अथ् श्री षोडशमातृका पूजन

आग्नेय्यां प्रतिमास्वक्षत पुञ्जेषु वा प्राक्संस्थमुदक्संस्थं वा पीठोपरि मातृकास्थापनं कुर्यात् । तद्यथा
(अग्निकोण में एक पीढ़े पर पश्चिम से पूर्व या दक्षिण से उत्तर तक सोलह जगह अक्षत की ढेरी पर श्री गणेश से आरम्भ कर तुष्टि एवं कुल देवी पर्यन्त मातृका स्थापित कर पूजा करे।)

आवाहन स्थापन

१ – श्री गणेश गौरी


समीपे मातृवर्गस्य सर्वविघ्नहरं सदा।
त्रैलोक्यवन्दितं देवं गणेशं स्थापयाम्यहम्॥
ॐ गणाना॑न्त्वा ग॒णप॑ति ಆ हवामहे प्रि॒याण न्त्वा प्रि॒यप॑ति ಆ हवामहे निधी॒नान्त्वा॑ निधि॒पति॑ ಆ ह॒वामहे व्वसो मम। आहमंजानि गर्भ॒धमा त्तवर्म जासि गर्ब्भधम्॥
ॐ आगच्छ भगवन्देव स्वस्थानात् परमेश्वर।
अहं त्वां पूजयिष्यामि सदा त्वं सम्मुखो भव॥
ॐ भूर्भुवः स्वः गणपतये नमः गणपतिमावाहयामि स्थापयामि।

ॐ आयं गौः पृश्न्निरक्रम॒दस॑मा॒तरे॑ पु॒रः। पि॒तरं॑ च प्प्र॒यन्त्स्वः॑॥
ॐ हेमाद्रितनयां देवीं वरदां भैरवप्रियाम्।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम्॥
ॐ भूर्भुवः स्वः गौर्ये नमः गौरीमावाहयामि स्थापयामि।

२ – पद्मा

ॐ हिर॑ण्ण्यरूपा ऽउ॒षसो॑ व्विरोक ऽभावि॑न्द्रा ऽउदि॑थं सूर्व्वश्च।
आरो॑हतं व्वरुण मित्र्त्र गर्त्त तत॑श्श्चक्षाथामदि॑ति॒ दिति॑ च मि॒त्र्त्रोऽसि॒ व्वरु॑णोऽसि॥
ॐ आवाहयाम्यहं पद्मां पद्मास्थां पद्ममालिकाम्।
पद्मावासां जगद्वन्द्यां पद्मनाभोरुसंस्थिताम्॥
ॐ भूर्भुवः स्वः पद्मायै नमः पद्मामावाहयामि, स्थापयामि।

४ -शची

ॐ नि॒वेशन सङ्गम॑नो॒ व्वसू॑नां व्विश्वा॑ रू॒पा भि॑चष्ट्टे शची॑भिः दे॒व ऽइव सवि॒ता स॒त्त्यध॒र्म्र्मेन्द्रो न त॑स्त्थौ सम॒रे प॑थि॒नाम्॥
ॐ दिव्यरुपां दिव्यवस्त्रां दिव्यालङ्कारसंयुताम्।
शतक्रतो महोरस्स्थां शचीमावाहयाम्यहम्॥
ॐ भूर्भुवः स्वः शच्यै नमः शचीमावाहयामि, स्थापयामि।

५ – मेधा

ॐ मेधां मे॒ व्वरु॑णो ददातु मे॒धाम॒ग्निः प्प्र॒जाप॑तिः।
मे॒धामिन्द्र॑श्च व्वा॒युश्च॑ मे॒धांधा॒ता द॑दातु मे॒ स्वाहा॑॥
ॐ आवाहयाम्यहं मेधां मेधाशक्तिप्रवर्धिनीम्।
वरप्रदां सौम्यरुपां जरां निर्जरसेविताम्॥
ॐ भूर्भुवः स्वः मेधायै नमः मेधामावाहयामि, स्थापयामि।

६ – सावित्री

ॐ स॒वि॒ता त्त्वा॑ स॒वाना॑ ಆ सु॒वताम॒ग्निर्ग्गृह प॑तीना॒ ಆ सोमो व्वन॒स्प्पती॑नाम्।
बृह॒स्प्पति॑वे॒च ऽइन्द्रो ज्ज्यैष्ठठ्याय रु॒द्रः पशुब्भ्यो॑ मि॒त्रः सत्त्यो व्वरु॑णो धर्म्मपतीनाम् ॥
ॐ आवाहयाम्यहं जगत्सृष्टिकरीं धात्रीं देवीं प्रणवमातृकाम्।
वेदगर्भां यज्ञमयीं सावित्रीं लोकमातरम्॥
ॐ भूर्भुवः स्वः सावित्रयै नमः सावित्रीमावाहयामि, स्थापयामि।

७ – विजया

ॐ विज्ज्य॒न्धनुः कपर्दिनो॒ व्विशल्यो॒ बाण॑वाँ२ उ॒त।
अने॑शन्नस्य॒ या ऽइष॑व ऽआ॒भुर॑स्य निषड्गधिः॥
ॐ आवाहयाम्यहं देवीं विजयां सर्वदेवस्तुताम्। सर्वास्त्रधारिणीं वन्द्यां सर्वाभरणभूषिताम्॥
ॐ भूर्भुवः स्वः विजयायै नमः विजयामावाहयामि, स्थापयामि।

८ – जया

ॐ बह्वीनां पि॒ता बहुर॑स्य पु॒ञ्त्रश्च॒श्श्चाकृ॑णोति॒ सम॑नाव॒गत्ये।
इ॒षु॑धि॒ सङ्ङ्काः पृ॑तनाश्श्च सर्व्वाः पृष्ठ्ठे निन॑द्धो जयति॒ प्रसूतः॥
ॐ आवाहयाम्यहं देवीं जयां त्रैलोक्यपूजिताम्। सुरारिमथिनीं वन्द्यां देवानामभयं प्रदाम्॥
ॐ भूर्भुवः स्वः जयायै नमः जयामावाहयामि, स्थापयामि।

९ – देवसेना

ॐ इन्द्द्द्रंऽआसान्ने॒ता बृह॒स्पति॒र्द्दक्षि॑णा य॒ज्ञः पुरऽए॑तु॒ सोम॑÷।
दे॒व॒से॒नाना॑म॒भिभञ्जती॒नाञ्जय॑न्तीना॑ म॒रुतो॑ य॒न्त्वग्ग्रम्॥
ॐ आवाहयाम्यहं देवीं देवसेनां महाबलाम्। तारकासुरसंहारकारिणीं बर्हिवाहनाम्॥
ॐ भूर्भुवः स्वः देवसेनायै नमः देवसेनामावाहयामि, स्थापयामि।

१० – स्वधा

ॐ पि॒तृब्भ्यः स्वधायिब्भ्य॑ स्व॒धा नर्मः पिताम॒हेब्भ्यः स्वधायिब्भ्यः स्व॒धा नमः प्प्रपि॑ता महेब्भ्यः स्वधायिब्भ्यः स्व॒धा नमः अक्ष॑त्र्पि॒तरो ऽमी॑मदन्नत पि॒तरोऽती॑तृपन्नत पि॒त॑र॒:पित॑र॒: शुन्ध॑द्धवम्॥
ॐ आवाहयाम्यहं देवीं पितृणां तोषदायिनीम्।
स्वधां देवाग्रजां देवैः कव्यार्थं या प्रतिष्ठिता॥
ॐ भूर्भुवः स्वः स्वधायै नमः स्वधामावाहयामि, स्थापयामि।

११ – स्वाहा

ॐ स्वाहा॑ प्प्रा॒णेब्भ्यः॒ साधि॑पतिकेब्भ्यः। पृथि॒व्व्यै स्वाहाग्नये॒ स्वाहा॒न्नतरि॑क्षाय॒ स्वाहा॑ व्वा॒यवे स्वाहा॑। दि॒वे स्वाहा॑ सू॒र्या॑य॒ स्वाहा॑॥
ॐ आवाहयाम्यहं स्वाहां वरदां दिव्यरुपिणीम्।
हविर्गृहीत्वा सततं देवेभ्यो या प्रयच्छति॥
ॐ भूर्भुवः स्वः स्वाहायै नमः स्वाहामावाहयामि, स्थापयामि।

१२ – मातृः

ॐ आपो॑ ऽअ॒स्म्मान्न्मा॒तर॑ शुन्धयन्तु॒ घृ॒तेन॑ नो घृतप्प्वः पुनन्तु व्विश्श्वष्ठ हि रि॒प्प्रं प्र॒वह॑न्ति दे॒वी रु॒दिदा॑ब्भ्य॒ शुचि॒रा पूतऽऐमि।
दी॒क्षात॒पसो॑स्तनू र॑सि॒ तां त्वा॑ शि॒वाಆश॒ग्ग्मां परि॑दधे भ॒द्रं व्वर्णं पुष्ष्य॑न्॥
ॐ आवाहयाम्यहं मातृः पूजिता या सुरासुरैः।
सर्वकल्याणरुपिण्यः सर्वाभरणभूषिताः॥
ॐ भूर्भुवः स्वः मातृभ्यो नमः मातृः आवामावाहयामि, स्थापयामि।

१३ – लोकमातृः

ॐ र॒यिश्श्चं मे॒ राय॑श्श्च॒ मे पुष्टृञ्च॑ मे॒ पुष्टि॑श्श्च॒ मे व्वि॒भु च॑ मे प्प्र॒भु च॑ मे पूर्ण्णञ्चं मे पूर्ण्णतंरञच् मे॒ कुर्यवञ्च॒ मेऽक्षिंतञ्च॒ मेऽन्न॑ञ्च॒ मेऽक्षुंच्च मे य॒ज्ञेन॑ कल्प्पन्ताम्॥
ॐ सर्वाभीष्टप्रदाः वन्द्याः सर्वलोकहितावहाः।
जयन्तीप्रमुखाः लोकमातृरावाहयाम्यम्॥
ॐ भूर्भुवः स्वः लोकमातृभ्यो नमः लोकमातृः आवामावाहयामि, स्थापयामि।

१४ – धृतिं

ॐ यत्प्र॒ज्ञान॑मु॒त चेतो धृति॑श्श्च॒ वज्ज्योति॑ र॒न्नतर॒मृते॑ प्प्र॒जासु॑ ।
य॒स्मान्न ऽॠते किञ्च न कर्म्म क्रि॒यते॒ तन्मे॒ मनः शि॒वस॑ङ्कल्पमस्तु॥
ॐ आवाहयाम्यहं देवीं धृतिं भक्ताऽनामभयप्रदाम्।
हर्षोत्फुल्लास्यकमलां सर्वसन्तोषदायिनीम्॥
ॐ भूर्भुवः स्वः धृत्यै नमः धृतिमावाहयामि, स्थापयामि।

१५ – पुष्टिं

ॐ अन॑त्र्या॒त्क्मन्निभषजा तद॒श्श्विनात्क्मानमङ्गैः सम॑धात्सर॑स्वती।
इन्द्र॑स्य रू॒पः श॒तमा॑न॒मायु॑श्श्च॒न्द्रेण॒ ज्ज्योति॑र॒मृत॒न्दधा॑नाः॥
ॐ आवाहयाम्यहं पुष्टिं पोषयन्तीं जगत्त्रयम्।
स्वदेहजैः फलैः शाकैः जलैः रत्नैर्मनोरमैः॥
ॐ भूर्भुवः स्वः पुष्ट्यै नमः पुष्टिमावाहयामि, स्थापयामि।

१६ – तुष्टिं

ॐ जा॒तवे॑दसे सुनवाम॒सोम॑मरातीय॒तो निद॑हाति॒वेदः
सनःपर्षदति दुर्गाणि॒ विश्वा॑ नावेवसिन्धुं दुरि॒तात्य॒ग्निः॥
ॐ आवाहयाम्यहं तुष्टिं वन्दितामसुरारिभिः।
सदा सन्तोषदां शान्तां प्रसन्नास्यां महाबलाम्॥
ॐ भूर्भुवः स्वः तुष्ट्यै नमः तुष्टिमावाहयामि, स्थापयामि।

१७ – आत्मकुलदेवताः

ॐ प्रा॒णाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा॑ व्व्या॒नाय॒ स्वाहा॑।
चर्क्षुषे स्वाहा॒ श्रोत्र्त्राय॒ स्वाहा॑ व्वा॒चे स्वाहा॒ मन॑से॒ स्वाहा॑॥
ॐ देशे ग्रामे गृहे बाह्ये विपिने पर्वते रणे।
आवाहयामि तां दुर्गां या पाति यातनार्णवात्॥
ॐ भूर्भुवः स्वः आत्मकुलदेवतायै नमः आत्मकुलदेवतामावाहयामि, स्थापयामि।

प्राण प्रतिष्ठा

एतं ते  देव सवितर्यज्ञं प्राहुर्बृहस्पतये ब्रह्मणे तेन यज्ञमव तेन यज्ञपतिं तेन मामव।
ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञं ಆ समिमं दधातु विश्वेदेवा स इह मादयन्नतामो३म्प्रतिष्ठ॥
ॐ भूर्भुवः स्वः श्रीगौर्यादिषोडशमातरः गणपतिसहिताः सुप्रतिष्ठिता वरदाः भवन्तु।

ॐ गणेशसहित गौर्यादिषोडशमातृभ्यो नमः एतानि पाद्यार्घ्याचमनीय स्नानीय पुनराचमनीयानि समर्पयामि॥

स्नानाङ्ग आचमन

स्नानान्ते पुनराचमनीयं जलं समर्पयामि

दुग्धस्नान

कामधेनुसमुद्भूतं सर्वेषां जीवनं परम्।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम्॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः पयः स्नानं समर्पयामि।

दधिस्नान

पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः दधिस्नानं समर्पयामि।

घृत स्नान

नवनीतसमुत्पन्नं  सर्वसंतोषकारकम्।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः घृतस्नानं समर्पयामि।

मधुस्नान

पुष्परेणुसमुद्भूतं   सुस्वादु   मधुरं  मधु।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः मधुस्नानं समर्पयामि।

शर्करास्नान

इक्षुरससमुद्भूतां  शर्करां पुष्टिदां  शुभाम्।
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः शर्करास्नानं समर्पयामि।

पञ्चामृतस्नान

पञ्चामृतं मयानीतं पयो दधि घृतं मधु।
शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः पञ्चामृतस्नानं समर्पयामि।

गन्धोदकस्नान

मलयाचल सम्भूत चन्दनेन विनिःसृतम्।
इदं गन्धोदकस्नानं कुङ्कुमाक्तं च गृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः गन्धोदकस्नानं समर्पयामि।

शुद्धोदकस्नान

गङ्गा च यमुना चैव गोदावरि सरस्वती।
नर्मदा सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः शुद्धोकस्नानं समर्पयामि।

स्नानाङ्ग आचमन

शुद्धोकदकस्नानान्ते आचमनीयं जलं समर्पयामि।

वस्त्र

शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम्।
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः वस्त्रं समर्पयामि।

आचमन

वस्त्रान्ते आचमनीयं जलं समर्पयामि।

उपवस्त्र

यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति।
उपवस्त्रं   प्रयच्छामि    सर्वकर्मोपकारकम्॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः उपवस्त्रं (उपवस्त्राभावे रक्तसूत्रं) समर्पयामि।

आचमन

उपवस्त्रान्ते आचमनीयं जलं समर्पयामि।

चन्दन

श्रीखण्डं चन्दनं दिव्यं  गंधाढ्यं  सुमनोहरम्।
विलेपनं  सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः चन्दनानुलेपनं समर्पयामि।

अक्षत

अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः।
मया  निवेदिता   भक्त्या  गृहाण  परमेश्वरी॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः अक्षतान् समर्पयामि।

पुष्प

माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।
मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः पुष्पं समर्पयामि।

दूर्वा

दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्।
आनीतांस्तव पूजार्थं गृहाण गणनायक॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः दूर्वाङ्कुरान् समर्पयामि।

सिन्दूर

सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः सिन्दूरं समर्पयामि।

अबीर गुलाल आदि नाना परिमल द्रव्य

अबीरं च गुलालं च हरिद्रादिसमन्वितम्।
नाना परिमलं द्रव्यं गृहाण परमेश्वरी॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः नानापरिमलद्रव्याणि समर्पयामि।

सुगन्धिद्रव्य

दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम्।
गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः सुगन्धिद्रव्यं समर्पयामि।

धूप

वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः धूपमाघ्रापयामि।

दीप

साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेश त्रैलौक्यतिमिरापहम्॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः दीपं दर्शयामि।

हस्तौप्रक्षालनः

‘ॐ हृषीकेशाय नमः’ कहकर हाथ धो ले।

नैवेद्य

(नैवेद्य को प्रोक्षित कर गन्ध पुष्पादि से आच्छादित करें। तदनन्तर जल से चतुष्कोण घेरा लगाकर भगवती के आगे रखें)

ॐ अमृतोपस्तरणमसि स्वाहा।
ॐ प्राणाय स्वाहा।
ॐ अपानाय स्वाहा।
ॐ समानाय स्वाहा।
ॐ उदानाय स्वाहा।
ॐ व्यानाय स्वाहा।
ॐ अमृतापिधानमसि स्वाहा।

शर्कराखण्डखाद्यानि  दधिक्षीरघृतानि  च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः नैवेद्यं निवेदयामि।

आचमन

नैवेद्यान्ते आचमनीयं जलं समर्पयामि।

ऋतुफल

इदं फलं मया देवी स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः ऋतुफलानि समर्पयामि।

श्रीफल समर्पणम्

ॐ आयुरारोग्यमैश्वर्यं ददध्वं मातरो मम।
निर्विध्नं सर्वकार्येषु कुरुध्वं सगणाधिपाः

”गृहे वृद्धिशतानि भवन्तु“ उत्तरे कर्मण्यविघ्नमस्तु।

आचमन

श्रीफलान्ते आचमनीयं जलं समर्पयामि।

उत्तरापोऽशन

ॐ मध्ये-मध्ये पानीयं समर्पयामि।
उत्तरापोशनं समर्पयामि।
हस्तप्रक्षालनं समर्पयामि।
मुखप्रक्षालनं समर्पयामि।

करोद्वर्तन

(मलय चन्दन समर्पित करें)
चन्दनं मलयोद्भुतं कस्तूर्यादिसमन्वितम्।
करोद्वर्तनकं देवी गृहाण परमेश्वरी॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः करोद्वर्तनकं चन्दनं समर्पयामि।

ताम्बूल

पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः मुखवासार्थम् एलालवंगपूगीफलसहितं ताम्बूलं समर्पयामि।

दक्षिणा

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः कृतायाः पूजायाः सा द्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि।

आरती

कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः अरार्तिकं समर्पयामि।

मन्त्र पुष्पांजलि

नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वरी॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः पुष्पाञ्जलिं समर्पयामि।

प्रदक्षिणा

यानि कानि च पापानि जन्मान्तरकृतानि च।
तानि सर्वाणि  नश्यन्तु  प्रदक्षिणपदे  पदे॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः प्रदक्षिणां समर्पयामि।

प्रार्थना

गौरी पद्मा शची मेधा सावित्री विजया जया।
देवसेना स्वधा स्वाहा मातरो लोकमातरः॥
धृतिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता।
गणेशेनाधिका ह्येता वृद्धौ पूज्यास्तु षोडश॥
ॐ जयति वरद मूर्तिर्मङ्गलं मङ्गलानाम्
जयति सकलवन्द्या भारती ब्रह्मस्वरूपा
जयति भुवनमाता चिन्मयी मोक्षरूपा
तानुभय महेशो वाङ्मय शब्दरूपः॥
आयुरारोग्यमैश्वर्यं ददध्वं मातरो मम ।
निर्विघ्नं सर्वकार्येषु कुरुध्वं सगणाधिपाः॥
ॐ भूर्भुवः स्वः गणेशसहित गौर्यादिषोडशमातृभ्यो नमः प्रार्थनापूर्वकं नमस्कारान् समर्पयामि।

समर्पण

गणेश सहित श्रीगौर्यादिषोडशमातृणां पूजनकर्मणो
यन्न्यूनमतिरिक्तं वा तत्सर्वं मातृणां प्रसादात्परिपूर्णमस्तु॥
अनया पूजया गणेश सहित श्रीगौर्यादिषोडशमातरः प्रीयन्ताम् न मम।

अन्ते – आसनाद्यः जलं निक्षिप्य ललाटे मृदा तिलकं धारयेत्।
यथा – यस्मिन् स्थाने कर्म कृत्वा शक्रो हरति तत्कर्मम्। तन्मृदा लक्ष्म कुर्वीत ललाटे तिलकाकृति॥

॥ इति श्रीषोडशमाातृकापूजनप्रकरणम् ॥

श्री हरिहरात्मकम् देवें सदा मुद मंगलमय हर्ष । सुखी रहे परिवार संग अपना भारतवर्ष ॥

Copyright © 2025 Hari Har Haratmak. All rights reserved.

"enter" 2025 | Powered By SpiceThemes