॥ ॐ श्री हनुमते नमः ॥
श्रीरघुराजपदाब्ज निकेतन पङ्कजलोचन मंगलराशे,
चण्ड महाभुजदण्ड सुरारि विखण्डन पण्डित पाहि दयालो।
पातकिनं च समुद्धर मां महता हि सतामपि मानमुदारं,
त्वां भजतो मम देहि दयाघन! हे हनुमत्! स्वपदाम्बुजदास्यम् ॥१॥
संसृतिताप महानलदग्ध तनूरुहमर्म तनोरतिवेलं,
पुत्रधनस्वजनात्म गृहादिषु सक्तमतेरतिकिल्विषमूर्तेः ।
केनचिदप्यमलेन पुराकृत पुण्यसुपुञ्जलवेन विभो वे,
त्वां भजतो मम देहि दयाघन! हे हनुमत्! स्वपदाम्बुजदास्यम् ॥२॥
संसृतिकूपमनल्पमघोर निदाघनिदानमजस्तमशेषं,
प्राप्य सुदुःख सहस्रभुजङ्गविषैक समाकुलसर्वतनोर्मे।
घोरमहाकृपणापदमेव गतस्य हरे पतितस्य भवाब्धौ,
त्वां भजतो मम देहि दयाघन! हे हनुमत्! स्वपदाम्बुजदास्यम् ॥३॥
संसृतिसिन्धुविशालकरालमहाबलकाल झषग्रसनार्तं,
व्यग्रसमग्रधियं कृपणं च महामदनक्र सुचक्र हृतासुम्।
कालमहारसनोर्मि निपीडितमुद्धर दीनमनन्यगतिं मां,
त्वां भजतो मम देहि दयाघन! हे हनुमत्! स्वपदाम्बुजदास्यम् ॥४॥
संसृतिघोरमहागहनेचरतो मणिरञ्जित पुण्य सुमूर्तेः,
मन्मथभीकर घोरमहोग्र मृगप्रवरार्दित गात्रसुगन्धेः।
मत्सरताप विशेषनिपीडित बाह्यमतेश्च कथञ्जिदमेयं,
त्वां भजतो मम देहि दयाघन! हे हनुमत्! स्वपदाम्बुजदास्यम् ॥५॥
संसृतिवृक्षमनेक शताघ निदानमनन्तविकर्म सुशाखं,
दुःखफलं करणादिपलाशमनङ्ग सुपुष्पमचिन्त्य सुमूलम्।
तं ह्यधिरुह्य हरे पतितं शरणागतमेव विमोचय मूढं,
त्वां भजतो मम देहि दयाघन! हे हनुमत्! स्वपदाम्बुजदास्यम् ॥६॥
संसृतिपन्नग वक्र भयंकर दंष्ट्र महाविषदग्ध शरीरं,
प्राणविनिर्गम भातिसमाकुल मन्धमनाथमतीव विषण्णम्।
मोहमहाकुहरे पतितं दययोद्धर मामजितेन्द्रियकामं,
त्वां भजतो मम देहि दयाघन! हे हनुमत्! स्वपदाम्बुजदास्यम् ॥८॥
इन्द्रिय नामक चौरगणैर्हृत तत्त्वविवेक महाधनराशिं,
संसृतिजालनिपातितमेव महाबलिभिश्च विखण्डितकायम्।
त्वत्पदपद्यमनुत्तममाश्रितमाशु कपीश्वर! पाहि कृपालो,
त्वां भजतो मम देहि दयाघन! हे हनुमत्! स्वपदाम्बुजदास्यम् ॥२॥
ब्रह्म मरुद्गण रुद्र महेन्द्र किरीट सुकोटि लसत्पदपीठं,
दाशरथिं जपति क्षितिमण्डल एष निधाय सदैव हृदाब्जे।
तस्य हनूमत एव शिवशंङ्करमष्टकमेतदनिष्टहरं वै,
यः संततं हि पठेत् स नरो लभतेऽच्युत रामपदाब्ज निवासम् ॥९॥
॥ श्रीहनुमदष्टकं सम्पूर्णम् ॥