श्री सर्वतोभद्र मण्डल पूजन

“ॐ हरि हर नमो नमःॐ”
┉┅━❀꧁꧂❀┉┅━┉┅━

॥ सर्वतोभद्रमण्डल देवता पूजनम् ॥

ध्यातव्य  तथ्य :- सर्वतोभद्र मंडल पर सभी देवताओं का आवाहन किया जा सकता है। जिस देवता की प्रधान पूजा हो उसकी प्रतिमा या स्वर्ण मूर्ति मंडल के मध्य स्थापित करें। विष्णु पूजन में कहीं-कहीं अपवाद हो जाता है कि सर्वतोभद्र व विष्णु पूजन में अक्षत (चावल) नहीं “यवाक्षत” चढाये जाते है परन्तु “शालिग्राम प्रतिमा” पर ही चावल का निषेध है एवं विशेषतः एकादशी के दिन विष्णु के चावल नहीं चढाये जाते है। यथा लोकाचारानुसार भी किया जा सकता है।

सर्वतो भद्रमंडल में मध्य में चार श्वेत पद में ब्रह्मा का स्थान है उसके चारों ओर १२ रक्त पद है, उनके चारों ओर पीतवर्ण के २० पद है जिसको कर्णिका कहते है। परिधि समीप चारों कोणों में श्वेत पुंज त्रिपद खण्ड है। कर्णिका व परिधि के बीच चारों दिशा में श्वेत पुंज की २४ पद की वापी है। हर वापी के दोनों ओर रक्त पुंज के ९ पद के भद्र है, कुल आठ भद्र है बनते है। ब्रह्मा से ईशानादि चतुष्कोणों में कृष्ण वर्ण की ५ पद की बल्लियों है, प्रत्येक बल्लि के दोनो ओर हरित श्रृंखला है।

सपत्नीको यजमान: सर्वतोभद्रपीठस्य समीपे पूर्वाभिमुख उपविश्य आचमन प्राणायामञ्च कुर्यात्।

ततो हस्ते जलं गृहीत्वा, अद्य पूर्वंच्चारित० एवं गुण विशेषण विशिष्टायां शुभ पुण्य तिथौ प्रारब्धस्य अमुक यागस्याङ्गत्वेन सर्वतो भद्र मण्डल देवतानां पूजनं करिष्ये। इति संकल्प्य।

अक्षतान् गृहीत्बा मध्ये कर्णिकायां ब्रह्माणमावाहयेत्। ॐ ब्रह्मयज्ञानेत्यादिमन्त्राणां, गौतमाद्या ऋषयः, त्रिष्टुबादीनि छन्दांसि, ब्रह्मादयो देवताः सर्वतोभद्रमण्डलस्थदेवताऽऽवाहने पूजने च विनियोगः।

षोडशोपचारैः सम्पूज्य सर्वतोभद्रे कलशस्थापनविधिना कलशं स्थापयित्वा, कलशोपरि अग्न्यूत्तारणपूर्वक प्रधान प्रतिमां संस्थाप्य विधिना सम्पूजेयत्।

सर्वतोभद्रमण्डल देवता आवाहनं स्थापनम् पूजनम्

ॐ इमं रक्तवर्णन्तु तथाहस्त सुविस्तृतम् ।
इद्रध्वजं चालभामि महेन्द्राय सुप्रीतये ॥
अमिन्द्रध्वजं चित्रं सर्व विघ्न विनाशकम् ।
अस्मिन् मण्डप पार्श्वे तु स्थापयामि सुरार्चने ॥

हस्ते पुष्पाक्षत मादाय

(१) मध्ये कलशोपरि – ॐ ब्रह्मणे नमः ॐ भूर्भुवः स्वः ब्रह्मन्निहागच्छ इहतिष्ठ ।

दिक्पाल स्थापनम् – परिधि समीप श्वेत खण्डो में उत्तर से वायव्य तक ।

(२) उत्तरे – ॐ भूर्भुवः स्वः सोमाय नमः सोमम् इहागच्छ इहतिष्ठ।
(३) खण्डेंदौ – ॐ भूर्भुवः स्वः ईशानाय नमः ईशानम् इहागच्छ इहतिष्ठ।
(४) पूर्वे –ॐ भूर्भुवः स्वः इंद्राय नमः इंद्रम् इहागच्छ इहतिष्ठ।
(५) खण्डेंदौ – ॐ भूर्भुवः स्वः अग्नये नमः अग्निम् इहागच्छ इहतिष्ठ।
(६) दक्षिणे – ॐ भूर्भुवः स्वः यमाय नमः यमेहागच्छ इहतिष्ठ।
(७) नैऋत्ये, खण्डेंदौ – ॐ भूर्भुवः स्वः नैर्ऋतये नमः नैर्ऋत्येहागच्छ इहतिष्ठ।
(८) पश्चिमे –ॐ भूर्भुवः स्वः वरुणाय नमः वरुणम् इहागच्छ इहतिष्ठ।
(९) वायव्ये, खण्डेंदौ – ॐ भूर्भुवः स्वः वायवे नमः वायो इहागच्छ इहतिष्ठ।

भद्रमंडले स्थापनम् (रक्त पुंजेषु)

(१०) वायु सोमयोर्मध्ये – ॐ भूर्भुवः स्वः अष्टवसुभ्यो नमः अष्टवसु आवा० स्थाप०.।
(११) सोमईशानयोर्मध्ये – ॐ भूर्भुवः स्वः एकादशरुद्रेभ्यो नमः एकादशरुद्रान् आवा० स्थाप०।
(१२) ईशानपूर्वयोर्मध्ये – ॐ भूर्भुवः स्वः द्वादशादित्येभ्यो नमः द्वादिशादित्यान् आवा० स्थाप०।
(१३) इन्द्रणग्नयोर्मध्ये – ॐ भूर्भुवः स्वः अश्विनाभ्यां नमः अश्विनौ आवा० स्थाप०।
(१४) अग्नियमयोर्मध्ये – ॐ भूर्भुवः स्वः विश्वेभ्यो देवेभ्यो पितृभ्यो नमः विश्वेदेवा स पितरान् आवा० स्थाप०।
(१५) यमनिर्ऋतिर्मध्ये – ॐ भूर्भुवः स्वः सप्तयक्षेभ्यो नमः सप्तयक्षान् आवा० स्थाप०।
(१६) निर्ऋति वरुणयोर्मध्ये – ॐ भूर्भुवः स्वः भूतनागेभ्यो सर्पेभ्यों नमः भूतनागान्, सर्पान् आवा० स्थाप०।
(१७) वरुणवाय्वोर्मध्ये – ॐ भूर्भुवः स्वः गंधर्वाप्सरोभ्यो नमः गंधर्वाप्सरसः आवा० स्थाप०।
(१८) उत्तरे (ब्रह्म सोमयोर्मध्ये श्वेत २४ पुंजेषु वाप्याम् कर्णिका के समीप में – ॐ भूर्भुवः स्वः स्कंदाय नमः स्कन्दम् इहागच्छ इह तिष्ठ।
(१९) स्कंद के उत्तर में – ॐ भूर्भुवः स्वः नन्दिने नमः नंदीश्वर इहागच्छ इहतिष्ठ (वाप्याम्)।
(२०) नंदी के उत्तर में (वाप्याम्) – ॐ भूर्भुवः स्वः शूलमहाकालाभ्यां नमः शूलमहाकालौ आवा० स्थाप०।
(२१) ब्रह्मेशानयोर्मध्ये (कृष्ण पुंजेषु वल्लायाम्) – ॐ भूर्भुवः स्वः दक्षादिसप्तगणेभ्यो नमः दक्षादिसप्तगणान् आवा० स्थाप०।
(२२) ब्रह्मेन्द्रयोर्मध्ये वाप्याम् – ॐ भूर्भुवः स्वः दुर्गायै नमः दुर्गा आवा० स्थाप०।
(२३) तत्रैव दुर्गापूर्वे – ॐ भूर्भुवः स्वः विष्णवे नमः विष्णो इहागच्छ इहतिष्ठ।
(२४) ब्रह्माग्न्योर्मध्ये वल्लायाम् – ॐ भूर्भुवः स्वः स्वधायै नमः स्वधा आवा० स्थाप०। (कही कहीं पर पितरो का आवाहन का भी उल्लेख है)
(२५) ब्रह्मयमयोर्मध्ये वाप्याम् – ॐ भूर्भुवः स्वः मृत्युरोगाभ्यां नमः मृत्युरोगौ आवा० स्थाप०।
(२६) ब्रह्मनिर्ऋत्योर्मध्ये वल्लयाम् – ॐ भूर्भुवः स्वः गणपतये नमः गणपतिम् इहागच्छ इहतिष्ठ।
(२७) ब्रह्मवरुणयोर्मध्ये वाप्याम् – ॐ भूर्भुवः स्वः अद्भ्यो नमः आपः आवा० स्थाप०।
(२८) ब्रह्मवाय्वोर्मध्ये वल्लयाम् – ॐ भूर्भुवः स्वः मरुद्भद्भ्यो नमः मरुतः आवा० स्थाप०।
(२९) ब्रह्मणः पादमूले कर्णिकायाम् – ॐ भूर्भुवः स्वः पृथिव्यै नमः पृथिवीम् आवा० स्थाप०।
(३०) तत्रैव पृथिव्या उत्तरतः – ॐ भूर्भुवः स्वः गंगादिभिसरितेभ्यो नमः गंगादिव सप्तसरितः आवा० स्थाप०।
(३१) तत्रैव गंगात्तद्युतरे – ॐ भूर्भुवः स्वः सप्तसागरेभ्यो नमः सप्तसागरान् आवा० स्थाप०।
(३२) ब्रह्मणः मस्तके कर्णिकोपरि – ॐ भूर्भुवः स्वः मेरवे नमः मेरुम् आवा० स्थाप०।
(३३) उत्तरेसोमसमीपे – ॐ भूर्भुवः स्वः गदायै नमः गदाम् आवा० स्थाप०।
(३४) ईशानसमीपे – ॐ भूर्भुवः स्वः त्रिशूलाय नमः त्रिशूलम् आवा० स्थाप०।
(३५) इन्द्रसमीपे – ॐ भूर्भुवः स्वः वज्राय नमः वज्रम् इहागच्छ इहतिष्ठ।
(३६) अग्निसमीपे – ॐ भूर्भुवः स्वः शक्तये नमः शक्तिम् आ. स्था।
(३७) यमसमीपे – ॐ भूर्भुवः स्वः दण्डाय नमः दण्डं इहागच्छ इहतिष्ठ।
(३८) नैर्ऋतिसमीपे – ॐ भूर्भुवः स्वः खड्‌गाय नमः खड्गम् आवा० स्थाप०।
(३९) पश्चिमेवरुण समीपे – ॐ भूर्भुवः स्वः पाशाय नमः पाशम् आवा० स्थाप०।
(४०) वायव्यां वायुसमीपे – ॐ भूर्भुवः स्वः अंकुशाय नमः अंकुशम् आवा० स्थाप०।

(मण्डल के बाहरी और रक्तपरिधि में उत्तर से वायव्य पर्यन्त)

(४१) उत्तरे – ॐ भूर्भुवः स्वः गौतमाय नमः गौतमम् इहागच्छ इहतिष्ठ।
(४२) ऐशान्याम् – ॐ भूर्भुवः स्वः. भारद्वाजाय नमः भारद्वाजं इहागच्छ इहतिष्ठ।
(४३) पूर्वे – ॐ भूर्भुवः स्वः विश्वामित्राय नमः विश्वामित्रं इहागच्छ इहतिष्ठ।
(४४) आग्नेयाम् – ॐ भूर्भुवः स्वः कश्यपाय नमः कश्यपं इहागच्छ इहतिष्ठ।
(४५) दक्षिणे – ॐ भूर्भुवः स्वः जमदग्ने नमः जमदग्निं इहागच्छ इहतिष्ठ।
(४६) निर्ऋते – ॐ भूर्भुवः स्वः वसिष्ठाय नमः वसिष्ठं इहागच्छ इहतिष्ठ।
(४७) पश्चिमे – ॐ भूर्भुवः स्वः अत्रये नमः अत्रिं इहागच्छ इहतिष्ठ।
(४८) वायव्यां – ॐ भूर्भुवः स्वः अरुन्धत्यै नमः अरुन्धतिं इहागच्छ इहतिष्ठ।

ततो (मण्डल के बाहर कृष्ण परिधि में पूर्वादि क्रमेण)

(४९) पूर्वे – ॐ भूर्भुवः स्वः ऐन्द्रै नमः ऐन्द्रीम् आवा० स्थाप०।
(५०) आग्नेयाम् – ॐ भूर्भुवः स्वः कौमार्यै नमः कौमारीम् आवा० स्थाप०।
(५१) दक्षिणे – ॐ भूर्भुवः स्वः ब्राह्मयै नमः ब्राह्मीम् आवा० स्थाप०।
(५२) निर्ऋत्ये – ॐ भूर्भुवः स्वः वाराहै नमः वाराहीम् आवा० स्थाप०।
(५३) पश्चिमे – ॐ भूर्भुवः स्वः चामुण्डायै नमः चामुण्डाम् आवा० स्थाप०।
(५४) वायव्याम् – ॐ भूर्भुवः स्वः वैष्णव्यै नमः वैष्णवीम् आवा० स्थाप०।
(५५) उत्तरे- ॐ भूर्भुवः स्वः माहेश्वर्यै नमः माहेश्वरीम् आवा० स्थाप०।
(५६) ईशाने – ॐ भूर्भुवः स्वः वैनायक्यै नमः वैनायकीम् आवा० स्थाप०।

मन्त्रसहितौ सर्वतोभद्रमण्डल देवता आवाहनं स्थापनम्

(१) मध्ये कर्णिकायाम् (सर्वतोभद्रमण्डल मध्ये कलशे)

हरि÷ ॐ ब्रह्म ज्ज्ञानप्प्रथमं पुरस्ताद्विसीमतः सुरुचो व्वेन ऽआवः ।
स बुध्न्या ऽउपमा अस्य व्विष्ठ्ठा सतश्च योनिमसततश्च व्विवः ॥

ॐ त्वं वै चतुर्मुखो ब्रह्मास्वर्गे लोके पितामहः ।
आगच्छ मण्डले चास्मिन् मम सर्वार्थ सिद्धये ॥

(ॐ भूर्भुवः स्वः ब्रह्मणे नमः, ब्रह्मन् आवा० स्थाप० भो ब्रह्मन् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(२) उत्तरे वाप्यां सोमम् (परिधि समीपे)

हरि÷ ॐ वयᳬ सोमव्रते तव मनस्तनूषु बिभ्रतः ।
प्रजावन्तः सचेमहि ॥
आप्यायस्व समेतु ते व्विश्वतः सोम व्वृष्ण्यम् ।
भवा व्वाजस्य सङ्गथे ॥

ॐ क्षीरोदार्णव संभूतं लक्ष्मीं बंधु निशाकरम् ।
मण्डले स्थापयाम्यम सोमं सर्वार्थ सिद्धये ॥

(ॐ भूर्भुवः स्वः सोमाय नमः, सोम आवा० स्थाप०भो सोम अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(३) ईशान्यां खण्डेन्दौं ईशानम्

हरि÷ ॐ तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे व्वयम् ।
पूषा नो यथा व्वेदसा मसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ॥

ॐ ईशानींपालकं श्रेष्ठ सर्वलोक भयंकर ।
मण्डले स्थापयामीह ईशान्यां सर्वसिद्धये ॥

(ॐ भूर्भुवः स्वः ईशानाय नमः, ईशान आवा० स्थाप० भो ईशान अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(४) पूर्वस्यां दिशि वाप्यां इन्द्रम्

हरि÷ ॐ त्रातारमिन्द्रमवितारमिन्द्रᳬहवे हवे सुहव ᳬ शूरमिन्द्रम् ।
ह्वयामि शक्रं पुरुहूतमिंन्द्र ᳬ स्वस्ति नो मधवा धात्विन्द्रः ॥

ॐ इन्द्रं वो विश्वत स्परिहवामहे जनेभ्यः ।
अस्माकमस्तु केवलः ॥
सर्वलोकाधिपं श्रेष्ठं देवर्षिणां स पालकं । पूर्वादिकं पालकं देवराजं वै स्थापयाम्यहम् ॥

(ॐ भूर्भुवः स्वः इन्द्राय नमः, इन्द्रम्आवा० स्थाप०भो इन्द्रम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(५) आग्नेय्याम खण्डेन्दौ अग्निम्

हरि÷ ॐ त्वन्नो ऽअग्ने व्वरूणस्य व्विद्वान्देवस्य हेडो ऽअवथासिसीष्ठ्ठाः।
यजिष्ठ्ठो व्वह्ग्नितमः शोशुचानी व्विश्वा द्वेषाᳬसि ण्रभुंमुग्धयरभत् ॥

हरि÷ ॐ त्वन्नो ऽअग्ने तव देव पायुभिर्मघोनो रक्षतन्वश्च बंद्य ।
त्राता तोकस्य तनये गमावस्य निमेष ᳬ रक्षामाणस्तव व्रते ॥

ॐ अग्निदूतं वृणीमहे होतारं विश्ववेदसम् ।
अस्य यज्ञस्य सुक्रतुम ॥
त्रिपाद मेष वाहनं च त्रिशिखं च त्रिलोचनम् । आग्नेययां स्थापयाम्यत्र अग्निं पुरुषं-मुत्तमम् ॥

(ॐ भूर्भुवः स्वः अग्नये नमः, अग्ने आवा० स्थाप० भो अग्ने अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(६) दक्षिणे वाप्यां यमम् (परिधि समीपे)

हरि÷ ॐ यमाय त्वाङ्गिरस्वते पितृमते स्वाहा ।
स्वाहा धर्म्माय स्वाहा धर्म्म पित्रै ॥

ॐ यमाय साये सुनुतयमाय जुहुता हविः।
यमंहयज्ञो गच्छत्यग्नि दूतो अरंकृतः॥
नन्तकः अन्तकः सर्वलोकानां धर्म राज इतिश्रुतः।
अतस्तवां स्थापयाम्यत्र दक्षिणस्यां स्थिरोभवः॥

(ॐ भूर्भुवः स्वः यमाय नमः, यमम् आवा० स्थाप० भो यमम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(७) नैऋत्यां खण्डेन्दौ निर्ऋतिम् (परिधि समीपे)

हरि÷ ॐ असुन्वन्तम यजमान-मिच्छस्तेनस्या मन्विहि  तस्करस्य ।
अन्न्यमस्म्मदिच्छ सा त ऽइत्या नमो देवि निर्ऋते तुब्भ्यमस्तु ॥

ॐ मोषुणः परापरा निऋति‌र्द्दुर्हणा वधीत ।
यदीष्ट तृष्णयासह ॥
नैऋत्यां वसतिर्यस्य घोररूपी सदाहि यः ।
नैर्ऋतिं स्थापयाम्यत्र नैर्ऋत्यां मण्डले शुभे ॥

(ॐ भूर्भुवः स्वः नैर्ऋत्ये नमः, नैर्ऋतिंआवा० स्थाप० भो नैर्ऋतिं अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(८) पश्चिमे वाप्याम् वरुणम् (परिधि समीपे)

हरि÷ ॐ तत्वा यामि ब्रह्मणा व्वन्दमानस्तदाशास्ते यजमानो हविर्ब्भिः।
अहेडमानो व्वरुणेह ब्बोध्युरुशः ᳬ स मा न ऽआयुः प्प्रमोषीः॥

ॐ अपांपतिं पाशधरं यादसां च पतिं शुभं ।
वरुणं स्थापयाम्यत्र वारुणयां मंडले शुभे ॥

(ॐ भूर्भुवः स्वः वरुणाय नमः, वरुणम् आवा० स्थाप० भो वरुणम्अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(९) वायव्यां खण्डेन्दौ वायुम्

हरि÷ ॐ आ नो नियुद्भिः शतिनीभिरध्वरः ᳬ सहस्रिणीभिरुपयाहि यज्ञम् ।
व्वायो ऽअस्मिन्त्सवने मादयस्व यूयं पातस्वस्तिभिः सदा नः ॥

ॐ वायो शतं हरिणां युवस्व पोष्याणाम् ।
उतवाते सहस्रिणो रथ आयातु पाजसा ॥

(ॐ भूर्भुवः स्वः वायवे नमः, वायुम आवा० स्थाप० भो वायुम अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(१०) वायुसोमयोर्मध्ये भद्रे अष्टवसून् (अष्ट रक्तभद्रमंडलो पर क्रमशः)

हरि÷ ॐ व्वसुब्भ्यस्त्वा रुद्रेव्भ्यस्त्वाऽऽदित्येभ्यस्त्वा सञ्जानाथा द्यावापृथिवी मित्रावरुणौ त्त्वा वृष्ट्यावताम् ॥
व्व्यन्तु व्वयोक्त ᳬ रिहाणा मरुतां पृपतीर्ग्गच्छ व्वशा पृश्निर्भूत्त्वा दिवङ्गच्छ ततो नो व्वृष्ट्टि मावह ।
चक्षुष्प्पा ऽअग्नेऽसि चक्षुर्म्मे पाहि ॥

हरि÷ ॐ सुगावो देवाः सदना अकर्मय आजग्मेद ᳬ  सवनञ्जुषाणाः ।
भरमाणावहमाना हवी ᳬ ष्यस्मेधत्त वसवो वसूनि स्वाहा ॥

ॐ ज्मया अत्रवसवो रंतिदेवा उरावंतरिक्षे मर्जयंतः शुभ्राः ।
अर्वाक्पथ उरुज्रयः कृणुध्वं श्रोतो दूतस्य जग्मुषोनो अस्य ॥

(ॐ भूर्भुवः स्वः अष्टवसुभ्यो नमः, अष्टवसूनाम्आवा० स्थाप० भो अष्टवसूनाम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(११) सोमेशानर्योमध्ये भद्रे एकादशरुद्रान्

हरि÷ ॐ नम॑स्तेरुद्द्रमन्यव॑ऽउतोत॒ऽइष॑वे॒नम॑÷॥
बाहुब्भ्या॑मुत ते॒नम॑÷॥

हरि÷ ॐ रुद्रा स ᳬ सृज्य पृथिवीं बृहज्ज्योतिः समीधरे ।
तेषां भानुरजस्त्र इच्छुक्रो देवेषु रोचते ॥

हरि÷ ॐ आ रुद्रासः इन्द्रवंतः सजोषसो हिरण्य रथाः सुविनाय गंतनः ।
इयं वो अस्मन् प्रतिहर्यते मति स्तृणजेन ॥
दिव उत्सा उदन्यवे ॥

ॐ त्रिनेत्र रुद्ररूपाय त्रिजटाय महात्मने ।
नमस्कृत्य स्थापयामि मण्डलोपरिमध्यतः ॥

(ॐ भूर्भुवः स्वः एकादशरुद्राय नमः, एकादशरुद्रान्आवा० स्थाप० भो एकादशरुद्रान् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(१२) ईशानपूर्वयोर्मध्ये भद्रे द्वादशादित्यान्

हरि÷ ॐयज्ञो देवानोम्प्रत्त्येति सुम्न्नमादित्यासो भवता मृडयन्तः।
आ वोऽर्व्वाची सुमतिर्व्ववृत्याद ᳬ होश्चिद्द्या व्वरिवो वित्तरासदादित्येभ्यस्त्वाः॥

ॐ त्यांनु क्षत्रियां अव आदित्यान्या चिषामहे ।
सुमृडीकां अभिष्टये ॥
आदित्यं भास्करं चैव प्रभाकर दिवाकरौ ।
सूर्य ग्रहपतिं बुध्नं तेजोरूप धारम् हरिम् ॥
सप्ताश्वं देवमूर्तिं च त्रिदैवत्यं क्रमेण च ।
इत्यादि द्वादशदित्यान् मण्डले स्थापयाम्यहम् ॥

(ॐ भूर्भुवः स्वः द्वादशादित्याय नमः, द्वादशादित्यान्आवा० स्थाप० भो द्वादशादित्यान् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(१३) इन्द्राग्न्योर्मध्ये  भद्रेऽश्विनौ

हरि÷ ॐ अश्विना तेजसा चक्षुः प्राणेन सरस्वती वीर्यम् ।
वाचेन्द्रो वलेनेन्द्रायदधुरिन्द्रियम ॥

हरि÷ ॐ यावाङ्कशा मधुमत्यश्विना सूनृतावती तया यज्ञम् मिमिक्षतम् ।
उपयाम गृहीतोऽस्यश्विभ्यां त्वैषते योनिर्मादध्वीभ्यान्त्वा ॥

ॐ अश्विनावर्ति–रस्मदागोमद्दस्त्रा हिरण्यवत् ।
अर्वाग्रथं स मनसा नियच्छतम् ॥

(ॐ भूर्भुवः स्वः अश्विने नमः, अश्विना आवा० स्थाप० भो अश्विन अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(१४) अग्नियमोर्मध्ये भद्रे विश्वेदेवान् सपितृन्

हरि÷ ॐ व्विश्श्वेदेवास ऽआगत श्रृणुता म ऽइमᳬ हवम् । एदं वर्हिर्निषीदत ॥
उपयामगृहीतोऽसि व्विश्वेब्भ्यस्त्वा देवेव्भ्य ऽएष ते योनिर्व्विश्वेव्भयस्त्वा देवेब्भ्यः॥

हरि÷ ॐ आयन्तु नः पितरः सोम्यासोऽग्निष्वात्ताः पथिभिः देवयानैः ।
अस्मिन् यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेऽवन्त्वस्मान् ॥

हरि÷ ॐ ओमासश्चर्षणी धृतो विश्वे देवास ऽआगत । दाश्वां सो दाशुषः सुतम् ।
उपयामगृहीतोऽसि व्विश्वेब्भ्यस्त्वा देवेव्भ्य ऽएष ते योनिर्व्विश्वेव्भयस्त्वा देवेब्भ्यः॥

ॐ देवकर्मणि पित्रो च यौ मुख्यौ सर्वदा शुभौ ।
मण्डले स्थापयामि सुखानुष्ठान सिद्धये ॥

(ॐ भूर्भुवः स्वः सपैतृकविश्वेभ्यो देवेभ्यो नमः, सपैतृकविश्वान् देवानाम्आवा० स्थाप० भो सपैतृकविश्वान् देवानाम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(१५) यम निर्ऋत्योर्मध्ये भद्रे सप्तयक्षान्

हरि÷ ॐ अभित्यं देव ᳬ सवितारमोण्योः कविक्क्रतुमर्च्चामि सत्यसव ᳬ रत्न–धामभि प्प्रियंमतिं कविम् ।
उर्ध्वा यस्यामतिर्ब्भा ऽअदिद्युतत्सवीमनि हिरण्य पाणिर मिमीत सुक्रतुः कृपा स्वः।
प्प्रजाभ्यस्त्वा प्रजास्त्वाऽनुप्प्राणन्तु प्प्रजास्त्वमनुप्प्राणिहि ॥

ॐ यकृच्छया पर्यटं तो यक्ष राजा महितले ।
कौतुकं प्रेक्षितं घोरा मण्डले सन्तु सस्थिरा ॥

(ॐ भूर्भुवः स्वः सप्तयक्षेभ्यो नमः, सप्तयक्षान्आवा० स्थाप० भो सप्तयक्षान् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(१६) निर्ऋति वरुणयोर्यमध्ये भद्रे भूतनागान्

हरि÷ ॐ भूताय त्वा नारातये स्वरभिविक्ख्येषन्दृ ᳬ हन्तान्दुर्याः।
पृथिव्या मुर्वन्तरिक्षमन्वेमि पृथिव्यास्त्वा नाभौ  सादयाम्यदित्या उपस्थेऽअग्ने  हव्य ᳬ रक्ष ॥

हरि÷ ॐ आयंगौः पृश्निर क्रमीद सदनमातरं पुरः।
पितरं च प्रयन्त्स्वः॥

ॐ नमोऽस्तु सर्पेब्भ्यो ये के च पृथिवी मनु ।
येऽअन्तरिक्षे ये दिवि तेब्भ्य : सर्प्पेब्भ्यो नमः ॥
अष्टकुलनागेभ्यो स्वीकुर्वन्तु ममार्चनं ।
मण्डले पूजयामत्र सर्वारिष्ट प्रशान्तये ॥

(ॐ भूर्भुवः स्वः अष्टकुलनागेभ्यो नमः, अष्टकुलनागान्आवा० स्थाप० भो अष्टकुलनागान् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(१७) वरुणवाय्वोर्मध्ये भद्रे गन्धर्वाप्सरसः

हरि÷ ॐ ऋताषाड्‌ ऋतधामाग्निर्ग्गन्धर्व्वस्तस्यौषधयोऽप्सरसो मुदो नाम ।
स न ऽइदं ब्रह्म क्षत्रं पातु तस्म्मै स्वाहा व्वाट् ताब्भ्यृ स्वाहा ॥

ॐ अप्सरसां गंधर्वाणां मृगाणां चरणे चरन् ।
केशीके तस्य विद्वान् सखास्वावुर्मदिन्तमः ॥
उर्वशीप्रमुखाः सर्वाः स्ववेश्याः शक्र पूजिता ।
गंधर्वैश्च सदायान्तु मण्डलेस्मिन् सुशोभनाः ॥

(ॐ भूर्भुवः स्वः गन्धर्वाप्सरेभ्यो नमः, गन्धर्वाप्सरसःआवा० स्थाप० भो गन्धर्वाप्सरसः अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(१८) उत्तरे ब्रह्म सोमयोर्मध्ये वाप्यां स्कन्दनन्दीश्वरम् (२४ पुंजेषु वाप्याम् कर्णिका के समीप में)

हरि÷ ॐ यदक्रन्द्रः प्प्रथमं जायमान ऽउधन्त्समुद्रादुत वा पुरीषात् ।
श्येनस्य पक्षा हरिणस्य बाहू ऽउपस्तुत्त्यं महि जातं ते ऽअर्व्वन् ॥

षडाननं चतुर्हस्तं स्कंद शैल सुतात्मजं ।
इहैव पूजायिष्यामि सर्व कामार्थ सिद्धये ॥

(ॐ भूर्भुवः स्वः स्कन्दाय नमः, स्कन्दमम् आवा० स्थाप० भो स्कन्दम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(१९) तदुत्तरे (स्कन्दस्योत्तरे)

हरि÷ ॐ आशुः शिशा॑नोव्वृष॒भोनभीमोघनाघनः क्षोभ॑णश्श्चर्षणीनाम् ।
सङ्क्रन्द॑नोनिमि॒षऽए॑कवी॒रः श॒तःᳬ सेनाऽअजयत्साकमिन्द्रः ॥

ॐ ऋषभं मा समानानां सपत्नानां विषासहि ।
हंतारं शत्रूणांम् ऋधि विराजं गोपतिं गवां ॥
शिवद्वार गतस्त्वं च शिववाहनमुत्तमम् ।
पार्वत्याः प्रीतिकृन्मित्यम् इहागच्छ सुस्थिरोभव ॥

(ॐ भूर्भुवः स्वः वृषभाय नमः, वृषभम् आवा० स्थाप०भो वृषभम्अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(२०) तदुत्तरे (नन्दीस्योत्तरे)

हरि÷ ॐ कार्षिरसि समुद्रस्य त्त्वाक्षित्या ऽउन्नयामि ।
समापोऽअद्भिरग्मत समोषधीभिरोषधीः ॥

ॐ कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे ।
वोचेमशंतमं हदे ॥
त्र्यंबकं च त्रिपुरुषं नीलकण्ठं सदाशिवं ।
मण्डले स्थापयामिह सुखानुष्ठान सिद्धये ॥

(ॐ भूर्भुवः स्वः शूल महाकालाय नमः, शूलमहाकालम् आवा० स्थाप० भो शूलमहाकालम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

तदुत्तरे (शूलस्योत्तरे)

हरि÷ ॐकार्षिरसि समुद्रस्य त्त्वाक्षित्या ऽउन्नयामि ।
समापोऽअद्भिरग्मत समोषधीभिरोषधीः ॥

ॐ कुमारं माता युवतिः समुध्वं गुहा विभर्ति न ददाति पित्रे ।
अनीकमस्य नमिनज्जनासः पुरः पश्यन्ति निहितमरतौ॥

अदितिर्देवमाता त्वं दक्षपुत्रि सुशोभने । मण्डलेस्मिन् समागच्छ यावत्पूजां स्थिरोभव ॥

(ॐ भूर्भुवः स्वः महाकालीसहिताय महाकालाय नमः, महाकालीसहितायमहाकालाम्आवा० स्थाप० भो महाकालीसहितायमहाकालाम्अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(२१) ब्रह्मेशानयोर्मध्ये कृष्ण पुंजेषु  वल्लयाम् दक्षादिसप्त गणेभ्यो

हरि÷ ॐ शक्क्रज्ज्योतिश्च चित्रज्ज्योतिश्च सत्यज्जयोतिश्च ज्ज्योतिष्माँश्च ।
शुक्रश्च ऽऋतपाश्चात्य हाः॥

हरि÷ ॐ प्रजापते नत्वदेतान्यन्यो विश्वा रूपाणि परिता बभूव ।
यत्कामास्ते जूहुमस्तन्नो अस्त्वयममुष्य पिता सावस्य पिता वय ᳬ स्यामपतयो रयीणाम् ॥

ॐ अदिति र्ह्यजनिष्ट दक्ष या दुहिता तव ।
तान्देवा अन्वजायन्त भद्रा अमृतबंधवः ॥
दक्षोऽसि सर्वकार्येषु महान यज्ञकरः प्रियः । ऋषीणां सर्व दक्ष मण्डलेऽस्मिन् सुस्थिरोभव ॥

(ॐ भूर्भुवः स्वः दक्षादि सप्त गणेभ्यो नमः, दक्षादि सप्तगणानाम्आवा० स्थाप० भो दक्षादि सप्तगणानाम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(२२) ब्रह्मेन्द्रयोर्मध्ये वाप्याम दुर्गाम्

हरि÷ ॐ अम्बे ऽअम्बिके ऽम्बालिके न मा नयति कश्चन ।
ससस्त्यश्वकः सुभद्रिकां काम्पील वासिनीम् ।

ॐ तामग्निवर्णा तपसा ज्वलन्तीम् वैरोचनीं कर्मफलेषु जुष्टाम् ।
दुर्गा देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥

तामाग्निवर्णां ज्वलन्तीं तपसा सर्वदा शुभाम् ।
भक्तानां वरदां नित्यं दुर्गा आवाहाम्यहम् ॥

(ॐ भूर्भुवः स्वः दुर्गायै नमः, दुर्गाम् आवा० स्थाप० भो दुर्गाम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(२३) तत्रैव दुर्गा पूर्वे विष्णुम्

हरि÷ ॐ इदं व्विष्णुर्व्विचक्रमे त्रेधा निदधे पदम् ।
समूढमस्य पा ᳬ सुरे स्वाहा ॥

ॐ कृष्णाय गोपीनाथाय चक्रिणे मुरर्वैरिणे । नमस्तुभ्यं जगद्धात्रे मण्डलेस्मिन् सुस्थिरोभव ॥

(ॐ भूर्भुवः स्वः विष्णवे नमः, विष्णुम् आवा० स्थाप० भो विष्णुम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(२४) ब्रह्माग्न्योर्मध्ये वल्लीषु स्वधा सहित पितृन

हरि÷ ॐ पितृब्भ्यः स्वधायिब्भ्यः स्वधा नमः।
पितामहेब्भ्यः स्वधायिब्भ्यः स्वधा नमः।
प्प्रपितामहेब्भ्यः स्वधायिब्भ्यः स्वधा नमः।
अक्षन्न्पितरोऽमीमदन्त पितरोऽतीतृपन्त पितरः पितरः शुन्धद्‌ध्वम् ॥

त्वं स्वाहा त्वं स्वधा त्वं हि वषट्‌कारः स्वरात्मिका ।
अतस्त्वां पूजयिष्यामि मण्डले ऽस्मिन् सुस्थिरोभव ॥

(ॐ भूर्भुवः स्वः स्वधा सहितो पितृब्भ्यो नमः, स्वधा सहितो पितृन्आवा० स्थाप० भो स्वधा सहितो पितृन् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(२५) ब्रह्मयमयोर्मध्ये वाप्यां मृत्यु रोगान्

हरि÷ ॐ परं मृत्यो ऽअनु परेहि पन्थां यस्ते ऽअन्य ऽइतरो देवयानात् ।
चक्षुष्ष्मतेः श्र्श्रृण्वते ते ब्ब्रवीमि मा नः प्प्रजा ᳬ रीरिषो मोत व्वीरान् ॥

ॐ मृत्युरोगानंतकस्य प्रेष्यान् प्राणहरान क्षणात् ।
मण्डले स्थापयामीह पूजार्थं लोक नाशकान् ॥

(ॐ भूर्भुवः स्वः मृत्युरोगेभ्यो नमः, मृत्युरोगानाम्आवा० स्थाप० भो मृत्युरोगानाम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(२६) ब्रह्म निर्ऋत्योर्मध्ये वल्लीषु गणपतिम्

हरि÷ ॐ गणानां त्वा गणपति ᳬ हवामहे प्रियाणां त्वा प्रियपति ᳬ हवामहे निधीनां त्वा निधिपति ᳬ हवामहे व्वसो मम ।
आहमजानि गर्ब्भधमा त्वमजासि गर्ब्भधम् ॥

ॐ गणानांत्वा गणपति ᳬ हवामहे कवि कविना मुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनः श्रृण्वन्नूतिभिः सीद सादनम् ॥

(ॐ भूर्भुवः स्वः गणपतये नमः, गणपतिम आवा० स्थाप० भो गणपतिम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(२७) ब्रह्मवरुणयोर्मध्ये वाप्यामपः

हरि÷ ॐ आपो हि ष्ठा मयो भुवस्तान ऽऊर्ज्जे दधातन ।
महेरणाय चक्षसे ।

हरि÷ ॐअप्स्वग्ने सधिष्ठव सौषधीरनु रुध्यसे ।
गर्भे सञ्जायसे पुनः ॥

ॐ पावनाः सर्वलोकानां निमग्नाः शुद्धिकारकाः ।
सर्वपापहराः श्रेष्ठा मण्डले स्थापयाम्यहम् ।

(ॐ भूर्भुवः स्वः अद्भयो नमः, अपः आवा० स्थाप० भो अपःअस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(२८) ब्रह्मवायवोर्मध्ये वल्लीषु मरुतः

हरि÷ ॐ मरुतो यस्य हि क्षये पाथा दिवो व्विमहसः।
स सु गोपात मो जनः ॥

हरि÷ ॐ बृहदिन्द्रायगायत मरुतो वृत्रहन्त मम् ।
येन ज्ज्योतिरजनयन्न्नृतावृधो देवं देवाय जागृवि ॥

ॐ सुगंधिनश्च शैत्याढ्या मन्द मन्द वहाः सदा ।
तानहं स्थापयामीह मरुतो मण्डले शुभे ॥

(ॐ भूर्भुवः स्वः मरुद्भयो नमः, मरुतम् आवा० स्थाप० भो मरुतम्अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(२९) ब्रह्मणपादमूले कर्णिकाधः पृथिवीम्

हरि÷ ॐ स्योना पृथिवी नो भवा नृक्षरानिवेशनी ।
यच्छा नः शर्म्म सप्प्रथाः ॥

हरि÷ ॐ महीद्यौः पृथिवी च न इमं यज्ञम्मिमिक्षताम् ।
पिपृतान्नो भरीमभिः ॥

पृथिव्याधार्यते विश्वं दुर्वाहं सागरैर्नगै ।
अतस्त्वां स्थापयामिह मण्डले ब्रह्मणः पदे ॥

(ॐ भूर्भुवः स्वः पृथिव्यै नमः, पृथिवीम्आवा० स्थाप० भो पृथिवीम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(३०) तत्रैव गंगादिसप्तसरिताः

ॐ इमम्मे व्वरूणः श्र्श्रुधी हवमधा च मृडय ।
त्वामवस्यु रा च के ।

हरि÷ ॐइमम्मे गङ्गे यमुने सरस्वती शतुद्रिस्तोमं सचतापरुष्णया ।
असिवन्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ॥

गंगा सिन्धु सरस्वति च यमुना गोदावरी नर्मदा ।
कावेरी सरयू महेन्द्रतनया चर्मण्वती वेदिका ॥
क्षिप्रा वेदवती महासुरनदी ख्याता गया गण्डकी ।
पूर्णाः पूर्ण जलैः समुद्र सहितां आयान्तु मे मण्डले ॥

(ॐ भूर्भुवः स्वः गङ्गादिसप्तसरिद्भ्यो नमः, गङ्गादिसप्तसरिताम्आवा० स्थाप० भो गङ्गादिसप्तसरिताः अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(३१) तत्रैव सप्तसागरान्

हरि÷ ॐ समुद्रोऽसि नभस्वानार्द्रदानुः शम्भूर्मयो भूरभि मा व्वाहि स्वाहा ।
मारुतोऽसि मारुताङ्गणः शम्भूर्मयो भूरभि मा व्वाहि स्वाहा ।
अवस्यूरसि दुवस्वाञ्छम्भूर्मयो भूरभि मा व्वाहि स्वाहा ।

समुद्रः सर्वतोयेषु श्रेष्ठो वै हरिवल्लभः ।
मण्डले स्थापयामिह तं नदीशं सुखाप्तये ॥

(ॐ भूर्भुवः स्वः सप्तसागरेभ्योनमः, सप्तसागरान्आवा० स्थाप० भो सप्तसागरान् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(३२) कर्णिकापरिधौ मेरुम्

हरि÷ ॐ प्र पर्व्वतस्य व्वृषभस्य पृष्ठान्नावश्चरन्ति स्वसिच ऽइयानाः ।
ता ऽ आववृत्रन्नधरागुदक्ता ऽअहिम्बुध्न्यमनु रीयमाणाः व्विष्णोर्व्विक्रमणमसि व्विष्णोर्व्विकान्तमसि व्विष्णोः क्रान्तमसि ॥

(ॐ भूर्भुवः स्वः मेरवे नमः, मेरुम आवा० स्थाप० भो मेरुम अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(३३) ततः सोमादिक्रमेण ॐ सत्त्ववाह्यपरिधौ गदाम्

हरि÷ ॐ गणानां त्वा गणपति ᳬ हवामहे प्रियाणां त्वा प्रियपति ᳬ हवामहे निधीनां त्वा निधिपति ᳬ हवामहे व्वसो मम ।
आहमजानि गर्ब्भधमा त्वमजासि गर्ब्भधम् ॥

(ॐ भूर्भुवः स्वः गदायै नमः, गदेम् आवा० स्थाप० भो गदेम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(३४) ईशान्यां त्रिशूलम्

हरि÷ ॐ त्रि ᳬ शद्धाम व्विराजति व्वाक्पतङ्गाय धीयते। प्रतिवस्तोरहद्युभिः ॥

(ॐ भूर्भुवः स्वः त्रिशूलाय नमः, त्रिशूलम् आवा० स्थाप० भो त्रिशूलम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(३५) तत्रैव महेन्द्रम् (बज्रम्)

हरि÷ ॐ महाँ२ ऽइन्द्रो व्वज्रहस्तः षोडशी शर्म्म यच्छतु ।
हन्तुंपाप्मानं य्योऽस्मान् द्वेष्ट्टि ।
उपयामगृहीतोऽसि महेन्द्राय त्त्वैष ते योनिर्म्महेन्द्राय त्त्वा ॥

(ॐ भूर्भुवः स्वः बज्रायै नमः, बज्रम् आवा० स्थाप० भो बज्रम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(३६) आग्नेयाम् शक्तिम्

हरि÷ ॐ व्वसु च में व्वसतिश्च मे कर्म्म च में शक्तिश्श्च में अर्थश्च्च मे ऽ एमश्च्चमे ऽइत्या च मे गतिश्च में यज्ञेन कल्प्प्पन्ताम् ॥

(ॐ भूर्भुवः स्वः शक्तयै नमः, शक्तिम् आवा० स्थाप० भो शक्तिम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(३७) दक्षिणे दण्डम्

हरि÷ ॐ इड ऽ एह्यदित ऽएहि काम्या ऽएत ।
मयि वः कामधरणं भूयात् ।

(ॐ भूर्भुवः स्वः दण्डाय नमः, दण्डम्आवा० स्थाप० भो दण्डम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(३८) नैर्ऋत्ये खड्‌गम्

हरि÷ ॐ खड्‌गो व्वैश्वदेवः श्वाकृष्णः कर्ण्णोगर्दभस्तरक्षुस्ते रक्षसामिन्द्राय सूकरः सि ᳬ हो मारुतः कृकलासः पिप्पका शकुनिस्ते शरव्यायै व्विश्श्र्वेषांदेवानां पृषतः॥

(ॐ भूर्भुवः स्वः खड्‌गाय नमः, खड्‌गम्आवा० स्थाप० भो खड्‌गम्अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(३९) पश्चिमे पाशम्

हरि÷ ॐ उदुत्तमं व्वरुण पाशमस्म्मदवाधमं व्विमध्यम ᳬ श्र्श्रथाय ।
अथा व्वयमादित्य व्व्रते तवानागसो ऽअदितये स्याम ॥

(ॐ भूर्भुवः स्वः पाशाय नमः, पाशम् आवा० स्थाप० भो पाशम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(४०) वायव्याम् अंकुशम्

हरि÷ ॐ अ ᳬ शुश्च्च मे रश्मिश्च्च मे ऽदाब्भ्यश्च मे ऽधिपतिश्च्चम म ऽउपा ᳬ शुश्च्च मे ऽन्तर्य्यामश्च्च म ऽऐन्द्र वायवश्च्च मे मैत्रा वरुणश्च्च म ऽआश्विनश्च्च मे प्प्रतिप्रस्थानश्श्च्च मे शुक्रश्च मे मन्थी च मे यज्ञेन कल्पन्ताम् ॥

(ॐ भूर्भुवः स्वः अंकुशाय नमः, अंकुशम् आवा० स्थाप० भो अंकुशम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

तद् वाह्ये उत्तरे रक्तपरिधौ सोमादि क्रमेण

(४१) उत्तरे गौतमाय

हरि÷ ॐ आयङ्गौः पृश्निरक्रमीद सदन्नमातरं पुरः पितरञ्च प्रयन्त्स्वः॥

हरि÷ ॐ अभित्वा गोत्तमागिरा जातवेदो विचर्षणे । द्युम्नैरभि प्रणोनुमः ॥

(ॐ भूर्भुवः स्वः गौतमाय नमः, गौतम्आवा० स्थाप०भो गौतम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(४२) ऐशान्यां भारद्वाजम्

हरि÷ ॐ अयन्दक्षिणा व्विश्श्वकर्म्मा तस्य मनो व्वैश्श्वकर्म्मणं ग्रीष्मो मानसस्त्रिष्टुभ् ग्रैष्म्मी त्रिष्टुभः स्वार ᳬ स्वारार्दन्तर्य्यामोत्तर्य्यामात् ञ्चदशः पञ्चदशाद् वृहद् भारद्‌द्वाजऽऋषिः प्प्रजापतिगृहीतया त्वया मनो गृह्णामि प्प्रजाब्भ्यः॥

ॐ एवानः स्पृधः समजा समत्विन्द्ररा रन्ध्रिमिथतीरदेवीः ।
विद्यामवस्तोर वसा गृणंतो भारद्वाजा उतत इन्द्र नूनम् ॥

(ॐ भूर्भुवः स्वः भारद्वाजाय नमः, भारद्वाजाम्आवा० स्थाप० भो भारद्वाजाम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(४३) पूर्वे विश्वामित्रम्

हरि÷ ॐ इदमुत्तरान्तस्वस्तस्य श्र्श्रोत्त्र ᳬ सौवᳬ शरच्छ्रौत्र्यनुष्टुप् शारद्यनुष्टुभ ऽऐडमैडान्न्मन्थी मन्थिन ऽएकवि ᳬश ऽएकवि ᳬ शाद्वैराजं व्विश्वामित्र ऽऋषिः प्प्रजापति गृहीतया त्वया श्र्श्रोत्रं गृह्यामि प्प्रजाब्भ्यः ॥

हरि÷ ॐ प्रसूतोभक्षमकरं च रावपिस्तोयं चेमं प्रथमः सूरिरून्मृजे ।
सुते सातेन यद्यागमं वां प्रति विश्वामित्र जमदग्नीदये ॥

(ॐ भूर्भुवः स्वः विश्वामित्राय नमः, विश्वामित्रम् आवा० स्थाप० भो विश्वामित्रम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(४४) आग्नेय्याम कश्यपम्

हरि÷ ॐ त्र्यायुषं जमदग्नेः कश्यपश्च त्र्यायुषम् । यद्‌देवेषु त्र्यायुषं तन्नो ऽअस्तु त्र्यायुषम् ॥

हरि÷ ॐ ऋये मंत्र कृतां स्तोयै कश्यपोद् वर्धयन् गिर सोमंनमस्य राजानं यो जज्ञे वारूधांपतिरिन्द्रायेन्दो परिस्रव ॥

(ॐ भूर्भुवः स्वः कश्यपाय नमः, कश्यपम् आवा० स्थाप० भो कश्यपम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(४५) दक्षिणे जमदग्निम्

हरि÷ ॐअयं पश्च्चाद् विश्वव्व्यचास्तस्य चाक्षुर्व्वैश्श्वं व्व्यचसं व्वर्षाश्च्चाक्षुष्यो जगती व्वार्षी जगत्त्या ऽऋक् सममृक्स्सामाच्छुक्क्रः शुक्क्रात्सप्प्तदशः सप्तदशाद् वैरुपं जमदग्निर्ऋषिः प्प्रजापति गृहीतया त्वया चक्षुर्गृह्णामि प्प्रजाब्भ्यः ॥

हरि÷ ॐ गणाना जमदग्निनायोना वृतस्य सीदतं ।
पातं सोममृतावृधा ॥

(ॐ भूर्भुवः स्वः जमदग्नये नमः, जमदग्निम्आवा० स्थाप० भो जमदग्निम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(४६) नैर्ऋत्यां वसिष्ठम्

हरि÷ ॐ अयं पुरो भुवस्तस्य प्प्राणो भौवाय नो व्वसन्तः प्प्राणाय नो गायत्री व्वासन्ती गायत्र्यै गायत्रं गायत्रादुपा ᳬ शुरुपा ᳬ शोस्त्रिवृत् त्रिवृतो रथन्तरं व्वसिष्ठिठ ऽऋषि : प्प्रजापतिगृहीतया त्वया प्प्राणं गृह्णामि प्प्रजाब्भ्यः ॥

ॐ उतासि मैत्रा वरणो वसिष्ठोर्वश्या ब्रह्मन् मनसोधिजातः ।
द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वेदेवाः पुष्करे त्वा ददन्ता ॥

(ॐ भूर्भुवः स्वः वसिष्ठाय नमः, वसिष्ठम् आवा० स्थाप० भो वसिष्ठम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(४७) पश्चिमे अत्रिम्

हरि÷ ॐ अत्र पितरो मादयद्धवं य्यथाभागमा वृषायद्धवम् ।
अमीमदन्त पितरो यथाभाग मा वृषायिषत ॥

अत्रिर्यद्वाभवरोहन्वीत सम जोहवीन्नाध मानेवयोषा ।
श्येमस्य चिज्जन सा नूतने नागच्छत मश्विना शंतमेन ।

(ॐ भूर्भुवः स्वः अत्रये नमः, अत्रिम् आवा० स्थाप० भो अत्रिम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(४८) वायव्यां अरुन्धतिम्

हरि÷ ॐ तं पत्नीभिरनुगच्छेम देवाः पुत्रैर्ब्भ्रातृभिरुत ना हिरण्ण्यैः नाकं गृब्भ्णानाः सुकृतस्य लोके तृतीये पृष्ट्ठे ऽअधिरोचने दिवाः ।

ॐ अत्रेर्यथानु सूर्यास्याद्वसिष्ठ स्याप्यरुंधती ।
कोशिकस्य यथा सती तथा त्वमपिभर्तरि ॥

(ॐ भूर्भुवः स्वः अरुन्धत्यै नमः, अरुन्धतीम् आवा० स्थाप० भो अरुन्धतीम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

ततो पूर्वादि क्रमेण् कृष्णपरिधिः मण्डलात् बहिः |

(४९) पूर्वे ऐन्द्रीम्

हरि÷ ॐ आदित्यै रास्न्नासीन्द्राण्या ऽउष्णीषः । पृषासि धर्म्माय दीष्ष्व ॥

(ॐ भूर्भुवः स्वः ऐन्द्रयै नमः, ऐन्द्रीम् आवा० स्थाप० भो ऐन्द्रीम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(५०) आग्नेय्याम कौमारीम्

हरि÷ ॐ अम्बे अम्बिके ऽम्बालिके न मा नयति कश्चन ।
ससस्त्यश्वकः सुभद्रिकां काम्पील वासिनीम् ॥

(ॐ भूर्भुवः स्वः कौमार्य्यै नमः, कौमारीम्आवा० स्थाप० भो कौमारीम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(५१) दक्षिणे ब्राह्मीम्

हरि÷ ॐ इन्द्रायाहि धियेषितो व्विप्प्रजूतः सुतावतः ।
उप व्ब्रह्याणि व्वाग्ग्घतः ॥

(ॐ भूर्भुवः स्वः ब्राह्मम्यै नमः, ब्राह्मीम्आवा० स्थाप० भो ब्राह्मीम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(५२) नैर्ऋत्यांवाराहीम्

ॐ इन्द्रस्थ क्रोडो अदित्यै प्राजस्यं दिशां जत्रवोऽदित्यैभसञ्जीभूतान् हृदयौपशेना ऽन्तरिक्ष पुरीतता नभ उदर्येण चक्रवाकौ मतस्नाभ्यां दिवं वृकाभ्यां गिरीन प्लाशिभि रुपलान प्लीन्हा वल्मीकान् कलोमभिग्लौं गुल्मान् हिराभिः स्रवन्तीर्हृदान् कुक्षिभ्यां समुद्रमुदरेण वैश्वानरं भस्म पुना ॥

(ॐ भूर्भुवः स्वः वाराह्यै नमः, वाराहीम्आवा० स्थाप० भो वाराहीम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(५३) पश्चिमे चामुण्डाम्

ॐ अम्बे अम्बिके ऽम्बालिके न मा नयति कश्चन ।
ससस्त्यश्वकः सुभद्रिकां काम्पील वासिनीम् ॥

(ॐ भूर्भुवः स्वः चामुण्डायै नमः, चामुण्डाम्आवा० स्थाप० भो चामुण्डाम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(५४) वायव्यै वैष्णवीम्

हरि÷ ॐ आप्यायस्व समेतु ते व्विश्वतः सोमव्वृष्ष्ण्यम् ।
भवा व्वाजस्य सङ्गथे ॥

(ॐ भूर्भुवः स्वः वैष्णव्यै नमः, वैष्णवीम्आवा० स्थाप० भो वैष्णवीम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(५५) उत्तरे माहेश्वरीम्

ॐ या ते रुद्र शिवा तनूरघोरा पाप – काशिनी । तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशीहि ।

(ॐ भूर्भुवः स्वः माहेश्वयैनमः,माहेश्वरीम्आवा० स्थाप० भो माहेश्वरीम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

(५६) ऐशान्यां वैनायकीम्

ॐ समख्ये देव्या धिया सन्दक्षिणयो रुचक्षसा । मा म ऽआयु : प्रमोषीर्म्मो ऽअहं तव व्वीरं व्विदेय तव देहि सन्दृशि ॥

(ॐ भूर्भुवः स्वः वैनायक्यै नमः, वैनायकीम्आवा० स्थाप०भो वैनायकीम् अस्मिन् मण्डले इहागच्छ इहतिष्ठ पूजां गृहाण सुप्रसन्नो भव ॥)

सर्वतोभद्र मण्डले विशेषदेवता आवाहनम्

अन्य विशेष देवताओं में अष्ट भैरव, अष्टरुद्र एवं अष्ट नाग देवताओं के “चतुर्थी” से आवाहन एवं प्रथमा से स्थापन पूर्वादि क्रम से करें।

अष्ट भैरव :- ॐ असितांग भैरवाय नमः पूर्वे। ॐ रूरू भैरवाय नमः। ॐ चण्ड भैरवाय नमः । ॐ क्रोध भैरवाय नमः । ॐ उन्मत्त भैरवाय नमः । ॐ कपाल भैरवाय नमः। ॐ भीषण भैरवाय नमः । ॐ संहार भैरवाय नमः।

रुद्रावाहनम् ॐ भवाय नमः । ॐ शर्वाय नमः। ॐ ईशानाय नमः। ॐ पशुपतये नमः । ॐ रुद्राय नमः। ॐ उग्राय नमः। ॐ भीमाय नमः। ॐ महते नमः।

अष्ट नाग आवाहनम् ॐ अनंताय नमः। ॐ वासुकये नमः। ॐ तक्षकाय नमः। ॐ कुलिशाय नमः। ॐ कर्कोटकाय नमः। ॐ शंखपालाय नमः। ॐ कंबलाय नमः। ॐ अश्वराय नमः।

एवमावाह्य प्रतिष्ठा

हरि÷ ॐ मनो॑जूतिर्ज्जु॑षता॒माज्ज्य॑स्य॒ बृह॒स्प्पति॑र्य॒ज्ञमि॒मन्त॑नो॒त्वरि॑ष्ट्टं य्यज्ञ ᳬ समि॒मन्द॑धातु॒ ।
व्विश्श्वे॑दे॒वास॑ऽइ॒हमा॑दयन्ता॒मो॑३ प्रति॑ष्ठ ॥

ॐ तदस्तु मित्रा वरुणतदग्ने शंयोरस्मभ्यमिदमस्तु शस्तं । अशीमपि गाधे मुतप्रतिष्ठां नमो दिवे वृहते सादनाय ॥

प्रतिष्ठा सर्वदेवानां मित्रा वरुण निर्मिता ।
प्रतिष्ठां ते करोम्यत्र मण्डले दैवतेः सह ॥

एता ब्रह्माद्यावाहित देवताः सर्वतोभद्रमण्डले सुप्रतिष्ठाः मम संमुखा सुप्रसन्ना वरदा भवत् सुप्रतिष्ठिता सन्तु”

पश्चात् आवाहितदेवताओं का षोडशोपचार से पूजन करें।

पूर्वोक्त ब्रह्माद्यावाहित प्रतिष्ठाप्य सर्वतो भद्र मण्डल देवतानां षोडशोपचारैः यथालब्धोपचारैः पूजनं कुर्यात् ।

आसनम्

ॐ विचित्ररत्न खचितं दिव्यास्तरणसंयुतम् ।
स्वर्णसिंहासनं चारु गृह्णीष्व सुरपूजित ॥

ॐ भूर्भुवः स्वः ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, आसनार्थे पुष्पं समर्पयामि । (आसन के लिए पुष्प अर्पण करे)

(पाद्य, अर्ध्य, आचमनीय, स्नानीय और पुनराचमनीय हेतु शुद्ध जल से अर्पण करें)

पाद्यम्

ॐ उष्णोदकं निर्मलं च सर्वसौगन्ध्यसंयुतम् ।
पादप्रक्षालनार्थाय पाद्यं ते प्रतिगृह्यताम ॥

ॐ भूर्भुवः स्वः ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, पादयो पाद्यं समर्पयामि । (जल अर्पण करें)

अर्घ्यम्

ॐ रौम्यपात्रे स्थिते तोयं गन्धपुष्पफलान्वितम् ।
सहिरण्यं ददाम्यर्घ्यै गृहाण परमेश्वरः ॥

ॐ भूर्भुवः स्वः ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, हस्तयोरर्घ्यं समर्पयामि। (गन्ध, अक्षत, पुष्प और फल से युक्त जलार्घ्य अर्पण करें)

आचमनम्

ॐ सर्वतीर्थसमायुक्तं सुगन्धि निर्मलं जलं ।
आचम्यार्थ मया दत्तं गृहाण परमेश्वर ॥

ॐ भूर्भुवः स्वः ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, आचमनीयम् जलं समर्पयामि । <span;>(आचमन के लिये जल अर्पण करें)

स्नानम्

ॐ मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् ।
तदिदं कल्पितं देव ! स्नानार्थ प्रतिगृह्यताम ॥

ॐ भूर्भुवः स्वः ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, स्नानं समर्पयामि । स्नानीय पुनराचमनीयानि जलम् समर्पयामि । (शुद्ध जल से स्नान करायें, पश्चात आचमनीय जल अर्पण करें)

(ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्॥ एतानि पाद्यार्घ्याआचमनीय स्नानीय पुनराचमनीयानि समर्पयामि श्रीब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः।)

पञ्चामृत-स्नानम्

हरि॑÷ ॐ पञ्च॑ न॒द्यः सर॑स्वती॒मपि यन्ति॒ सस्त्रोतसः॑।
सर॑स्वती॒तु प॑ञ्च॒धा सो दे॒शेऽभ॑वत्स॒रित् ॥

ॐ पयो दधि घृतं चैव मधु च शर्करायुतम् ।
पञ्चामृतं मयाऽऽनीतं स्नानार्थं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, पञ्चामृतस्नानं समर्पयामि, पञ्चामृतस्नानान्ते शुद्धोदकस्नानम् । (गौदुग्ध, दही, घी, शहद, गुड अथवा शक्कर मिश्रित पञ्चामृत से स्नान कराएं, पश्चात शुद्ध जल से स्नान कराएं)

शुद्धोदक-स्नानम्

हरि॑÷ ॐ शुद्धवा॑लः स॒र्व्वशु॑द्धवालो मणि॒वाल॒स्त ऽआ॑श्श्विनाः श्येतः ।
श्येताक्षोऽरु॒णस्ते रु॒द्राय॑ पशुपत॑ये कर्ण्णा यामा
ऽअ॑वलिप्पता रौद्रा नर्भोरूपाः पार्ज्जन्न्याः॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, शुद्धोदकस्नानं समर्पयामि, शुद्धोदकस्नानान्ते, आचमनीयम् । (शुद्ध जल से स्नान कराएं, पश्चात आचमन के लिए जल अर्पण करें)

आचमनम्

ॐ सर्वतीर्थसमायुक्तं सुगन्धि निर्मलं जलं ।
आचम्यतां मया दत्तं गृहीत्वा परमेश्वर ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, आचमनीयं जलं समर्पयामि । (आचमन के लिये जल अर्पण करें)

वस्त्रम्

हरि॑÷ ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः।
तं धीरासः कवय उन्नयन्ति स्वाध्यो३ मनसा देवयन्तः॥

ॐ शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् ।
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ॥

ॐ सर्वभूषाधिके सौम्ये लोक लज्जानिवारिणे ।
मयोप पादिते तुभ्यं वाससी प्रतिगृह्यताम ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, वस्त्रं समर्पयामि, वस्त्रान्ते आचमनीयम् । (वस्त्र अर्पण करें, पश्चात आचमन के लिए जल अर्पण करें)

आचमनम्

हरि॑÷ ॐ अद्ध्य॑वोचदधिव॒क्क्ताप्र॑थ॒मोदैव्यो॑भि॒षक् ।
अहीँश्श्चसर्व्वाञ्जम्भयन्त्सवी॑श्श्च॒यातुधान्त्र्यो॒ऽध॒राची॒÷ परा॑सु॒व ॥

ॐ सर्वतीर्थसमायुक्तं सुगन्धि निर्मलं जलं ।
आचम्यतां मया दत्तं गृहीत्वा परमेश्वर ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, आचमनीयं जलं समर्पयामि । (आचमन के लिये जल अर्पण करें)

उपवस्त्रम्

हरि॑÷ ॐ सुजातो ज्ज्योतिषा सह शर्म्म व्वरुथमाऽसदत्स्वः ।
व्वासो ऽअग्ने व्विश्वरुप ᳬ सं व्ययस्व व्विभावसो ॥

ॐ यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम्॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, उपवस्त्रं (उपवस्त्राभावे रक्तसूत्रं) समर्पयामि, उपवस्त्रान्ते आचमनीयम । (उपवस्त्र अर्पण करें, पश्चात आचमन के लिए जल अर्पण करें)

आचमनम्

हरि॑÷ ॐअद्ध्य॑वोचदधिव॒क्क्ताप्र॑थ॒मोदैव्यो॑भि॒षक् ।
अहीँश्श्चसर्व्वाञ्जम्भयन्त्सवी॑श्श्च॒यातुधान्त्र्यो॒ऽध॒राची॒÷ परा॑सु॒व ॥

ॐ सर्वतीर्थसमायुक्तं सुगन्धि निर्मलं जलं ।
आचम्यतां मया दत्तं गृहीत्वा परमेश्वर ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, आचमनीयं जलं समर्पयामि । (आचमन के लिये जल अर्पण करें)

यज्ञोपवीतम्

हरि॑÷ ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥

यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीततेनोपनह्यामि ।

ॐ नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं मया दत्तं गृहाण परमेश्वर ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, यज्ञोपवीतं समर्पयामि, यज्ञोपवीतान्ते आचमनीयम् । (जनेऊ अर्पण करें, पश्चात आचमन के लिए जल अर्पण करें)

आचमनम्

हरि॑÷ ॐअद्ध्य॑वोचदधिव॒क्क्ताप्र॑थ॒मोदैव्यो॑भि॒षक् ।
अहीँश्श्चसर्व्वाञ्जम्भयन्त्सवी॑श्श्च॒यातुधान्त्र्यो॒ऽध॒राची॒÷ परा॑सु॒व ॥

ॐ सर्वतीर्थसमायुक्तं सुगन्धि निर्मलं जलं ।
आचम्यतां मया दत्तं गृहीत्वा परमेश्वर ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, आचमनीयं जलं समर्पयामि । (आचमन के लिये जल अर्पण करें)

गन्धम्-चन्दनम्

हरि॑÷ ॐ त्वां गन्धर्व्वा ऽअखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः ।
त्वामोषधे सोमो राजा व्विद्वान्यक्षमादमुच्यत ॥

ॐ श्रीखण्डं चन्दनं दिव्यं गंधाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ गृहाण परमेश्वरः ॥

ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीं ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, चन्दनानुलेपनं समर्पयामि । (अष्टगन्ध, मलय चन्दन अर्पण करें)

कुङ्कुम्

हरि॑÷ ॐकुङ्कुमं कामनादिव्यं कामना काम सम्भवम् ।
कुङ्कुमेनार्चितो देव गृहाण परमेश्वर ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, कुङ्कुमम् समर्पयामि । (लाल रोली अर्पण करें)

सिन्दूरम्

हरि॑÷ ॐ सिन्धोरिव प्प्राध्वने शूघनासो व्वातप्प्रमियः पतयन्ति यह्णाः ।
घृतस्य धारा ऽअरुषो न व्वाजी काष्ठ्ठा भिन्दन्नूर्म्मिभिः पिन्न्वमानः ॥

ॐ सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् ।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम ॥

ॐ भूर्भुवः स्वः ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, सिन्दूरम् समर्पयामि । (पीला सिन्दूर अर्पण करें)

नानापरिमल-द्रव्याणि

हरि॑÷ ॐअहिरिव भोगैः पर्य्येति बाहुँ ज्याया हेतिं परिबाधमानः ।
हस्तघ्नो व्विश्वा व्वयुनानि व्विद्वान् पुमान् पुमा ᳬ सं परि पातु व्विश्वतः ॥

ॐ अबीरं च गुलालञ्च चोवा चन्दमेव च ।
अबीरेणार्चितो देव ! अतः शान्ति प्रयच्छ मे ॥

ॐ अबीरं च गुलालं च हरिद्रादिसमन्वितम् ।
नानापरिमलद्रव्यं गृहाण परमेश्वर ॥

ॐ नाना परिमलैर्द्रव्यैर्निर्मितं चूर्णमुत्तमं ।
अबीरनामकंदिव्यं गन्धं चारु प्रगृह्यतां ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, नानापरिमल-द्रव्याणि समर्पयामि । (अबीर, गुलाल, हल्दी, मेंहदी आदि अर्पण करें)

अक्षतान्

हरि॑÷ ॐ अक्षन्नमीमदन्त ह्य्यव प्प्रिया ऽअधूषत ।
अस्तोषत स्वभानवो व्विप्रा नविष्ठ्ठया मती योजान्न्विन्द्र ते हरी ॥

ॐ अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः ।
मया निवेदिता भक्त्या गृहाण परमेश्वर ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, अक्षतान् समर्पयामि । (चावल अर्पण करें)

पुष्पाणि

हरि॑÷ ॐ ओषधीः प्रतिमोदध्द्व्वं  पुष्पवतीः प्रसूवरीः।
अश्श्वा ऽइव सजित्वरीर्व्वीरुधः पारयिष्ण्णव्वः॥

ॐ माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो
मयाहृतानि (मयाऽऽनीतानि) पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, पुष्पमालां समर्पयामि । (फूल एवं फूलमालाएँ अर्पण करें)

दूर्वाङ्कुरान्

हरि॑÷ ॐ काण्डात् काण्डात्प्ररोहन्ती परुषः परुषस्प्परि ।
एवा नो दूर्वे प्प्रतनु सहस्त्रेण शतेन च ॥

ॐ दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान् ।
आनीतांस्तव पूजार्थं गृहाण गणनायक ॥

ॐ दुर्वे ह्यमृतसम्पन्ने शतमूले शताङ्कुरे ।
शतं पातक-संहन्त्री शतमायुष्यवर्धिनी ॥

ॐ त्वं दूर्वेऽमृतजन्मासि वन्दितासि सुरैरपि ।
सौभाग्यं सन्ततिं देहि सर्वकार्यकरी भव ॥

ॐ विष्ण्वादिसर्वदेवानां दूर्वे त्वं प्रीतिदा सदा ।
क्षीरसागरसम्भूते वंशवृद्धिकरी भव ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, दूर्वाङ्कुरान् समर्पयामि । (दूब अर्पण करें)

बिल्वपत्रम्

हरि॑÷ ॐ नमो बिल्मिने च कवचिने च नमो व्वर्मिणे च वरुथिने च नमः ।
श्रुताय च श्रुतसेनाय च नमो दुन्दुव्भ्याय च हनन्याय च नमो धृष्णवे ॥

ॐ त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः ।
तव पूजां करिष्यामि गृहाण परमेश्वरः ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, बिल्वपत्राणि समर्पयामि । (बिल्वपत्र अर्पण करें)

सुगन्धि-द्रव्यम्

हरि॑÷ ॐ अ ᳬ शुना॑ ते अ॒ ᳬ शुः पृ॑च्च्यतां परु॑षाः परुः।
ग॒न्न्धस्ते॒ सोम॑मवतु मदा॑य॒ रसो ऽअच्यु॑तः ॥

ॐ चम्पकाशोकवकुल्मालतीमोगरादिभिः।
वासितं स्निग्धाहेतु तैलं चारु प्रगृह्यताम ॥
स्नेहं गृहाण सस्नेह लोकेश्वर दयानिधे ।
भक्त्या दत्तं मया देव स्नेहं ते प्रतिगृह्यतां ॥

ॐ दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम्।
गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम् ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, सुगन्धितद्रव्यं समर्पयामि । (सुगन्धित इत्र अर्पण करें)

धूपम्

हरि॑÷ ॐ धूरसि धूर्व्व धूर्व्वन्तं धूर्व्वतँ य्योऽस्म्माम्धूर्व्वति तन्धूर्व्वयं व्ययं धूर्व्वामः ।
देवानामसि व्वह्नितम ᳬ सस्न्नितमं पप्रितमं जुष्ट्टतमं देवहूतमम् ॥

ॐ वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, धूपमाघ्रापयामि । (धूप अर्पण करें)

दीपम्

हरि॑÷ ॐ अग्निर्ज्योतिर्ज्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्ज्योतिः सूर्यः स्वाहा ।
अग्निर्व्वर्चो ज्योतिर्व्वर्चः स्वाहा सूर्य्यो व्वर्चो ज्योतिर्व्वर्चः स्वाहा ॥
ज्योतिः सूर्य्यः सूर्य्योज्योतिः स्वाहा ॥

ॐ साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश त्रैलौक्यतिमिरापहम् ॥

ॐ भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, प्रत्यक्ष दीपं दर्शयामि । (दीपक के दर्शन कराकर, दीपक के पास चावल अर्पित करके हाथ धो लेवें)

(‘ॐ हृषीकेशाय नमः’ ‘ॐ गोविन्दाय नमः’ इति मन्त्रेण हस्तौप्रक्षालनः)

नैवेद्यम्

साधार पात्रे संस्थाप्य।
मूल मंत्रेण जलेन संप्रोक्ष्य।
गन्ध पुष्पाभ्याम् आच्छाद्य।
धेनुमुद्रया अमृतीकृत्य।
घण्टावादनम् पूर्वकं अन्तर्पट् निधाय।

(नैवेद्य को प्रोक्षित कर गन्ध पुष्पादि से आच्छादित करें। तदनन्तर जल से चतुष्कोण घेरा लगाकर भगवान के आगे रखें)

हरि॑÷ ॐ नाब्भ्या॑ऽआसीद॒न्तरि॑क्ष ᳬ शी॒र्ष्ष्णोद्यौः सम॑वर्त्तत ।
प॒द्भ्याम्भूमिर्द्दिशः श्रोत्र्त्रात्तथा॑लो॒काँ२॥ ऽअ॑कल्प्पयन् ॥

ॐ शर्कराखण्डखाद्यानि  दधिक्षीरघृतानि  च ।
आहारं भक्ष्यभोज्यंञ्च नैवेद्यं प्रतिगृह्यताम् ॥

धेनुमुद्रयाऽमृतीकृत्य ग्रासमुद्रा प्रदर्शयेत ॥ पूर्वापोशानम् समर्पयामि ।

ॐ अमृतोपस्तरणमसि स्वाहा । ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा ।

ॐ अतितृप्तिकरं तोयं सुगन्धि च पिवेच्छयौ ।
त्वयि तृप्ते जगत्तृप्तं नित्यतृप्ते महात्मनि ॥ मध्ये पानीयं समर्पयामि ।

ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा । उत्तरापोऽशनम् समर्पयामि । ॐ अमृतापिधानमसि स्वाहा ।

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, नैवेद्यं निवेदयामि । (नैवेद्य निवेदित करने के पश्चात आचमन के लिए जल अर्पण करें)

आचमनम्

हरि॑÷ ॐ अद्ध्य॑वोचदधिव॒क्क्ताप्र॑थ॒मोदैव्यो॑भि॒षक् ।
अहीँश्श्चसर्व्वाञ्जम्भयन्त्सवी॑श्श्च॒यातुधान्त्र्यो॒ऽध॒राची॒÷ परा॑सु॒व ॥

ॐ सर्वतीर्थसमायुक्तं सुगन्धि निर्मलं जलं ।
आचम्यतां मया दत्तं गृहीत्वा परमेश्वर ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः,नैवेद्यान्ते, आचमनीयं जलं समर्पयामि । (आचमन के लिये जल अर्पित करें)

ऋतुफलानि (अखण्ड ऋतुफल)

हरि॑÷ ॐ याः फलिनीर्य्या ऽअफला ऽअपुष्पा याश्च पुष्पिणीः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व ᳬ हसः ॥

ॐ इदं फलं मया देव स्थापितं पुरतस्तव ।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥

ॐ भूर्भुवः स्वः श्री सर्वतोभद्रमण्डलदेवताभ्यां नमः, ऋतुफलानि, अखण्ड ऋतुफलानि, समर्पयामि । फलान्ते आचमनीयं जलं समर्पयामि। मध्ये-मध्ये पानीयं समर्पयामि, उत्तरापोशनं समर्पयामि, हस्तप्रक्षालनं समर्पयामि, मुखप्रक्षालनं समर्पयामि ॥ (मौसम के अनुसार यथा शक्ति फल अर्पण करें, श्रीफल अर्पण करें)

करोद्वर्तनम्

हरि॑÷ ॐ सिञ्चति अप्रि षिञ्चन्त्युत्सिञ्चन्ति पुनन्ति च ।
सुरायै बभ्रूवै मदे किन्त्वो वदति किन्त्वः॥

हरि॑÷ ॐअ ᳬ शुना॑ ते अ॒ ᳬ शुः पृ॑च्च्यतां परु॑षाः परुः।
ग॒न्न्धस्ते॒ सोम॑मवतु मदा॑य॒ रसो ऽअच्यु॑तः ॥

ॐ चन्दनं मलयोद्भूतं कस्तूर्यादिसमन्वितम् ।
करोद्वर्तनकं देव गृहाण परमेश्वर ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, करोद्वर्तनार्थे चन्दनं समर्पयामि । (करोद्वर्तन हेतु मलय चन्दन अर्पण करें)

ताम्बूलम्

हरि॑÷ ॐ यत्पुरुषेण॒ह॒विषा॑दे॒वाय॒ज्ञमत॑न्वत । व॒स॒न्तो॒ऽस्यासी॒दाज्ज्य॑ङ्ग्रीष्मऽइ॒ध्मः श॒रद्ध॒विः ॥

ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, मुखवासार्थे एलालवंगपूगीफलसहितं ताम्बूलं समर्पयामि । (पान, सुपारी, लोंग, इलायची अर्पण करें)

दक्षिणाम्

हरि॑÷ ॐ हिरण्यगर्ब्भः समवर्तताग्रे भूतस्य जातः पतिरेकऽआसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥

ॐ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, कृतायाः पूजायाः सा द्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि । (सोना, चाँदी अथवा यथा शक्ति रुपये दक्षिणा के रूप में अर्पण करें)

नीराजनम् (आरार्तिक्यम)

हरि॑÷ ॐ इद ᳬ ह॒विः प्प्र॒जन॑न॑ मे ऽअस्तु॒ दश॑वीर॒ ᳬ सर्व्वगणा ᳬ स्व॒स्तये॑ ।
आ॒त्म॒सनि॑ प्प्रजा॒सनि॑ पशु॒सनि॑ लोक॒सन्न्य॑भय॒सनि॑ ।
अ॒ग्निः प्प्र॒जां बहुलां में करोत्वन्नं पयो रेतो॑ ऽअ॒स्म्मासु॑ धत्त ।

हरि॑÷ ॐ आ रात्र्त्रि पार्थ्थिव॒ ᳬ रजः पि॒तुर॑प्प्राय॒ धाम॑भिः ।
दि॒वः सदा॑ ᳬ ऽसि बृहुति व्वि ति॑ष्ठस॒ ऽआ त्त्वे॒षं व्व॑र्त्त॑ते तमः ॥

हरि॑÷ ॐ अ॒ग्ग्निर्द्देवता॒ व्वातो॑दे॒वता॒ सूर्य्यो॑दे॒वता॑ च॒न्द्रमा॑दे॒वता॒ व्वस॑वोदे॒वता॑ रु॒द्द्रादे॒वता॑ऽऽदि॒त्त्यादे॒वता॑ म॒रुतो॑दे॒वता॒ व्विश्श्वे॑दे॒वादे॒वता॒ बृह॒स्पति॑र्दे॒वतेन्द्रोंदे॒वता॒ व्वरु॑णोदे॒वता॑ ॥

ॐ कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥

ॐ कर्पूरगौरं करुणावतारं संसारसारं भूजगेन्द्रहारं ।
सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, कर्पूरनीराजनं अरार्तिकं समर्पयामि । (आरती करें)

मन्त्र-पुष्पांञ्जलिम्

हरि॑÷ ॐ य॒ज्ञेन॑ य॒ज्ञम॑य॒जन्त दे॒वास्तानि॒ धर्म्मा॑णि प्प्रथ॒मान्न्या॑सन् ।
तेहनाकम्महिमानः सचन्त॒यत्र्त्रपूर्व्वे साद्ध्याः सन्ति॑दे॒वाः ॥

हरि॑÷ ॐ राजाधिराजाय प्रसह्यसाहिने । नमो वयं वैश्रवणाय कुर्महे ।
स मे कामान् कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु ।
कुबेराय वैश्रवणाय महाराजाय नमः॥

हरि॑÷ ॐ स्वस्ति । साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समंन्तपर्यायी स्यात् सार्वभौमः सार्वायुषऽआन्तादा परार्धात् ।
पृथिव्यै समुद्रपर्यन्ताया एकराळिति ॥

हरि॑÷ ॐ तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्याऽऽवसन् गृहे ।
आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति ॥

हरि॑÷ ॐ विश्वतश्चक्षुरुत व्विश्वतो मुखो व्विश्वतोबाहुरुत व्विश्वतस्पात् ।
संम्बाहुभ्यां धमति संम्पतत्रैर्द्यावा भूमी जनयन् देव एकः ॥

ॐ एकदन्ताय विद्महे वक्रतुण्डाय धीमहि। तन्नोः दन्ती प्रचोदयात् ॥
ॐ कात्यायन्यै विद्महे कन्याकुमार्यै धीमहि। तन्नोः देवी प्रचोदयात् ॥

ॐ सेवन्तिका बकुल चम्पक पाटलाब्जै ।
पुन्नाग जाति करवीर रसाल पुष्पैः ॥
बिल्व प्रवाल तुलसीदल मंञ्जरीभिः ।
त्वां पूजयामि जगदीश्वर में प्रसीद ॥

ॐ कायेन वाचा मनसेन्द्रियैर्वा ।
बुद्ध्यात्मना वा प्रकृतिस्वभावात् । (वानुसृतस्वभावात्)।
करोमि यद्यत् सकलं परस्मै ।
नारायणायेति समर्पयेत्तत् ॥

ॐ नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च ।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर ॥

ॐ मालतीमल्लिकाजाती-शतपत्रादिसंयुताम् ।
पुष्पाञ्जलिं गृहाणेश तव पादयुगार्पितम् ॥

ॐ जानामिपूजनमहं न हि शास्त्रसिद्धं
शक्तिस्तु ते परिचिता मम सर्वतश्च ।
ॐ पुष्पाञ्जलिर्भगवतश्चरणाब्जयोस्ते,
सन्दीयते परिगृहाण विसृज्य दोषाम् ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, समन्त्रपुष्पाञ्जलिं समर्पयामि । (पुष्पाक्षत अर्पण करें)

प्रदक्षिणा

ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषा ᳬ सहस्रयोजनेऽव  धन्न्वानि तन्न्मसि ॥

ॐ यानि कानि च पापानि ज्ञाताऽज्ञात कृतानि च ।
शतानि सर्वाणि नश्यन्तु प्रदक्षिणां पदे पदे ॥

ॐ पदे पदे या परिपूज्यकेभ्यः सद्योऽश्वमेधादिफलं ददाति ।
तां सर्व पापक्षय हेतुभूतां प्रदक्षिणां ते परितः करोमि ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, प्रदक्षिणां समर्पयामि ।

प्रार्थना

यं ब्रह्या वरुणेन्द्र रुद्र मरुतः स्तुन्वन्ति दिव्यैः स्तवैर्वेदैः साङ्गपद क्रमोपनिषदैर्गायन्ति यं सामगाः।
ध्यानावस्थिततद् गतेन् मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुराऽसुरगणाः देवाय तस्मै नमः ॥

ॐ सशंखं चक्रं सकिरीट कुण्डलं सपीत वस्त्रं सरसीरुहेक्षणम् ।
सहार वक्ष स्थल कौस्तुभ श्रियं नमामि विष्णुं शिरसा चतुर्भुजम् ॥
वेणु विभूषित मुखान् नवनीरदाभात् पीताम्बरादरुण बिम्ब फलाधरोष्ठात् ।
पूर्वेन्दु सुन्दर मुखादरविन्द नेत्रात् कृष्णात् परं किमपि तत्तवमहं न जाने ॥

कस्तुरी तिलकं ललाट पटले वक्षः स्थले कोस्तुभम् ।
नासाग्रे वर मौक्तिकं करतले वेणुं करे कङ्कणम् ॥
सर्वाङ्गै हरि चन्दनं सुललितं कण्ठे च मुक्तावलीं ।
गोपस्त्री परिवेष्टितो विजयते गोपाल चूडामणि ॥
फुल्लेन्दीवर कान्तिमिन्दु वदनं बर्हावतं सप्रियम् ।
श्री वत्साङ्कमुदार कौस्तुभ धरं पीताम्बरं सुन्दरम् ॥
गोपीनां नयनोत्पलार्चिततनु गो गोप संघावृतम् ।
गोविन्दं कलवेणु वादन परं दिव्याङ्गभूषं भजे ॥

वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं,
वन्दे पन्नग भूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्य – शंशाङ्क वह्मिनयनं वन्दे मुकुन्द प्रियम्,
वन्दे भक्त जनाश्रयञ्च वरदं वन्दे शिवं शङ्करम् ॥

ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, प्रार्थनापूर्वकं नमस्कारान् समर्पयामि, नमस्करोमि । (प्रार्थनापूर्वक, प्रणाम, नमस्कार करें)

क्षमा-प्रार्थना

ॐ आवाहनम् न जानामि, न जानामि तवार्चनम् ।
पूजां चैव न जानामि, क्षमस्व परमेश्वरः ॥
अन्यथां शरणम् नास्ति, त्वमेव शरणम् मम् ।
तस्मात्कारुण्यभावेन् रक्षस्व परमेश्वर ॥
भूमौस्खलितपादानां भूमिरेवावलम्बनम् ।
त्वयिजाता पराधानाम् त्वमेव शरणम् मम् ॥
मत्समो नास्ति पापिष्ठस्त्वत्समोनास्ति पापहा ।
इतिमत्वा दयासिन्धो यथेच्छसि तथा कुरु ॥
गतं पापं गतं दुख॔ गतं दारिद्यमेव च ।
आगता सुख सम्पत्तिः पुण्योहं तव दर्शनात् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितम् मयादेव परिपूरणम् तदस्तु मे ॥
यदक्षरं पदभ्रष्टं मात्राहीनं च यद्भवेत् ।
तत्सर्वं क्षम्यताम् देव प्रसीद परमेश्वरः ॥
अपराध सहस्त्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वाक्षमस्व परमेश्वरः ॥

(ॐ भूर्भुवः स्वः श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो नमः, प्रार्थनापूर्वकं नमस्कारान् समर्पयामि । (क्षमा याचना करें)

समर्पणम्

सर्वतोभद्र पूजने कर्मं यन्न्यूनमधिकं कृतम् ।
तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम ॥

अनया पूजया श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो प्रीयेताम् न मम ।

अन्ते – आसनाद्यः जलं निक्षिप्य ललाटे मृदा तिलकं धारयेत् यथा…
यस्मिन् स्थाने कर्म कृत्वा शक्रो हरति तत्कर्मम् ।
तन्मृदा लक्ष्म कुर्वीत ललाटे तिलकाकृति ॥

ॐ श्री ब्रह्मादिसर्वतोभद्रमण्डलदेवताभ्यो प्रसादात् कर्तव्यामुककर्म निर्विघ्न समाप्तिश्चास्तु ।

॥ श्रीरस्तु ॥
❀꧁꧂❀

श्री हरि हरात्मक देवें सदा, मुद मंगलमय हर्ष।
सुखी रहे परिवार संग, अपना भारतवर्ष ॥
┉┅━❀꧁꧂❀━┅┉

– संकलनकर्ता –
श्रद्धेय पंडित विश्वनाथ द्विवेदी ‘वाणी रत्न’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक
(‘हरि हर हरात्मक’ ज्योतिष)
संपर्क सूत्र – 07089434899
┉┅━❀꧁꧂❀┉┅━┉┅━

 

× आपकी कैसे मदद कर सकता हूं?