श्री शालिग्राम पूजन विधान

ध्यान

ॐ नमोऽस्त्वनन्ताय सहस्रमूर्तये, सहस्रपादाक्षिशिरोरुबाहवे। सहस्रनाम्ने पुरुषाय शाश्वते सहस्त्रकोटियुगधारिणे नमः॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। ध्यानार्थे पुष्पाणि समर्पयामि।

आवाहन

ॐ सहस्त्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्।
स भूमि ಆ सर्वतः स्पृत्वाSत्यतिष्ठद्द्शाङ्गुलम्॥
आगच्छ भगवन् देव स्थाने चात्र स्थिरो भव।
यावत् पूजां करिष्यामि तावत् त्वं संनिधौ॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। आवाहनार्थे पुष्पं समर्पयामि।

आसन

ॐ पुरुषSएवेदं ಆ सर्वं यद्भूतं यच्च भाव्यम्।
उतामृतत्यस्येशानो यदन्नेनातिरोहति॥
अनेकरत्नसंयुक्तं नानामणिगणान्वितम।
भावितं हेममयं दिव्यमासनं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। आसनार्थे पुष्पाणि समर्पयामि।

पाद्य

ॐ एतावानस्य महिमातो ज्यायाँश्च पूरुषः।
पादोSस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥
गङ्गोदकं निर्मलं च सर्वसौगन्धसंयुतम्।
पादप्रक्षालनार्थाय दत्तं मे प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। पादयोः पाद्यं समर्पयामि।

अर्घ्यं

ॐ त्रिपादूर्ध्व उदैत्पुरुषः पादोSस्येहाभवत्पुनः।
ततो विष्वङ् व्यक्रामत्साशनानशनेSअभि॥
गन्धपुष्पाक्षतैर्युक्तमर्घ्यं सम्पादितं मया।
गृहाणार्घ्यं मया दत्तं प्रसन्नो वरदो भव॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। हस्तयोर्घ्यं समर्पयामि।

आचमन

ॐ ततो विराडजायत विराजोSअधि पूरुषः।
स जातोSअत्यरिच्यत पश्चाद्भूमिमथो पुरः॥
कर्पूरेण सुगन्धेन वासितं स्वादु शीतलम्।
तोयमाचमनीयार्थ॔ गृहाण परमेश्वरः॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। आचमनीयं जलं समर्पयामि।

स्नान

ॐ तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम्।
पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये॥
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्।
तदिदं कल्पितं देव स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः।  स्नानीयं जलं समर्पयामि।

स्नानाङ्ग आचमन – ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। स्नानान्ते आचमनीयं जलं समर्पयामि।

दुग्ध स्नान

ॐ पयः पृथिव्यां पयऽ ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः।
पयस्वतीः प्रदिशः सन्तु मह्यम्॥
कामधेनु समुद्भूतं सर्वेषां जीवनं परम्।
पावनं यज्ञहेतुश्च पयः स्नानार्थंमर्पितम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। दुग्धस्नानं समर्पयामि।

शुद्धोदक स्नान

ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्तऽआश्विनाः श्येतः
श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णायामा अवलिप्तारौद्रा नभोरूपाः पार्जन्याः॥
शुद्धं यत् सलिलं दिव्यं गङ्गाजलेन संस्मृतम्।
समर्पितं मया भक्त्या शुद्धस्नानाय प्रतिगृह्यताम॥
गृहाण त्वं रमाकान्त स्नानाय श्रद्धया जलम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। शुद्धोदकस्नानं समर्पयामि।

दधि स्नान

ॐ दधिक्राव्णोऽ अकारिषं जिष्णोरश्वस्य वाजिनः।
सुरभि नो मुखा करत्प्र ण आयू ಆ षि तारिषत्॥
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। दधिस्नानं समर्पयामि।

शुद्धोदक स्नान

ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्तऽआश्विनाः श्येतः
श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णायामा अवलिप्तारौद्रा नभोरूपाः पार्जन्याः॥
शुद्धं यत् सलिलं दिव्यं गङ्गाजलेन संस्मृतम्।
समर्पितं मया भक्त्या शुद्धस्नानाय प्रतिगृह्यताम॥
गृहाण त्वं रमाकान्त स्नानाय श्रद्धया जलम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। शुद्धोदकस्नानं समर्पयामि।

घृत स्नान

ॐ घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा।
दिशः प्रदिशऽआदिशो विदिशऽउद्दिशो दिग्भ्यः स्वाहा॥
नवनीतसमुत्पन्नं  सर्वसंतोषकारकम्।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। घृतस्नानं समर्पयामि।

शुद्धोदक स्नान

ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्तऽआश्विनाः श्येतः
श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णायामा अवलिप्तारौद्रा नभोरूपाः पार्जन्याः॥
शुद्धं यत् सलिलं दिव्यं गङ्गाजलेन संस्मृतम्।
समर्पितं मया भक्त्या शुद्धस्नानाय प्रतिगृह्यताम॥
गृहाण त्वं रमाकान्त स्नानाय श्रद्धया जलम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। शुद्धोदकस्नानं समर्पयामि।

मधु स्नान

ॐ मधुवाताऽ ऋतायते मधु क्षरन्ति सिन्धवः। माध्वीर्नः सन्त्वोषधीः॥
मधु नक्तमुतोषसो मधुमत्पार्थिव ಆ रजः। मधुद्यौरस्तु नः पिता॥
मधुमान्नो वनस्पतिर्मधुमाँऽ२ अस्तु सूर्यः। माध्वीर्गावो भवन्तु नः॥
पुष्परेणुसमुद्भूतं   सुस्वादु   मधुरं  मधु।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। मधुस्नानं समर्पयामि।

शुद्धोदक स्नान

ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्तऽआश्विनाः श्येतः
श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णायामा अवलिप्तारौद्रा नभोरूपाः पार्जन्याः॥
शुद्धं यत् सलिलं दिव्यं गङ्गाजलेन संस्मृतम्।
समर्पितं मया भक्त्या शुद्धस्नानाय प्रतिगृह्यताम॥
गृहाण त्वं रमाकान्त स्नानाय श्रद्धया जलम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। शुद्धोदकस्नानं समर्पयामि।

शर्करा स्नान

ॐ अपा ಆ रसमुद्वयस ಆ सूर्ये सन्त ಆ समाहितम्। अपा ಆ रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयाम गृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम्॥
इक्षुरससमुद्भूतां  शर्करां पुष्टिदां  शुभाम्।
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। शर्करास्नानं समर्पयामि।

शुद्धोदक स्नान

ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्तऽआश्विनाः श्येतः
श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णायामा अवलिप्तारौद्रा नभोरूपाः पार्जन्याः॥
शुद्धं यत् सलिलं दिव्यं गङ्गाजलेन संस्मृतम्।
समर्पितं मया भक्त्या शुद्धस्नानाय प्रतिगृह्यताम॥
गृहाण त्वं रमाकान्त स्नानाय श्रद्धया जलम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। शुद्धोदकस्नानं समर्पयामि।

पञ्चामृत स्नान

ॐ पञ्च नद्यः सरस्वतीमपियन्ति सस्त्रोतसः।
सरस्वती तु पञ्चधा सो देशेऽभवत्सरित्॥
पयो दधि घृतं चैव मधुशर्करयान्वितम्।
पञ्चामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। पञ्चामृतस्नानं समर्पयामि।

शुद्धोदक स्नान

ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्तऽआश्विनाः श्येतः
श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णायामा अवलिप्तारौद्रा नभोरूपाः पार्जन्याः॥
शुद्धं यत् सलिलं दिव्यं गङ्गाजलेन संस्मृतम्।
समर्पितं मया भक्त्या शुद्धस्नानाय प्रतिगृह्यताम॥
गृहाण त्वं रमाकान्त स्नानाय श्रद्धया जलम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। शुद्धोदकस्नानं समर्पयामि।

गन्धोदकस्नान

ॐ अ ಆ शुना ते अ ಆ शुः पृच्यतां परुषा परुः।
गन्धस्ते सोममवतु मदाय रसो अच्युतः॥
मलयाचल सम्भूत चन्दनेन विमिश्रितम्।
इदं गन्धोदकस्नानं कुङ्कुमाक्तं च गृह्यताम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। गन्धोदकस्नानं समर्पयामि।

शुद्धोदक स्नान

ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्तऽआश्विनाः श्येतः
श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णायामा अवलिप्तारौद्रा नभोरूपाः पार्जन्याः॥
शुद्धं यत् सलिलं दिव्यं गङ्गाजलेन संस्मृतम्।
समर्पितं मया भक्त्या शुद्धस्नानाय प्रतिगृह्यताम॥
गृहाण त्वं रमाकान्त स्नानाय श्रद्धया जलम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। शुद्धोदकस्नानं समर्पयामि।

महाअभिषेकम्

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्।
स भूमिं विश्वतोवृत्वात्यतिष्ठद्दशांगुलम्॥१॥
पुरुष एवेदम् सर्वं यद्भूतम् यच्च भव्यम्। उतामृतत्वस्येशानो यदह्नेनाऽतिरोहति॥२॥
एतावानस्य महिमातो ज्यायांश्च पुरुषः।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥३॥त्रिपादूर्ध्वं उदैत् पुरुषः पादोस्येहा पुनः।
ततो विश्वं व्यक्रामच्छाशनान शने अभि॥४॥
तस्माद्विराडजायत विराजो अधिपुरुषः।
सहातो अत्यरिच्यत पश्चात् भूमिमतो पुरः॥५॥
यत्पुरुषेन हविषा देवा यज्ञमतन्वत।
वसन्तो अस्यासीद्दाज्यम् ग्रीष्म इद्ध्म शरद्धविः॥६॥
सप्तास्यासन्परिधयस्त्रि सप्त समिधः कृताः।
देवा यद्यज्ञं तन्वानाः अबध्नन्पुरुषं पशुं॥७॥
तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः।
तेन देवा अयजन्त साध्या ऋषयश्च ये॥८॥तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यं।
पशून्तांश्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये॥९॥तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे।
छंदांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥१०॥
तस्मादश्वा अजायन्त ये के चोभयादतः।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः॥११॥यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्।
मुखं किमस्य कौ बाहू का उरू पादा उच्येते॥१२॥ब्राह्मणोऽस्य मुखामासीद्बाहू राजन्य: कृत:।
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रोऽजायत॥१३॥चंद्रमा मनसो जातश्चक्षोः सूर्यो अजायत। मुखादिंद्रश्चाग्निश्च प्राणाद्वायुरजायत॥१४॥
नाभ्या आसीदंतरिक्ष ಆ शीर्ष्णो द्यौः समवर्तत। पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँऽअकल्पयन्॥१५॥
वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे।
सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वा भिवदन्यदास्ते॥१६॥
धाता पुरस्ताद्यमुदाजहार शक्रफ्प्रविद्वान् प्रतिशश्चतस्र।
तमेव विद्वान् अमृत इह भवति नान्यत्पन्था अयनाय विद्यते॥१७॥
यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन्।
ते ह नाकं महिमानः सचंत यत्र पूर्वे साध्याः सन्ति देवाः॥१८॥

शुद्धोदक स्नान

ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्तऽआश्विनाः श्येतः
श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णायामा अवलिप्तारौद्रा नभोरूपाः पार्जन्याः॥
शुद्धं यत् सलिलं दिव्यं गङ्गाजलेन संस्मृतम्।
समर्पितं मया भक्त्या शुद्धस्नानाय प्रतिगृह्यताम॥
गृहाण त्वं रमाकान्त स्नानाय श्रद्धया जलम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। शुद्धोदकस्नानं समर्पयामि।

स्नानाङ्ग आचमन – ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। स्नानान्ते आचमनीयं जलं समर्पयामि।

वस्त्र

ॐ तस्माद्यज्ञात् सर्वहुतSऋचः सामानि जज्ञिरे।
छन्दा ಆ सि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम्।
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। वस्त्रं समर्पयामि।

आचमन – वस्त्रान्ते आचमनीयं जलं समर्पयामि।

उपवस्त्र

उपवस्त्र प्रयच्छामि देवाय परमात्मने।
भक्त्या समर्पितं देव प्रसीद परमेश्वर॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। उपवस्त्रं समर्पयामि।

आचमन – उपवस्त्रान्ते आचमनीयं जलं समर्पयामि।

यज्ञोपवीत

ॐ तस्मादश्वाSअजायन्त ये के चोभयादतः।
गावो ह जज्ञिरे तस्मात्तस्माज्जाताSअजावयः॥
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्।
उपवीतं मया दत्तं गृहाण परमेश्वरः॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। यज्ञोपवीतं समर्पयामि।

आचमन – यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि।

मधुपर्क

ॐ दधि मध्वाज्यसंयुक्तं पात्रयुग्म-समन्वितम्।
मधुपर्कं गृहाण त्वं वरदो भव शोभन॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। मधुपर्कं समर्पयामि। आचमनीयं जलं समर्पयामि।

गन्ध, चन्दन

ॐ तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः।
तेन देवाSअयजन्त साध्याSऋषयश्च ये॥
श्रीखण्डं चन्दनं दिव्यं गंधाढ्यं सुमनोहरम्।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। गन्धं समर्पयामि।

अक्षत (पीत अक्षत, अथवा श्वेत तिल समर्पित करें)

ॐ अक्षन्नमीमदन्त ह्यव प्रियाऽअधूषत।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती यो जान्विन्द्र  ते हरी॥
अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः।
मया  निवेदिता   भक्त्या  गृहाण  परमेश्वरः॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। अक्षतस्थाने श्वेततिलान् समर्पयामि।

पुष्प

ॐ इदं विष्णुर्विचक्रमे त्रेधा नि दधे पदम्।
समूढमस्य पा ಆ सुरे स्वाहा॥
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।
मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। पुष्पं समर्पयामि।

पुष्पमाला

ॐ ओषधीः प्रतिमोदध्वं पुष्पवतीः प्रसूवरीः।
अश्वाऽ इव सजित्वरीर्वीरुधः पारयिष्णवः॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। पुष्पमाल्यां समर्पयामि।

तुलसीपत्र

ॐ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्।
मुखं किमस्यासीत् किं बाहू किमूरू पादाSउच्येते॥
तुलसीं हेमरूपां च रत्नरूपां च मञ्जरीम्।
भवमोक्षप्रदां तुभ्यमर्पयामि हरिप्रियाम्॥
ॐ विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे। इन्द्रस्य युज्यः सखा॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। तुलसीदलं तुलसीमञ्जरीं च समर्पयामि।

दूर्वा

विष्ण्वादिसर्वदेवानां दूर्वे त्वं प्रीतिदा सदा।
क्षीरसागरसम्भूते वंशवृद्धिकरी भव॥
दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्।
आनीतांस्तव पूजार्थं गृहाण परमेश्वरः॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। दूर्वांङ्कुरान् समर्पयामि।

शमीपत्र

शमी शमयते पापं शमी शत्रुाविनाशिनी।
धारिण्यर्जुनबाणानां रामस्य प्रियवादिनी।
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। शमीपत्रं समर्पयामि।

आभूषण

वज्रमाणिक्यवैदूर्यमुक्ताविद्रुमण्डितम्।
पुष्परागसमायुक्तं भूषणं प्रतिगृह्यताम्॥
रत्नकङ्कणवैदूर्यमुक्ताहारादिकानि च।
सुप्रसन्नेन मनसा दत्तानि स्वीकुरुष्व भोः॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। अलङ्करणार्थे आभूषणानि समर्पयामि।

अबीर और गुलाल

नानापरिमलैर्द्रव्यैर्निर्मितं चूर्णमुत्तमम्।
अबीर नामकं चूर्णं गन्धं चारु प्रगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। अबीरं गुलालं च समर्पयामि।

सुगन्धितैल

ॐ अहिरिव भोगैः पर्येति बाहुं ज्यायाहेतिं परिबाधमानः।
हस्तघ्नो विश्वा वयुनानि विद्वान्पुमान पुमा ಆ सं परि पातु विश्वतः॥
तैलानि च सुगन्धीनि द्रव्याणि विविधानि च।
मया दत्तानि लेपार्थं गृहाण परमेश्वर॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। सुगन्धितैलादिद्रव्यं समर्पयामि।

धूप

ॐ ब्राह्मणोSस्य मुखमासीद् बाहू राजन्यः कृतः।
ऊरू तदस्य यद्वैश्यः पद्भ्या ಆ शूद्रोSअजायत॥
ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्वयं वयं धूर्वामः।
देवानामसि वह्नितम ಆ सस्नितमं पप्रितमं जुष्टतमं देवहूतमम्॥
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। धूपमाघ्रापयामि।

दीप

ॐ चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत॥
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। दीपं दर्शयामि।

नैवेद्य

(तुलसीदल डालकर निम्नलिखित पाँच ग्रास-मुद्राएँ दिखाएँ)

  • ॐ प्राणाय स्वाहा (कनिष्ठिका, अनामिका और अंगूठा मिलाएँ।)
  • ॐ अपानाय स्वाहा (अनामिका, मध्यमा और अंगूठा मिलाएँ।)
  • ॐ व्यानाय स्वाहा (मध्यमा, तर्जनी और अंगूठा मिलाएँ।)
  • ॐ उदानाय स्वाहा (तर्जनी, मध्यमा, अनामिका और अंगूठा मिलाएँ।)
  • ॐ समानाय स्वाहा (सभी अंगुलियां अंगूठे से मिलाएँ।)

ॐ नाभ्याSआसीदन्तरिक्ष ಆ शीर्ष्णो द्यौः समवर्त्तत।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ२Sअकल्पयन्॥
त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये।
गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। नैवेद्यं निवेदयामि।
मध्येपानीयजल एलोशीरलवङ्गादि कर्पूरपरिवासितम्।
प्राशनार्थ कृतं तोयं गृहाण परमेश्वर॥
मध्ये पानीयं जलं समर्पयामि। आचमनीयं जलं समर्पयामि।

ऋतुफल

ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्तव ಆ हसः॥
बीजपूराम्र- मनस-खर्जुरी-कदली-फलम्।
नारिकेल फलं दिव्यं गृहाण परमेश्वर॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। ऋतुफलं समर्पयामि।

आचमन

कर्पूरवासितं तोयं मन्दाकिन्याः समाहृतम्।
आचम्यतां जगन्नाथ मया दत्तं हि भक्तितः॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। आचमनीयं जलं समर्पयामि।

श्रीफल

फलेन फलितं सर्वं त्रौलोक्यं सचराचरम्।
तस्मात् फलप्रदानेन पूर्णाः सन्तु मनोरथाः॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। अखण्डं ऋतुफलं समर्पयामि।

ताम्बूल पुङ्गीफलम्

ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत।
वसन्तोSस्यासीदाज्यं ग्रीष्मSइध्मः शरद्धवि॥
पुङ्गीफलं महद्दिव्यं नागवल्लीदलैर्युतम्।
एलालवङ्गसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। ताम्बूलं समर्पयामि।

दक्षिणा

ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम॥
पूजाफलसमृद्ध्यर्थं दक्षिणा च तवाग्रतः।
स्थापिता तेन मे प्रीतः पूर्णान् कुरु मनोरथान्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। द्रव्यदक्षिणां समर्पयामि।

आरती मन्त्र

ॐ इद ಆ हविः प्रजननं मे अस्तु दशवीर ಆ सर्वगण ಆ स्वस्तये।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि।
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त॥
ॐ आ रात्रि पार्थिव ಆ रजः पितुरप्रायि धामभिः।
दिवः सदा ಆ सि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः॥
कदलीगर्भसम्भूतं कर्पूरन्तु प्रदीपितम्।
आरार्तिकमहं कुर्वे पश्य मां वरदो भव।।
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। आरार्तिक्यं समर्पयामि।

स्तुति प्रार्थना

प्रणवेन् च लक्ष्यो वै गायत्री च गदाधरः।
शालग्रामनिवासी च शालग्रामस्तथैव च॥
जलशायी योगशायी शेषशायी कुशेशय।
महीभर्ता च कार्यं च कारणं पृथिवीधरः॥
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥
नमो ब्रह्मण्य देवाय गोब्राह्मण हिताय च ।
जगद्विताय कृष्णाय गोविन्दाय नमो नमः॥
मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं।
यत्कृपा तमहं वन्दे परमानन्द माधवम्॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव॥
पापोऽहं पाप कर्माहं पापात्मा पापसम्भवः।
त्राहि मां पुण्डरीकाक्ष सर्वपाप हरो भव॥
कृष्णाय वासुदेवाय देवकी नन्दनाय च।
नन्दगोप कुमाराय गोविन्दाय नमो नमः॥

शंङ्खं जल यजमान अभिषेकम्

शंखमध्ये स्थितं तोयं भ्रामितं केशवोपरि।
अङ्गलग्नं मनुष्याणां ब्रह्महत्यां व्यपोहति॥

पुष्पांजलि

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः॥
ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे।
स मे कामान् काम कामाय मह्यं कामेश्वरो वैश्रवणो ददातु॥
कुबेराय वैश्रवणाय महाराजाय नमः।
ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात् सार्वभौमः सार्वायुष आन्तादापरार्धात् पृथिव्यै समुद्रपर्यन्ताया एकराळिति।
तदप्येषश्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे।
आवीक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति॥
ॐ विश्तश्चक्षुरुत विश्तोमुखो विश्तोबाहुरुत विश्वतस्पात्।
सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन् देवऽ एकः॥
ॐ तत्पुरुषाय विद्महे नारायणाय धीमहि तन्नो विष्णुः प्रचोदयात्॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यत्मना वाऽनुसृतस्वभावात्।
करोति यद्यत् सकलं परस्मै नारायणायेति समर्पये तत्॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। पुष्पाञ्जलिं समर्पयामि॥

प्रदक्षिणा

ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः।
तेषां ಆ सहस्त्रयोजनेऽव धन्वानि तन्मसि॥
यानि कानि च पापानि जन्मान्तरकृतानि च।
तानि सर्वाणि  नश्यन्तु  प्रदक्षिणपदे  पदे॥
ॐ भूर्भुवः स्वः श्रीमन्नारायणाय नमः। प्रदक्षिणां समर्पयामि।

क्षमा-प्रार्थना

मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दनः।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे॥
यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत्।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वरः॥

श्रीशालग्रामपूजने कर्म यन्न्यूनमधिकं कृतम्।
तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम॥
अनया पूजया श्रीशालग्राम देवताभ्योः प्रीयन्ताम् न मम।

विसर्जन

यजमानहितार्थाय पुनरागमनाय च।
गच्छन्तु च सुरश्रेष्ठाः स्वस्थानं परमेश्वराः॥

यजमान आशीर्वाद मन्त्रः

अक्षतान् विप्रहस्तात्तु नित्यं गृह्णन्ति ये नराः।
चत्वारि तेषां वर्धन्ते आयुः कीर्तिर्यशो बलम्॥
मन्त्रार्थाः सफलाः सन्तु पूर्णाः सन्तु मनोरथाः।
शत्राूणां बुद्धिनाशोस्तु मित्राणामुदयस्तव॥
ॐ श्रीर्वचस्वमायुमायुष्यमारोज्ञमाविधात्पवमानं महीयते।
धनं धान्यं पशुं बहुपुत्रलाभं शतसम्वत्सरं दीर्घमायुः॥

चरणामृत ग्रहण मन्त्र

पापव्याधिविनाशार्थं विष्णुपादोदकौषधम्।
तुलसीदलसम्मिश्रं जलं सर्षपमात्रकम्॥
अकालमृत्युहरणं सर्वव्याधिविनाशनम्।
विष्णुपादोदकं पीत्वा पुनर्जन्म न विद्यते॥

तुलसी ग्रहण मन्त्र

पूजनानन्तरं विष्णोरर्पितं तुलसीदलम्।
भक्षयेद्देहशुद्ध्यर्थं चान्द्रायणशताधिकम्॥

प्रसाद ग्रहण मन्त्र

बहुजन्मार्जित यन्मे देहेऽस्ति दुरितंहितत्।
प्रसाद भक्षणात्सर्वलयं याति जगत्पते
श्रीशालग्राम् प्रसादं गृहीत्वा भक्तिभावत।
सर्वान्कामान वाप्नोति प्रेत्य सायुज्यमाप्नुयात्॥

अन्ते – आसनाद्यः जलं निक्षिप्य ललाटे मृदा तिलकं धारयेत्
यथा – यस्मिन् स्थाने कर्म कृत्वा शक्रो हरति तत्कर्मम्। तन्मृदा लक्ष्म कुर्वीत ललाटे तिलकाकृति॥

॥श्रीरस्तु॥

श्री हरिहरात्मकम् देवें सदा मुद मंगलमय हर्ष । सुखी रहे परिवार संग अपना भारतवर्ष ॥

× आपकी कैसे मदद कर सकता हूं?