अथ् वसोर्धारा (सप्तघृतमातृका) पूजन
आग्नेय्यां भितौ कुङ्कुमादिना बिन्दुकरणेनाऽलङ्करणं कृत्वाऽऽगामिमन्त्रं पठन्, घृतेन सप्तधारा प्रासंस्था उदक्संस्था वा कुर्यात्।
(अग्निकोण में पीढ़े पर कुङ्कुम (रोली) से क्रमशः ऊपर से नीचे तक एक, दो, तीन, चार, पाँच, छह और सात बिन्दुओं को अकित कर अर्थात् ऊपर एक बिन्दु, उसके नीचे दो बिंदु, पुनः उसके नीचे तीन बिन्दु इसी प्रकार क्रमशः सात बिन्दु तक निर्माण कर, उन बिन्दुओं के ऊपर भाग में ‘श्री’ लिखें)
श्रीः, लक्ष्मी, वृति, मेधा, स्वाहा, प्रज्ञा, सरस्वती।
मांगल्येषु प्रपूज्यन्ते सप्तैता घृतमातरः॥
॥ श्रीः॥
०
० ०
० ० ०
० ० ० ०
० ० ० ० ०
० ० ० ० ० ०
० ० ० ० ० ० ०
(वसोर्धारा)
घृतधाराकरणम्
ॐ व्वसोः प॒वित्र॑मसि श॒तधारं॒ व्वसोः प॒वित्र॑मसि स॒हस्र॑धारम्।
दे॒वस्त्वा॑ सवि॒ता पु॑नातु॒ व्वर्सोह प॒वित्र्त्रे॑ण श॒तधारिण सुष्वा ॥
इति मन्त्रेण वसोर्धाराः कर्तव्याः। ‘कामघुक्षः’ इत्येतावता मन्त्रेण (धारामर्घभागेन) गुडेनैकीकरणम्। प्रतिधारामेकैकदेवतामावाहयेत्।
गुडैनैकीकरणम्
श्री पूर्व सप्त मातृश्च घृत मातृस्तथैव च।
गुडेन मेलयिष्यामि ताः सर्वार्थ प्रसाधिकाः॥
आवाहन स्थापन
ॐ मन॑सः काम॒माकुतिं व्वा॒चः स॒त्त्यम॑शीय।
प॒शू॒नाಆरू॒पमन्न॑स्य॒ रसो॒ वशः श्रीः श्र॑यतां मयि॒ स्वाहा॑॥
ॐ भूर्भुवः स्वः श्रियै नमः श्रियमावाहयामि स्थापयामि।
ॐ श्रीश्च॑ ते ल॒क्ष्मीञ्श्च॒च॒ पत्न्या॑वहोरात्रे पार्श्व्वे नक्षत्राणि रूपम॒श्विनौ ळ्यात॑म् ।
इ॒ष्ष्णन्न॑षाणा॒मुं म॑ ऽइषाण सर्व्वलो॒कम्म॑ ऽषाण ॥
ॐ भूर्भुवः स्वः लक्ष्म्यै नमः लक्ष्मीमावाहयामि स्थापयामि।
ॐ भद्द्रङ्कर्ण्णैभिः श्रृणुयाम देवा भ॒द्रम्प॑श्येमा॒क्षभि॑र्व्वजत्र्त्राः।
स्थिरैरङ्गैस्तुष्टुवाಆस॑स्त॒नूभिः॒ र्व्यशेमहि दे॒वहि॑तं॒ य्यदायुः॥
ॐ भूर्भुवः स्वः धृत्यै नमः धृतिमावाहयामि स्थापयामि।
ॐ मे॒धा मे॒ व्वरु॑णो ददातु मे॒धाम॒ग्निः प्प्र॒जाप॑तिः। मे॒धामि॒न्द्र॑श्श्च॑ वा॒युश्च॑ मे॒धां धाता द॑दातु मे॒ स्वाहा॑॥
ॐ भूर्भुवः स्वः मेधायै नमः मेधामावाहयामि स्थापयामि।
ॐ प्रा॒णाय॒ स्वाहा॑ ऽअपा॒नाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॒ चक्षु॑षे॒ स्वाहा॒ श्रोत्र्त्राय॒ स्वाहा॑ व्वा॒चे स्वाहा मन॑से॒ स्वाहा॑॥
ॐ भूर्भुवः स्वः स्वाहायै नमः स्वाहामावाहयामि स्थापयामि।
ॐ आयं गौः पृश्न्निरक्रम॒दस॑मा॒तरे॑ पु॒रः। पि॒तरं॑ च प्प्र॒यन्त्स्वः॑॥
ॐ भूर्भुवः स्वः प्रज्ञायै नमः प्रज्ञामावाहयामि स्थापयामि।
ॐ पाव॒का नः॒ सर॑स्वती॒ व्वार्जेभिर्व्वाजिनीं वति ।
य॒ज्ञं व्व॑ष्टु धि॒याव॑सुः॥
ॐ भूर्भुवः स्वः सरस्वत्यै नमः सरस्वतीमावाहयामि स्थापयामि।
प्राण प्रतिष्ठा
एतं ते देव सवितर्यज्ञं प्राहुर्बृहस्पतये ब्रह्मणे तेन यज्ञमव तेन यज्ञपतिं तेन मामव।
ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञं ಆ समिमं दधातु विश्वेदेवा स इह मादयन्नतामो३म्प्रतिष्ठ॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धाराः देवताभ्यो नमः सुप्रतिष्ठिताः वरदाः भवन्तु।
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः एतानि पाद्यार्घ्याचमनीय स्नानीय पुनराचमनीयानि समर्पयामि॥
दुग्धस्नान
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम्।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम्॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः पयः स्नानं समर्पयामि।
दधिस्नान
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः दधिस्नानं समर्पयामि।
घृत स्नान
नवनीतसमुत्पन्नं सर्वसंतोषकारकम्।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः घृतस्नानं समर्पयामि।
मधुस्नान
पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः मधुस्नानं समर्पयामि।
शर्करास्नान
इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम्।
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः शर्करास्नानं समर्पयामि।
पञ्चामृतस्नान
पञ्चामृतं मयानीतं पयो दधि घृतं मधु।
शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम्
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः पञ्चामृतस्नानं समर्पयामि।
गन्धोदकस्नान
मलयाचल सम्भूत चन्दनेन विनिःसृतम्।
इदं गन्धोदकस्नानं कुङ्कुमाक्तं च गृह्यताम्॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः गन्धोदकस्नानं समर्पयामि।
शुद्धोदकस्नान
गङ्गा च यमुना चैव गोदावरि सरस्वती।
नर्मदा सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः शुद्धोकस्नानं समर्पयामि।
आचमन
शुद्धोकदकस्नानान्ते आचमनीयं जलं समर्पयामि।
वस्त्र
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम्।
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः वस्त्रं समर्पयामि।
आचमन
वस्त्रान्ते आचमनीयं जलं समर्पयामि।
उपवस्त्र
यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम्॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः उपवस्त्रं (उपवस्त्राभावे रक्तसूत्रं) समर्पयामि।
आचमन
उपवस्त्रान्ते आचमनीयं जलं समर्पयामि।
चन्दन
श्रीखण्डं चन्दनं दिव्यं गंधाढ्यं सुमनोहरम्।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः चन्दनानुलेपनं समर्पयामि।
अक्षत
अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण परमेश्वरी॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः अक्षतान् समर्पयामि।
पुष्प
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।
मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः पुष्पं समर्पयामि।
दूर्वा
दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्।
आनीतांस्तव पूजार्थं गृहाण गणनायक॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः दूर्वाङ्कुरान् समर्पयामि।
सिन्दूर
सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः सिन्दूरं समर्पयामि।
अबीर गुलाल आदि नाना परिमल द्रव्य
अबीरं च गुलालं च हरिद्रादिसमन्वितम्।
नाना परिमलं द्रव्यं गृहाण परमेश्वरी॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः नानापरिमलद्रव्याणि समर्पयामि।
सुगन्धिद्रव्य
दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम्।
गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः सुगन्धिद्रव्यं समर्पयामि।
धूप
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः धूपमाघ्रापयामि।
दीप
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेश त्रैलौक्यतिमिरापहम्॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः दीपं दर्शयामि।
हस्तौप्रक्षालनः
‘ॐ हृषीकेशाय नमः’ कहकर हाथ धो लेवें।
नैवेद्य
(नैवेद्य को प्रोक्षित कर गन्ध पुष्पादि से आच्छादित करें। तदनन्तर जल से चतुष्कोण घेरा लगाकर भगवती के आगे रखें)
ॐ अमृतोपस्तरणमसि स्वाहा।
ॐ प्राणाय स्वाहा।
ॐ अपानाय स्वाहा।
ॐ समानाय स्वाहा।
ॐ उदानाय स्वाहा।
ॐ व्यानाय स्वाहा।
ॐ अमृतापिधानमसि स्वाहा।
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः नैवेद्यं निवेदयामि।
आचमन
नैवेद्यान्ते आचमनीयं जलं समर्पयामि।
ऋतुफल
इदं फलं मया देवी स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः ऋतुफलानि समर्पयामि।
उत्तरापोऽशन
ॐ मध्ये-मध्ये पानीयं समर्पयामि।
उत्तरापोशनं समर्पयामि।
हस्तप्रक्षालनं समर्पयामि।
मुखप्रक्षालनं समर्पयामि।
करोद्वर्तन
(मलय चन्दन समर्पित करें)
चन्दनं मलयोद्भुतं कस्तूर्यादिसमन्वितम्।
करोद्वर्तनकं देवी गृहाण परमेश्वरी॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः करोद्वर्तनकं चन्दनं समर्पयामि।
ताम्बूल
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः मुखवासार्थम् एलालवंगपूगीफलसहितं ताम्बूलं समर्पयामि।
दक्षिणा
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः कृतायाः पूजायाः सा द्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि।
आरती
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः अरार्तिकं समर्पयामि।
मन्त्र पुष्पांजलि
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वरी॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः पुष्पाञ्जलिं समर्पयामि।
प्रदक्षिणा
यानि कानि च पापानि जन्मान्तरकृतानि च।
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे॥
ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः प्रदक्षिणां समर्पयामि।
प्रार्थना
यदङ्गत्वेन भो देव्यः पूजिता विधिमार्गतः।
कुर्वन्तु कार्यमखिलं निर्विघ्नेन क्रतूद्भवम्॥
समर्पण
अनया पूजया वसोर्धारादेवताः प्रीयन्ताम् न मम।
आयुष्यमन्त्र
ॐ आयुष्यं वर्चस्य ಆ रायस्पोषमौद्भिदम्।
इद ಆ हिरण्यं वर्चस्वज्जैत्राया विशतादुमाम्॥
ॐ न तद्रक्षा ಆ सि न पिशाचास्तरन्ति देवानामोजः प्रथमज ಆ ह्येतत्।
यो विभर्ति दाक्षायण ಆ हिरण्य ಆ स देवेषु कृणुते दीर्घमायुः स मनुष्येषु कृणुते दीर्घमायुः॥
ॐ यदाबध्नन्दाक्षायणा हिरण्य ಆ शतानीकाय सुमनस्यमानाः।
तन्म आ बध्नामि शतशारदायायुष्मान् जरदष्टिर्यथासम्॥
यदायुष्यं चिरं देवाः सप्तकल्पान्तजीविषु।
ददुस्तेनायुषा युक्ता जीवेम शरदः शतम्॥
दीर्घा नागा नगा नद्योऽन्ताः सप्तार्णवा दिशः।
अनन्तेनायुषा तेन जीवेम शरदः शतम्॥
सत्यानि पञ्च भूतानि विनाशरहितानि च।
अविनाश्यायुषा तद्वज्जीवेम शरदः शतम्॥
ॐ आयुष्यम् आयुष्यम् आयुष्यम्।
पुष्पार्पण
आयुष्यमन्त्र श्रवणान्ते ॐ भूर्भुवः स्वः श्रियादि सहित सप्तघृतमातृका, वसोर्द्धारा देवताभ्यो नमः पुष्पार्पण समर्पयामि।
दक्षिणा संकल्प
ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्रीब्रह्मणो द्वितीये परार्धे श्रीश्वेतवाराहकल्पे सप्तमे वैवस्वतमन्वन्तरे अष्टाविशतितमे युगे कलियुगे कलिप्रथमचणे भूर्लोके भारतवर्षे जम्बूद्विपे भरतखण्डे आर्यावर्तान्तर्गतब्रह्मावर्तस्य मध्यदेशे पुण्यप्रदेशे गंगायमुनयोः पश्चिमदिग्भागे क्षिप्रायाः दक्षिण ते नर्मदाया उत्तरेतीरे मालवक्षेत्रे ओंकारमहाकालयोः मध्ये इन्दौर महानगरे ….…. क्षेत्रे देवद्विजगवां चरण सन्निधावास्मिन् श्रीमन्नृपतिवीरविक्रमादित्य समयतो ….…. संख्या परिमिते प्रवर्त्तमानसंवत्सरे प्रभवादिषष्ठि संवत्सराणां मध्ये ….…. नाम संवत्सरे, श्री सूर्य ….…. यायने, ….…. ऋतौ, महामांङ्गल्यप्रदे मासानाम् उत्तमे ….…. मासे, ….…. पक्षे, ….…. तिथौ, ….…. वासरे, ….…. नक्षत्रे, ….…. योगे, ….…. करणे, ….…. राशिस्थिते चन्द्रे, ….…. राशिस्थितेश्रीसूर्ये, ….…. राशिस्थिते देवगुरौ शेषेशु ग्रहेषु यथायथा राशिस्थानस्थितेषु सत्सु एवं ग्रहगुणविशेषणविशिष्टायां शुभपुण्यतिथौ ….…. गोत्रोत्पन्नस्य ….…. शर्मणः (वर्मणः, गुप्तस्य वा) अहं कृतैतदायुष्यवाचनकर्मणः साङ्गतासिद्ध्यर्थं तत्सम्पूर्णफलप्राप्त्यर्थं च आयुष्यवाचकेभ्यो ब्राह्मणेभ्यो यथाशक्ति मनसोद्दिष्टां दक्षिणां विभज्य दातुमहमुत्सृजे।
॥ इति श्री सप्तघृतमातृका पूजन ॥
श्री हरिहरात्मकम् देवें सदा मुद मंगलमय हर्ष । सुखी रहे परिवार संग अपना भारतवर्ष ॥