक्त्या।
भूयात्तथैवाशु सदाऽस्मदीयं ज्ञातं शुभं यन्मनसाऽपि नैव॥

(ॐ भूर्भुवः स्वः सूर्यादिनवग्रहमण्डलदेवेभ्यो नमः प्रार्थनापूर्वकं नमस्कारान्समर्पयामि॥)

समर्पणम्

हस्ते जलं गृहीत्वा – अनेन यथाज्ञानेन यथामिलितोपचारद्रव्यैः ध्यान आवाहन आसन पाद्य अर्घ्यं आचमनीय स्नान वस्त्रोपवीत गन्धाक्षत पुष्प धूपदीप नैवेद्य ताम्बूल दक्षिणा-प्रदक्षिणा मन्त्रपुष्परूपैः षोडशोपचारैः कृतेन पूजनेन सूर्यादिनवग्रहमण्डलदेवाः प्रीयन्तां न मम॥

॥ इति नवग्रहादिस्थापनपूजनप्रयोगः ॥

॥ श्रीरस्तु ॥
❀꧁○꧂❀

श्री हरि हरात्मक देवें सदा, मुद मंगलमय हर्ष।
सुखी रहे परिवार संग, अपना भारतवर्ष॥
❀꧁○꧂❀

┉ संकलनकर्ता ┉
श्रद्धेय पंडित विश्‍वनाथ प्रसाद द्विवेदी
‘सनातनी ज्योतिर्विद’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक
(‘हरि हर हरात्मक’ ज्योतिष)
संपर्क सूत्र – 07089434899
┉┅━❀꧁○꧂❀━┅┉

Copyright © 2025 Hari Har Haratmak. All rights reserved.

"enter" 2025 | Powered By SpiceThemes